विमुक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
विमुक्तिः  
A Brahmin standing praying in the corner of the streets 1863.jpg
तपसि रतः ब्राह्मणः
लेखकः वेङ्कटरामराघवः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

विमुक्तिः प्रहसनकोटिकं रूपकं विद्यते । प्रहसनस्यास्य प्रणयनं १९३१ ईसवीयेऽभवत् । मूलकथायां १९६३ ईसवीयेऽभिनयोचितः परिष्कारः कृतः । अस्य विमुक्तिरिति नाभ प्रकृतिपाशात् पुरुषविमोक्षणस्य द्योतकं वर्तते । अस्य प्रथमाभिनयः १९६३ ईसवीयेऽभूत् ।

विषयवस्तु[सम्पादयतु]

धार्मिकस्य ब्राह्मणस्य आत्मनाथस्य षट् पुत्रा आसन् । स खल्वेका पुत्रमुल्काक्षं पप्रच्छ—तत्र सरसस्तीरे किं कुर्वाण आसीः ? स प्रत्यवदत्-स्नान्तीमभिरूपां तरुणीं पश्यन्नासम् । अवलोक्यतां भवद्भिरपि सा सुन्दरी तरुणी । कस्तस्याः परिचयः ? क्व च तस्या वसतिः ? ब्राह्मणस्तमात्मजं धिक्चकार । चलप्रोथ-शुण्डाल-कण्डूलादयोऽपि तस्य पुत्रा एवमेवानर्थकरीषु प्रवृत्तिषु प्रातःसमयं गमयन्ति स्म ।

व्यर्थमेव भवन्तश्चिन्तानिमग्ना इति कण्डूलः पितरमब्रवीत्। तदानीमेव किमप्यश्नन् स्कन्धेन च शाकभाजनं धारयन् चलप्रथि दृष्टिपथमायातः । पिता तं विलम्बेनागतोऽस्यथ च सर्वाणि वस्तूनि उच्छिष्टानि कृतवानसि इति भर्त्सयामास । अपरतो ब्राह्मणपत्नी शिरसा घटं धारयन्ती समयान्ती दृष्टा । तां दृष्टैव ब्राह्मणस्यात्मा चकम्प । भार्या पतिम् असाम्प्रतमुक्तवती । ब्राह्मणोऽपि तदनुरूपमेवोवाच । अन्ततः पत्नी विजयते स्म । सर्वे पुत्रा मातुरनुनायात्रिणो बभूवुः ।

अथ ब्राह्मणो ज्येष्ठतनयस्य लटकेश्वरस्य गतिविधिविषये प्रश्नमकरोत् । ज्ञातं यत्तस्य विषये किमपि न ज्ञायते । ब्राह्मणो भोक्तुकाम आसीदतः पत्नीं तुष्टाव -

नमस्तेऽस्तु महामाये नमस्तेऽस्तु महेश्वरे।

नमस्तेऽस्तु पराशक्ते नमस्ते विश्वनायिके।।

अन्ततो यदा ब्राह्मणेनोक्तं यत्त्वया सह गृहस्थाश्रमो न सम्यगास्ते । अतस्त्वामहं परित्यक्तुमिच्छामि, तदा पत्नी ब्रवीति स्म – यदि सम्भवेत्तर्हि अहमपि भवन्तं परित्यजेयम् । ब्राह्मण उवाच—त्वया, तव पुत्रैश्च सार्धं निवासात् वनप्रयाणमथवा मरणं श्रेयस्तरम्। ततश्चलप्रोथ आगत्य मदुदरे मूषकाः कूर्दन्तीति वदन् खादितुमयाचत । ब्राह्मणोऽब्रवीत्-शाकं क्रेतुं गतवता त्वया अर्धमूल्यमुदरपोषणे व्ययीकृतम् । किं तवास्ये वृको वसति ? अस्मिन्नेव काले ब्राह्मणस्य ज्येष्ठपुत्रो लटकेश्वरः तिसृभिः स्त्रीभिः समं समागतः । तासु द्वे तु ब्राह्मणपत्नी सस्नेहममिलत् । किं तु तृतीयां चन्द्रिकां नाम रुक्षया दृष्ट्या व्यलोकयत् । ताः सर्वा ब्राह्मण जायाया भगिन्य आसन् । ब्राह्मणस्ता दृष्ट्वोवाच—यूयं सर्वे चौरकर्मनिरताः स्थः । लटकेश्वरो यदा पितरं प्रणनाम तदा स म्रियतां त्वयेत्याशीः प्रायुङ्क्त | अथ चोवाच—कुत इमा आसादिताः । एकस्या एव नार्याः कारणाद् गृहं रौरवं वर्तते । लटकेश्वरो नारीप्रशंसायाः प्रकरं बबन्ध । अतः परमुक्तवान् यद्भवान् कदाचित् सर्वाभिरेताभिर्विवाहं कृतवानस्ति । ब्राह्मणो विरुणद्धि स्म ।

द्वितीयेऽङ्के ब्राह्मणो नद्यास्तीरेऽश्वत्थवृक्षस्याधो वेदिकायामासीनः सन्ध्योपासनं करोति स्म । तत्र पत्न्याः स्वसा चन्द्रिका वारंवारं तस्य मानसपटलेऽङ्किता भवति, या गृहागमनसमकालमेव तं स्नेहनिर्भरेण कटाक्षेण तृप्तं कृतवती । तां प्रति पत्युः प्रेम ज्ञात्वा ब्राह्मणी तयोर्गतिविधिं अति सावधानासीत् । संयोगात् तदानीमेव चन्द्रिका मदनपरवशा ब्राह्मणसामीप्यमभजत | प्रेमवार्ता प्रारब्धा । यावत्तायुपगूहनोत्सवाय तत्परौ भवतस्तावदेव ब्राह्मणी तत्राजगाम । ब्राह्मणश्चन्द्रिकां मठस्यैकदेशे जुगोप | ब्राह्मणी शशाप–यदि भवानस्मिन् नवीने प्रेम-मार्गे पदं दास्यति तर्हि भवतः पादभङ्गो भविष्यति । तदैव द्वावपरिचितौ जनौ तत्र समागतौ। तावूचतुः - ब्राह्मणोऽसौ मायावतीद्वारा पिशाच्याः पत्न्या वशं नीतः । ततः पश्चात् दंष्ट्री तत्र समागतः । तेन कथितं अद्यैव त्वया जीर्णमिदं गृहं परित्यक्तव्यम् । गृहमिदमासन्नपतनं विद्यते । श्वः प्रातस्तव पतिगृहे न मेलिष्यति । इयं सर्वा गृहस्वामिनः आज्ञा । इत्थं कथयित्वा स जगाम | ब्राह्मणपत्नी पुरवासिनः प्रत्यपृच्छत् अप्यस्माकं गृहाणां कोऽपि स्वाम्यप्यस्ति ? पुरवासिभिः पृथक् पृथगुत्तरं प्रदत्तम् । तदानीमेव कश्चन समायातः यं ब्राह्मणः स्वकुटुम्बस्य दुरवस्थामुक्त्वा सर्वान् परित्यज्य क्वचिद् गमनस्य विचारं प्रकटयामास । आगन्तुकेन पृष्ठं - क्व भवान् गमिष्यतीति । ब्राह्मणी समर्थयामास-अहमप्येतदेव पृच्छामि | ब्राह्मणोऽब्रवीत्-अचैकलोऽहं यत्र कचिज्जिगमिषामि । आगन्तुकेनोक्तं - निपतिते सत्येकस्मिन् गृहे द्वितीयं गृहं-निर्मातीति गृहस्वामिनो रीतिः । ब्राह्मण उवाच-अहं तु सम्प्रति कस्मिंश्चिद् गृहे कयाचनापि भार्यया सहोषितुं नेच्छामि ।

एतस्मिन्नेवान्तराले ब्राह्मणस्य दुःशीलाः पुत्राः स्वमातृस्वसृणां कामात्मकं विवाह-संवादं गृहीत्वा तत्रागच्छन् । तासां तैः सह विवादे जायमाने तत्र दंष्ट्री (आरक्षकः) रक्षिणश्चागच्छन् षड् गुणा बन्दीकृताः । मातृस्वसारो नद्यां निक्षिप्ताः । ब्राह्मणोऽपि ततोऽपससार।

अथ स ब्राह्मणः कुण्डलिनं नाम कर्मकाण्डिनं दृष्टवान् । कर्मकाण्डी सर्व ते सुखमयं रचयामीति ब्राह्मणमवोचत् । ब्राह्मणेनोक्तं नाहं किमपीच्छामि । क्षम्यतां भवता । अहमस्मिन् नद्याः प्रवाहे पतित्वात्मघातं करिष्यामि । तदैव चन्द्रिकागत्य तमात्मघाताद् रुरोध । तत्रैव जपमाचरन् कश्चन वृद्धोऽब्रवीत् अधुना सर्वेभ्यो दुष्टेभ्यो मुक्तोऽसि | स जापकः तस्मै ब्राह्मणाय मायावतीनाम्नी श्वश्रूं हन्तुं मन्त्रमुपदिदेश । तदानीमेव ब्राह्मणपत्नी ब्राह्मणं गृहीतवती शपथं च कृतवती – अतःपर सत्पत्नीवद् गृहे निवत्स्यामीति । वृद्धः स्वस्य वास्तविके स्वरूपे समागत्य ब्राह्मणमुवाच-चन्द्रिकया सह तव परिणयं सम्पादयामि । ततस्तैः सर्वैर्नूतनगृहमवाप्तम् । अन्ते च प्रस्तुतरूपकस्य प्रतीघाटनम् भरतवाक्ये सञ्जातम् । यथा -

ईशस्त्वं पुरुषोऽस्मि गेहमिह मे देहं स दंष्ट्रो यमः

सा भार्या प्रकृतिर्गुणा भगिनिका माया च तासां प्रसूः।

षट् पुत्रा मन इन्द्रियाणि नगरं लोको विमुक्त्यै ततः

सत्त्वस्था प्रकतिस्तथा प्रहसनं दृष्ट्वा जना जानताम्॥[१]

शिल्पम्[सम्पादयतु]

एकोक्ति-प्रयोगो द्वितीयाङ्कस्य प्रारम्भे वर्तते । यद्यप्येकोक्तिः सुरुचिपूर्णा, किं तु तया तथा दीर्घया न भाव्यम् ।

रूपके द्रविडलोकोक्तीनां संस्कृतानुवादो भूयसा प्रयुक्तः । यथा -

१ - लिकुचेन गाढं धर्षयामि ते शिरः।

२ – सत्रे भोजनं मठे निद्रा।

३ - को वा हस्तिनं गृहे निबध्य भोजयितुं प्रभवति।

४ - पटोलपुष्पं ते नयनं भवतु।

५ – मा उदरे ताडयत।

समीक्षा[सम्पादयतु]

प्रहसनस्य परिहासोक्तयोऽप्यनावृतसत्यम् आवहन्ति । यथा - अनर्थाय सर्वविप्लवायैव आधुनिकैः संस्कृतं पठ्यते । डा० राघवमहोदयस्य प्रहसनं शृङ्गारोहामतरङ्गानस्पृष्ट्वा नाभवत् । वर्तमानशतकस्य वंगीयविदुषां प्रहसनानि शृङ्गार-ग्राम्यालापाभ्यां विनापि सहृदयानां मनांसि तोष्यन्ति। प्रहसने नाट्यशास्त्रानुसारम् एकेनैवाङ्केन भाव्यं, परं त्वस्मिन्नङ्कद्वयं वर्तते ।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. १०
"https://sa.wikipedia.org/w/index.php?title=विमुक्तिः&oldid=435500" इत्यस्माद् पुनः प्राप्तिः