विकिपीडिया:समुदायप्रवेशद्वारम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
TN एषः समुदायः/सदस्यः टेक-वार्ताः इतः परं प्राप्स्यति ।



संस्कृतविकिपीडिया-कार्यशाला-सामग्री[सम्पादयतु]

नमः सर्वेभ्यः, चण्डीगढ-महानगरे भारत-विकि-समुदायस्य गोष्ठी 2016 तमे वर्षे आसीत्। तत्र शैक्षणिक-कार्यशालायाः विषयेऽपि मार्गदर्शनं जातम् आसीत्। User:TFlanagan-WMF द्वारा काश्चन सामग्र्यः प्रदत्ताः तदा आङ्ग्लभाषायां विद्यमानानां तासं सामग्रीणां संस्कृतानुवादाय सङ्कल्पः कृतः आसीत्। अधुना तत् कार्यं पूर्णं कृतम् अस्ति। अतः संस्कृत-विकिपीडिया-जालस्य कृतेऽपि कार्यशाला-सामग्री उपलब्धा आस्ति। परन्तु तस्य मुद्रणाय अनुदानम् आवश्यकम्। CIS A2k संस्थायै अनुदानाय अत्र आवेदनं कृतम् अस्ति। अतः समर्थनं कृत्वा मुद्रणकार्यस्य मार्गं प्रशस्थं कुर्वन्तु।

--> मुद्रणसामग्री अत्र अस्ति।

ॐNehalDaveND १२:५५, १७ अप्रैल २०१७ (UTC)

उपयोगिकता[सम्पादयतु]

  • प्रतिवर्षं आ भारतं विभिन्नविश्वविद्यालयेषु संस्कृतविकिपीडिया-जालस्य परिचयात्मिका, प्रयोगात्मिका च कार्यशाला भवति। तस्यां कार्यशालायाम् उपस्थितानां प्रतिभागिनां ज्ञानवर्धनाय, सहायकसाहित्यस्य पूर्त्यै च एतस्य विवरणिकायाः मुद्रणम् आवश्यकम् अस्ति।
  • सम्प्रति अखिले भारते कुत्रापि संस्कृतविश्वविद्यालये शैक्षणिकप्रकल्पस्य उपस्थितिः नास्ति। शैक्षणिककार्यक्रमस्य अर्थः अत्र विकिपीडिया-जालेन सह विश्वविद्यालयस्य स्वैच्छिकसहयोगस्य निर्धारणम्(MOU)। तस्य कृते बहुवारं प्रयासाः जाताः, जायन्ते च। परन्तु एतादृशं साहित्यमेव तस्य कृते विश्वविद्यालस्य, प्राध्यापकस्य, शिक्षकस्य, विद्यार्थिनः च कृते मार्गदर्शिकत्वं वहेत।
  • अन्यासु बह्व्यासु भाषासु पूर्वमेव प्रकाशनं जातम् अस्ति। अत्र पश्यन्तु कृपया। समुदायस्य विकासाय अस्माभिः अपि एतत् करणीयम् इति।

वितरणनीतिः[सम्पादयतु]

यतो हि वितरणनीतिः एव मुद्रणस्य प्रयोजनम्, आवश्यकतां सिद्धयति, अतः अत्र काञ्चन नीतिसम्बद्धान् अंशान् लिखामि। मुद्रिताः विवरणिकाः गुजरातराज्ये मम (नेहलः दवे) पार्श्वे भविष्यन्ति। यतो हि बेंगळुरु-महानगरे अपि बहवः कार्यकर्तारः सक्रियाः सन्ति, अतः तत्रापि अर्धः भागः भविष्यति। अतः यत्र समीपं भवति, तत्र याच्ञा शक्या।

  • ये विकि-स्वयंसेवकाः कार्यशालायाः आयोजने, सञ्चालने च निरताः सन्ति, तेषां याच्ञायाः अनुसारं वयं विवरणिकाः दद्मः।
  • यतो हि विभिन्नविश्वविद्यालयाः संस्कृतविकिपीडिया-जालस्य कृते जिज्ञासवः सन्ति, अतः विभिन्नेभ्यः विश्वविद्यालयेभ्यः, तदन्तर्गतमहाविद्यालयेभ्यश्च वयं केवलं प्राध्यापकानां कृते विवरणिकाः प्रेषयिष्यामः। ततः कार्यशालायाः आयोजनावसरे वयं विद्यार्थिभ्यः अपि विवरणिकाः दास्यामः।
  • संस्कृतसम्बद्धाः अनेके कार्यक्रमाः आ भारतं जायन्ते। तत्र संस्कृत-विकिपीडिया-जालस्यापि प्रचारार्थं वयम् आपणत्वेन प्रचारकार्यं कर्तुं शक्नुमः। तस्मिन् समये विवरणिकाः एताः उपयोगिन्यः भविष्यन्ति।

कृपया एतस्मिन् सन्दर्भे स्वस्य मतं, विचारं वा प्रस्थापयतु। अस्तु। ॐNehalDaveND ०४:५३, २२ नवम्बर २०१७ (UTC)