विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/रायगञ्जविश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

"रायगञ्जयुनिभर्सिटिकलेज" इति नाम्ना महाविद्यालयः उत्तरदिनाजपुरस्य बहूप्राचीन तथा प्रसिद्धमासीत् । साम्प्रतम् इयं महाविद्यालयः विश्वविद्यालयरुपेण परिवर्तनं जातम् । उत्तरदिनाजपुरः भारतवर्षस्य पश्चिमवङ्गराज्यस्य एका जिला अस्ति । पूर्वम् इयं जिला पश्चिमदिनाजपुर नाम्ना प्रसिद्धा आसीत् । इयं जिला बाङ्गलादेशसीमान्त संलग्नाः वर्तते । वर्तमाने इयं जिला द्विभागेन विभक्ताः - 1. उत्तरदिनाजपूरः, 2. दक्षिणदिनाजपूरः । उत्तरदिनाजपूरजिलायाः प्राणकेन्द्रं भवति रायगञ्जनगरम् । पूर्वे इयं जिलायाः सह बाङ्गलादेशस्य योगायोगमासीत् । अस्मिन् नगरे एकं विश्वप्रसिद्धम् पक्षिनिवासः अस्ति । अस्मिन् पक्षिनिवासे शैत्यकाले बहवविहगाः देशविदेशेषु आगच्छन्ति भ्रमनार्थम् । अस्मिन् नगरे "कुलिक" नाम्ना एका नदी अपि प्रवाहिता अस्ति । अस्मिन् जिलायां "तुलाई" इति नान्मा अन्नं सुविख्यातमस्ति ।

अस्य विश्वविद्यालये भूतपूर्वकेन्द्रीयजलसम्पदमन्त्रिप्रियरञ्जनदासमुन्सी अत्रैव पठितमासीत् । अस्मिन् विश्वविद्यालयस्य छात्राः देशविदेशेषु प्रसिद्धासन् । अस्य विश्वविद्यालये वहूविभागाः सन्ति । तथा - बाङ्गला, संस्कृतं,आङ्गलो,उद्भिदविद्या,इतिहासः,भूगोलः,गणितः,पदार्थविद्या,रेशमशास्त्रम्,जैवशास्त्रम्,अणुशास्त्रम्,औद्यगिकशास्त्रञ्च। अस्मिन् विश्वविद्यालये उद्यानद्वयं स्तः - 1) भूविद्या-उद्यान तथा 2) रेशमोद्यान । अस्मिन् विश्वविद्यालये राष्ट्रिय कैडेट(N.C.C)कोर, राष्ट्रियसेवायोजना(N.S.S) इति नाम्ना विभागोऽपि अस्ति ।