विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/मलयाळं विकिपीडिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्वतन्त्रसद्यस्क विज्ञानकोश्स्य विकिपीडियायाः मलयाळभाषाविभागः भवति मलयाळविकिपीडिया । ज्ञानसम्पादनम्, ज्ञानभाजनम्, ज्ञानस्वतन्त्रीकरणमित्यादिभिः लक्ष्यैः सुगुणविज्ञानकोशनिर्माणं कामयमानः परस्परमाद्रियन्तः विज्ञानपिपासवः सद्यस्क समूहः मलयाळविकिपीडियायाः अस्याः पृष्ठभूमौ कार्यं कुर्वन्तः सन्ति।

चरित्रम्

मलयाळविकिपीडियायाः प्रादुर्भावः

२००२ डिसम्बर २१ दिनाङ्के तत्कालीन अमेरिकन् विश्वविद्यालये शोधच्छात्रः तिरुवनन्तपुरं वास्तव्यः श्री एम् पि विनोदेन मलयाळविकिपीडियायाः प्रस्तुत यु आर् एल् http://ml.wikipedia.org/ इति परिवर्त्य तत्प्रचारार्थं च प्रयत्नमकुर्वन् । परं तत् पूर्वमेव परीक्षणरूपेण मलयाळविकिपीडिया आसीत् इति दृश्यते । किन्तु स्वीय डोमैन् तथा विकीसमूहश्च मलयाळस्य नासीत् । २००२ डिसम्बर् २१ तारिकायां दृश्यमाने अस्मिन् जालविलासे मलयाळविकिपीडिया प्रारब्धा । तस्मात् औद्योगिक मलयाळ विकिपीडीया २००२ डिसम्बर् २१ तारिकायामारब्धा इति वक्तुं शक्यते । तद्दिने श्री विनोदेन लिखितं मलयाळ अक्षरमाला इति लेखनं मलयाळविकिपीडियायां ऐदम्प्रथमं विज्ञानसम्बद्धं लेखनं भवति । http://ml.wikipedia.org/ इति सङ्केतपरिवर्तनानन्तरं वर्षद्वयं यावत् मलयाळविकिपीडियामिमां सजीवां कर्तुं श्री विनोदः प्रयत्नमकुर्वन् । बहुकालं यावत् ते एकदायित्वेनैव प्रवर्तितवन्तः । विविधेषु मलयाळसद्यस्क विभागेषु तथा चर्चावेदिषु च स्पष्टमलयाळ पठन,लेखन साहाय्यमन्विष्य तेषां बह्व्यः लेखाः दरीदृश्यन्ते । मलयाळविज्ञानकोशस्यास्य प्रारम्भकाले विद्यामानाः सदस्याः सर्वे अपि वैदेशिकाः मलयाळिनः आसन् ।

मलयाळं युनिकोड् तथा विकिपीडिया

प्रारम्भदशायां मलयाळसदृशभाषायाः सङ्कणकयन्त्रे लेखितुं पठितुं च उपयुक्तानां लिपीनां व्यवस्था नासीत् । तस्मात् एता्सु भाषासु लिखितान् लेखान् पठितुं तत्तत् लेखकैः उपयुक्तानां वर्णलेखानां सङ्कणकयन्त्राणां च उपयोगः कर्तव्यः आसीत् । युनिकोड् इति सङ्कणकलिपिव्यवस्थायाः आगमनेन सङ्कणकयन्त्रे मलयाळलेखनं पठनं च सुकरमभवत् । अस्याः लिपिव्यवस्थायाः सार्वत्रिकोपयोगेन मलयाळविकिपीडिया सजीवा जाता ।

परिवृद्धौ मन्दता

एतादृशीं बृहतीं पद्धतीं अल्पीयानां सदस्यानां साहाय्येन अग्रेनयनमसाद्ध्यमासीत् । अतः प्रारम्भदशा मन्दतया आसीत् । २००२ प्रारब्धायमस्यां विकिपीडियायां २००६ पर्यन्तं न कापि पुरोगतिः जाता । २००४ मध्यकाले मलयाळं युनिोकोड् साहाय्येन तथैव इतर टङ्कणसामग्रीनां साहाय्येन केचन विकिपीडियायां लेखनमारब्धवन्तः । प्रारम्भकाले इतर विकिपीडिया सदृशं अस्यामपि विकिपीडियायां लखुलेखाः एव अधिकतया आसीत् । सम्भूय शतमपि नासीत् । २००४ डिसम्बर् मासे शतसङ्ख्या लेखनानि मलयाळविकिपीडियायां सृजानि । २००५ मध्यकाले नूतनानां सदस्यानां आगमनेन मुखपुटनिर्माणं, लेखनानां विषयानुसारेण क्रमीकरणं च प्रारबब्धम् । २००५ सप्टम्बर् मासे प्रथमप्रचालकः नियुक्तः । तदानीमारभ्य साङ्केतिककार्येषु मलयाळं विकिपीडिया स्वयम्पर्याप्तता सम्पादिता ।

विकासः

मलयाळटङ्कण ज्ञानिनः नासन् इत्यतः विकिपीडियायाः अस्याः विकासः ह्रासोन्मुखः आसीत् । युनिकोड् इत्यस्य उपयोगेन २००६ तः केरळे तथा विदेशेषु च विद्यमानाः केरळीयाः आहिकजाले टङ्कणस्य अभ्यासेन मलयाळ विकिपीडियां प्रति सश्रद्धानः सञ्जाताः। एवं सजीवप्रवर्तकानां साहाय्येन मलयाळ विकिपीडियायां विद्यमानानां लेखनानां सङ्ख्यायाम्, इतिवृत्ते च प्रगतिः सञ्जाता । अत्र लेखसङ्ख्या २००६ अप्रिल् १० दिनाङ्के ५००, सप्टम्बर् मासे १०००, नवम्बर् मासे १५००, २००७ जनवरि १५ दिनाङ्के २०००, जूण् ३० तमे दिनाङ्के ३००० इति च वर्धितम् ।