विक्रमशर्मा
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
सङ्केतः
[सम्पादयतु]- विक्रमशर्मा
- जनकः मधुसूदनशर्मा
- ग्रामः गङ्गमौतन्
- मण्डलम्-सोनितपुरम्
- राज्यम् –असम
असमराज्यम् अस्माकं भारतस्य ईशान्यभागे स्थितं राज्यम् । हिमालये जातः ब्रह्मपुत्रः आवर्षं पूर्णरूपेण प्रवहति अत्र । अत्र अग्नितैलस्य(पेट्रोल्) कूपाः अनेके सन्ति । एतस्य राज्यस्य सोनितपुरमण्डले गङ्गमौतन् इति ग्रामः अस्ति । तस्य ग्रामस्य वीरः बालकः विक्रमशर्मा। एतस्य जन्मदिनम् १९७९ तमवर्षस्य जनवरिमासस्य १६ तमं दिनम् । जनकः श्री मधुसूदनशर्मा । जननी लावण्यादेवी । अनुजा अनुराधा। अनुजः विश्वजित् । १९८७ तमवर्षस्य अक्टोबर्मासस्य चतुर्थं दिनम् । विक्रमः अष्टवर्षीयः आसीत् । मध्यान्हभोजनं समाप्य उपविष्टवान् तदा नाटकाभ्यासिनां गानस्य वाद्यानां च रवः श्रुतः । तत् द्रष्टुम् एषः स्वस्य पितृव्यस्य द्विवर्षकल्पेन पुत्रेण मनोजेन सह गतवान् । त्रिवादने नाटकाभ्यासः समाप्तः । बालस्य मनोजस्य मधुराणि वचनानि शृण्वन् सः गृहम् आगच्छति स्म। स्वसन्तानरक्षणार्थं प्राणिनः अनेकान् उपायान् कुर्वन्ति । शत्रुभ्यः स्वापत्यानि रक्षितुं मण्डूकमीनादयः अण्डानि परितः स्वशरीरात् उत्पन्नविषं संश्लेषयन्ति । कुक्कुटाः स्वापत्यानि प्रति ये आगच्छन्ति तान् नाशायितुं प्रयतन्ते। काकाः शत्रून् स्वापत्यतः बहुदूरं निष्कासयन्ति । गावः स्ववत्सं रक्षितुं यदि अन्ये समीपं आगच्छन्ति तदा तान् तुम्फन्ति दूरं निष्कासयन्ति च । तस्मिन् ग्रामे एकां धेनुं चारयितुं ग्रामात् बहिः वर्तमानं शाद्वलं प्रति नीतवन्तः । धेनोः तावत् वत्सस्य चिन्ता । स्ववत्सः कुत्र गतः केनापि अपायः कृतः वा ? स्ववत्सस्य रक्षणं मया एव करणीयम्, अहं तस्य समीपे एव भवेयम् इति भावना । सा बद्धां रज्जुं कर्तयित्वा स्ववत्सस्य समीपे धावति । वर्णवस्त्रं धृतवन्तं विक्रमं दृष्ट्वा एतेन स्ववत्सस्य कृते अपायः भवेत् इति ज्ञात्वा कुपिता अभवत् । कुपिता सा तं तुम्फितुं धावन्ती आगतवती । विक्रमः ज्ञातवान् यत् एषा मां तुम्फति एव “मनोजस्य का गतिः ? तुम्फनेन पादाहतेन मनोजः व्रणितः भवति एव । मनोजस्य रक्षणं करणीयम् इति चिन्तितवान्। मार्गस्य पार्श्वे स्थितायाः वंशनिर्मितस्य वृतेः बहिः तं प्रक्षेप्तुम् प्रयत्तवान् । कुपिता धेनुः समीपे आगतवती। विक्रमं तुम्फितवती । तीव्रतया व्रणितः सः अधः पतितवान्। सः आक्रोशनं कर्तुम् आरब्धवान् । विक्रमः यदा पतितः तदा बालस्य मनोजस्य हस्तः आकृष्टः सः अपि विक्रमेण सह भूमौ पतितवान् । सः भूमौ पतितः इत्यतः तुम्फनात् अपयात् तथा दैववशात् पादाघातः नाभवत् । कुपितायाः धेनोः मनोजस्य रक्षणं कथम् इति चिन्ता विक्रमस्य । स्वयं तु धावन् स्वरक्षणं कर्तुं समर्थः आसीत् । परन्तु सः तथा न कृतवान् । प्रत्युत मनोजस्य रक्षणे उद्यतः। तुम्फनेन जातां वेदनां अपरिगणय्य भूमौ पतितः अपि मनोजं स्वसमीपे आकृष्य समीपे स्थितायां तृणभूमौ तम् अनुदत् । तस्य उपरि स्वयमपि प्रलुठ्य तस्य उपरि अधोमुखः भूत्वा स्थितवान्। धेनुः हूमकरोत्। पादाग्रेण विक्रमम् अकण्डूयत अतुम्फत् च । शृङ्गाभ्यां प्रतुम्फ्य तं उन्नीय क्षेप्तुं प्रयत्नमकरोत् । परन्तु विक्रमः भूमौ आसीत् , अतः सः तावतीं वेदानां नानुभूतवान् । तस्य वस्त्राणि छिन्नानि। देहे क्षतानि जातानि । तथापि विक्रमः तत् स्थानं न त्यक्तवान् । मनोजं स्वोदरतलात् न त्यक्तवान् । आक्रोशनम् अपि न त्यक्तवान् । विक्रमस्य आक्रोशनं किञ्चित् दूरे गच्छन् धीवरः हरिकिशनसिंहः श्रुतवान् ।सः पृष्ठतः परावृत्य दृष्टवान् । सः धावन् आगतवान्। सः विक्रमस्य उदरस्य अधोभागे स्थितं बालमपि दृष्टवान् । अनुक्षणं सः बडिशवंशयष्टिकया धेनोः पृष्ठभागे ताडितवान् । धेनुः बालौ हित्वा धीवरं पश्यति । धेनुः मां तुम्फयति इति ज्ञात्वा सः तस्याः पृष्ठतः उत्प्लुत्य पुनः ताडितवान्। धीवरधेन्वोः मध्ये युद्धमेव प्रवृत्तम्।अन्ते ताडनम् असहमाना सा धेनुः दूरं गतवती। तावता धेनोः तुम्फनेन पादाघातेन च प्रज्ञाहीनः आसीत् विक्रमः। तस्य मुखे जलं प्रक्षिप्य, संवीज्य उपचरितवान् । तदा सः प्रज्ञां प्राप्तवान् । यद्यपि स्वदेहात् रक्तस्रावः भवति स्म, वस्त्राणि छिन्नानि देहे क्षतानि आसन् तथापि विक्रमस्य तु मनोजः रक्षितः इति समाधाननम् । विक्रमः मनोजं सान्त्वयति । धीवरः हरिकिशन्सिंहः विक्रमम् उन्नीय विक्रमस्य गृहं प्रति प्राचलत्। ग्रामजनाः एतादृशं मनोजं दृष्ट्वा मधुसूदनशर्मणः गृहं प्रति आगताः । वार्ताम् एतां कर्णाकर्णिकया श्रुत्वा जनसम्मर्दः अभवत् । विक्रमस्य माता धीवरतः पुत्रं स्वीकृत्य उन्नीय, तस्य स्थितिं दृष्ट्वा दुःखिता जाता। व्रणस्य उपरि कार्पासं संस्थाप्य प्रथमोपचारं कृतवती ।तस्मिन् एव समये घटनायाः प्रथमं भागं पुत्रेण द्वितीयं भागं धीवरेण श्रुतवती माता । तस्मिन् समये तत्र आगतः मनोजस्य मातपितरौ विषयं ज्ञात्वा विक्रमस्य प्रशंसा कृतवन्तौ । आपदि स्थितौ बालौ रक्षितवते धीवराय अपि तौ कृतज्ञतां प्रकटितवन्तौ । ग्रामस्य जनाः अपि अवसरे कृतम् उपकारं प्रशंसितवन्तः। स्वापायम् अपरिगणय्य जागरूकतया उदरस्य अधोभागे आवृत्य पितृव्यपुत्रं रक्षितवान् इति वार्ता पत्रिकासु आगता। भारतबालकल्याणमण्डली एतस्य समयप्रज्ञां धैर्यं च ज्ञात्वा १९८७ तमवर्षस्य साहसप्रशस्त्यर्थं एतं चितवती । एष १९८८ तमे वर्षे जनवरिमासस्य २६ तमे दिने प्रधानमन्त्रिणा प्रशस्तिं , पदकम्, इन्दिराविकासपत्रम्, अन्यानि पारितोषिकानि च स्वीकृतवान् । सम्यक् अध्ययनं कृत्वा समाजसेवकः भविष्यामि इति अस्य आशा । ""