विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/ वक्सा-राष्ट्रीयोद्यानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वक्सा-राष्ट्रीयोद्यानम् भारतदेशस्य पश्चिमवड्गः इति राज्यस्येकं राष्ट्रीयोद्यानम्। उद्यानमिदं पश्चिमबड्गस्य उत्तरदिशि स्थितवक्सागिरौ वर्तते। उद्यानमिदं प्रायः 760 वर्गकिलोमिटरपर्यन्तं विस्तृतमस्ति। राष्ट्रियोद्याने अस्मिन् व्याघ्रसंरक्षणकेन्द्रमेकमस्ति।अत्र व्याघ्रः , मार्जारविशेषश्च रक्तवर्णीयवृकश्च दृश्यन्ते।

स्थानपरिचयः[सम्पादयतु]

वक्सा-राष्ट्रीयोद्यानमं पश्चिमवड्गस्य आलिपुरदुयारः इति जिलायां स्थितमस्ति। अस्य उत्तरसीमा भारत-भूटान इति अन्तर्राष्ट्रीयसीमापर्यन्तं अपि च सिन्धुलापर्वतपर्यन्तमस्ति। सिन्धुलापर्वतः अपरस्मिभागे भुटानस्य फिपसु इति वन्यपशुसंरक्षणारण्यमस्ति। उद्यानस्यास्य पुर्वदिशि पश्चिमवड्ग-असमराज्यसीमा वर्तते, अपि च तत्र अासामस्य मानसराष्ट्रीयोद्यानमस्ति। दक्षिणदिशि 31् संख्यकःराष्ट्रीयमार्गः अस्ति। दक्षिण-पश्चिमदिशयोः स्थितयोः चिलापातारण्य- जलदापाडाराष्ट्रीयोद्यानयोः मध्ये एकं हस्त्यासंरक्षणकेन्द्रमस्ति। राष्ट्रियोद्यानमिदं समुद्रतलात् 152-1755 मि. पर्यन्तमुपरि अस्ति। अस्योद्यानस्य अन्तस्थात् पाना, डिमा, रायताक्, वाला, गावुरवासरा, सड्कोष इत्यादयाः नद्यः प्रवहमानाः सन्ति।

वनसंरक्षणस्येतिहासः[सम्पादयतु]

१९८३ तमे वर्षे देशस्य १५ व्यघ्रसंरक्षणकेन्द्रनाम्नि वक्साव्यघ्रसंरक्षणकेन्द्रं स्थापितम्। १९८६ तमे वर्षे संरक्षितवनाञ्चलस्य ३१४.५२ वर्गकिलोमिटर परिमितस्थानं नीत्वा वक्सावन्यप्राणिसंरक्षणकेन्द्रं अस्थापयत्।१९९१ तमे वर्षे इतोऽपि ५४.४७ वर्गकिलोमिटर स्थानं वक्सावन्यप्राणिसंरक्षणकेन्द्रेण सह योजितम्। वक्सावन्यप्राणिसंरक्षणकेन्द्रस्य स्थापनान्तरं पश्चिमवड्गसर्वकारपक्षतः उद्यानमिदं राष्ट्रीयोद्यानं भवतु इति इच्छां प्राकटीकरोत्, अपि च तदन्तरं इतोऽपि ११७.१० वर्गकिलोमिटार परिमितस्थानं पुनः वर्धितम्।१९९७ तमे वर्षे पश्चिमवड्गसर्वकारेण वक्सावनं राष्ट्रीयोद्यानमिति उदघोषितम्।


वक्सादुर्गः[सम्पादयतु]

वक्सा-राष्ट्रीयोद्याने वक्सादुर्गः इति एकः पुरातनदुर्गः अस्ति। दुर्गस्य़ विस्तारं २६०० वर्गफुट इति अस्ति। तस्मिन् दुर्गे व्रिटिशशासनकाले नेताजि सुभाषचन्द्रबोसमहोदय़ः गृहवन्दिरुपेण अासन्। तदतिरिच्य़ वक्सा-राष्ट्रीयोद्याने एकं शिवमन्दिरमस्ति। तत्रस्थाः जनाः मन्दिरमिदं पवित्रमिति मन्वन्ते।

ऊद्भिद प्राणीश्चः[सम्पादयतु]

ऊद्भिदः अस्मिन् उद्य़ाने त्रिशताधिकाः(300) वृक्षाः,पञ्चाशतोधिकोद्विशतम्(250) गुल्मवृक्षाः,चर्तुशतम्(400) ओषधिवृक्षाः, दशप्रकारकाः(10)वेनुवः ,पञ्चाशतोधिकशतम्(150) अर्किडवृक्षाः,शतप्रकारकाः(100) तृणानि ,त्रिंशताधिकशतम्(130)। जलजवृक्षाः दृश्य़न्ते। इतोऽपि षष्ट्य़ाधिकशतप्रकारकाः(160)फार्णवृक्षाः अपि दृश्य़न्ते।वृक्षेषु शाल,चाँपा, गामारः,शिमुलः,चिक्रेसि इत्य़ादय़ाःप्रसिद्धाः। प्राणीः अस्मिन् उद्य़ाने हस्ति- व्य़ाघ्र-,गऊर-,वन्य़शुकर-सम्बरमृगाःदृश्य़न्ते।अपि च अत्र अष्टचत्वारिंशतोधिकद्विशतम्(284) पक्षिणः सन्ति। --SAHA SAMIR (चर्चा) १६:३७, ६ अप्रैल २०१८ (UTC)