सामग्री पर जाएँ

विळुप्पुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विऴुप्पुरमण्डलम्

விழுப்புரம் மாவட்டம்

—  मण्डलम्  —
मरक्कनम् नगरस्य लवणोद्यमः
मरक्कनम् नगरस्य लवणोद्यमः


Location of विऴुप्पुरमण्डलम्
in तमिळ्नाडु
निर्देशाङ्काः

११°५७′१६.९२″ उत्तरदिक् ७९°३१′३९.८३″ पूर्वदिक् / 11.9547000°उत्तरदिक् 79.5277306°पूर्वदिक् / ११.९५४७०००; ७९.५२७७३०६

देशः भारतम्
राज्यम् तमिळ्नाडु
उपमण्डलम् विऴुप्पुरम् , कल्लकुरिच्चिः, जिञ्जी, दिण्डिवनम् , वानूरुः, तिरुक्कोयिलूरुः , उलुन्दूरुपेट्, शङ्करपुरम्
केन्द्रप्रदेशः विऴुप्पुरम्
Collector सि. टि. मणिमेखलै,IAS
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
Central location: ११°५७′ उत्तरदिक् ७९°३१′ पूर्वदिक् / 11.950°उत्तरदिक् 79.517°पूर्वदिक् / ११.९५०; ७९.५१७
जालस्थानम् विऴुप्पुरमण्डलस्य व्यावहारिक जालपुटम्


विऴुप्पुरमण्डलं (Viluppuram District) (तमिऴ्: விழுப்புரம் மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं विऴुप्पुरपत्तनम् । विऴुप्पुरमण्डलं १९९३ तमवर्षस्य सेप्टम्बर् २० दिनाङ्के दक्षिण आर्काट्मण्डलात् पृथक्कृत्य निर्मितम् । विऴुप्पुरं तमिऴ्नाडुराज्यस्य बृहत्तमं मण्डलं वर्तते।

इतिहासः

[सम्पादयतु]

क्रिस्तीय प्रथमशतकात् चतुर्थशतक पर्यन्तम् अस्मिन् प्रदेशे चोळानां प्रशासनम् आसीत्। करिकालचोळः अस्मिन् समये अत्यन्तप्रसिद्धः बलिष्ठः च आसीत्। सिंहविष्णुपल्लवः चोळान् पराजित्य पल्लवप्रशासनम् आरब्धवान्। पुनः विजयालयचोळेन बृहच्चोळसाम्राज्यस्थापनस्य आरम्भकाले अयं प्रदेशः स्वाधीनः कृतः। १२५१ तमे वर्षे सिंहासनारूढेन प्रथमेन जातवर्मसुन्दरपाण्ड्येन चोळाः पुनः पराजिताः। प्रायः पञ्चाशत्वर्षाणि पाण्ड्यानां प्रशासनम् आसीत् । ततः १३३४ तः १३७८ पर्यन्तं मुस्लिमराजाः प्रबलाः। १३७८ तमे वर्षे विजयनगरसाम्राज्येन अयं प्रदेशः जितः, नायकाः च अस्य मण्डलस्य अधिकारेण नियोजिताः। १६७७ तमे वर्षे शिवाजीमहाराजः गोल्कोण्डासैन्यस्य साहाय्येन जिञ्जीप्रदेशं जितवान् । ततः मुघलानाम् अधिकारः आरब्धः। मुघलप्रशासनकाले ब्रिटिशाः फ़्रेञ्च् जनाः च दक्षिण आर्काट्प्रदेशे आवासस्थलानि निर्मितवन्तः। ब्रिटिश्, फ़्रेञ्च् समरे अयं प्रदेशः रणरङ्गः आसीत्। तत् आरभ्य १९४७ तमे वर्षे स्वातन्त्र्यप्राप्तिपर्यन्तम् अयं प्रदेशः ब्रिटिश्प्रशासनस्य भागः आसीत्।

भौगोलिकम्

[सम्पादयतु]

विऴुप्पुरमण्डलस्य विस्तारः ७२१७ चतुरश्रकिलोमीटर् अस्ति। अस्य मण्डलस्य उत्तरभागे तिरुवण्णामलैमण्डलम्, ईशान्ये काञ्चिपुरमण्डलं, पश्चिमे धर्मपुरीमण्डलं, नैर्ऋत्ये सेलं, पेरम्बलूरुमण्डलं, दक्षिणभागे कडलूरुमण्डलम्, आग्नेये पुदुच्चेरी केन्द्रप्रशासित प्रदेशः च अस्ति। पूर्वभागे बङ्गालसमुद्रः अस्ति।

जनसंख्या

[सम्पादयतु]

२०११ तमे वर्षे जनगणनानुगुणं विऴुप्पुरमण्डलस्य जनसंख्या ३,४६३,२८४। भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ९३ तमं स्थानम्। अस्मिन् मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४८२ (१२५० प्रतिचतुरश्रमैल्) अस्ति। २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १६.९९% आसीत्। विऴुप्पुरे पुं, स्त्री अनुपातः १०००:९८५, साक्षरताप्रमाणं च ७२.०८% अस्ति।

उपमण्डलानि

[सम्पादयतु]

विऴुप्पुरे अष्ट उपमण्डलानि सन्ति। तानि -

१. विऴुप्पुरम्
२. कल्लकुरिच्चि
३. सेञ्जी
४. तिण्डिवनम्
५. वानूर
६. तिरुक्कोयिलूर
७. उलुन्दूरुपेट्टै
८. शङ्करापुरम्

आर्थिकता

[सम्पादयतु]

२००६ तमे वर्षे केन्द्रसर्वकारस्य पञ्चायती राज् सचिवालयेन निर्दिष्टेषु देशस्य २५० अतिदीनमण्डलेषु विऴुप्पुरम् अपि परिगणितम् । सम्प्रति, तमिऴ्‌नाडुराज्यस्य षट् मण्डलानि सर्वकारस्य दीन, प्रदेश, सहायधनयोजनया (Backward Regions Grant Fund Programme) साहाय्यं लभमानाः सन्ति। तेषु विऴुप्पुरम् अन्यतमम् ।

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले इतिहासप्रसिद्धानि बहूनि वीक्षणीयस्थलानि सन्ति। १५०० वर्षेभ्यः अपि पुरातनानि स्मारकाणि अपि अत्र सन्ति। राज्ञः महेन्द्रवर्मपल्लवस्य प्रथमः गुहादेवालयः जिञ्जीसमीपं मन्दगपाट्टुग्रामे अस्ति। तेनैव महेन्द्रवर्मणा निर्मितः बृहदाकारकः शत्रुमल्लेश्वरस्य आलयः जिञ्जीदुर्गस्य समीपे तलवानूरुग्रामे अस्ति।

वीडूरजलबन्धः

[सम्पादयतु]

अयं जलबन्धः तिण्डिवनं, विऴुप्पुरंराजमार्गस्य समीपे अस्ति । अत्र बालानां क्रीडावनम् अपि अस्ति।

गोमुखीजलबन्धः

[सम्पादयतु]

कल्लकुरिच्चेः समीपे कच्चिरायपाळैये अयं जलबन्धः अस्ति। समीपे एव जलद्पातद्वयम् अपि अस्ति। मेघजलपातः कच्चिरायपाळैयात् ६ किलोमीटर् दूरे अस्ति। पेरियार्जलपातः अपि समीपे एव अस्ति। अरविन्दाश्रमेन सम्बद्धम् 'आरोविल्' इत्याख्यं सांस्कृतिकम् उपपत्तनम् अस्मिन् मण्डले एव अस्ति।

ओऴिण्डियम्पाट्टुः

[सम्पादयतु]

तेवारस्तुतिषु वर्णितेषु तोण्डैनाडु प्रदेशस्य देवालयेषु अत्र विद्यमानः देवालयः ३१ तमः। तिरुज्ञान सम्बन्धेन अत्रत्य आराध्यदेवः कालकालः इति, मन्मथदहनः इति, भिक्षाजीवी इति, विभूति भूषितः इति च वर्णितः अस्ति । अत्र परमेश्वरः स्वयम्भू मूर्तिः राजते।

तिरुक्कोयिलूर

[सम्पादयतु]

अस्य पत्तनस्य मध्यभागे तिरुविक्रमस्वामि रूपेण विद्यमानस्य विष्णोः, वेदवल्ली रूपेण विद्यमानायाः देव्याः च मन्दिरम् अस्ति। विष्णोः वामनावतारः अत्र आराध्यते। श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदम् अन्यतमम्। पत्तनस्य पूर्वभागे तेन्पेण्णैनद्याः तीरे शिवस्य मन्दिरम् अस्ति। अस्य देवालस्य समीपे नद्यां ‘कबिलर्कुण्ड्रु’ (तपस्विनः गिरिः) अस्ति। तिरुक्कोयिलूरुः अष्ट सुवीरस्थानेषु अन्यतमम्। माध्वसमुदायस्य अपि पवित्रम् इदं क्षेत्रम्। पिनाकिनीनद्याः तीरे श्रीरघूत्तमतीर्थानां, श्रीसत्यप्रमोदतीर्थानां च मूलबृन्दावने स्तः। इमौ आचार्यौ माध्वसम्प्रदायस्य उत्तरादिमठस्य प्रसिद्धौ पीठाधिपती आस्ताम्। तिरुक्कोयिलूरु, तिरुवण्णामलैमार्गे श्रीज्ञानानन्द तपोवनस्य प्रसिद्धः ज्योतिर्लिङ्गमठः अस्ति।

मेल्मलैयनूर

[सम्पादयतु]

अत्र प्रसिद्धः अङ्कालपरमेश्वरी देवालयः अस्ति । अमावास्यादिने अत्र बहवः भक्ताः आगच्छन्ति।

अन्नियूर

[सम्पादयतु]

अस्मिन् ग्रामे शिवस्यविष्णोः च प्रसिद्धौ देवालयौ स्तः। शिवदेवालयस्य अन्तः विद्यमानं शनीश्वरमन्दिरम् अपि भक्तान् आकर्षति।

तिरुवमत्तूर

[सम्पादयतु]

अत्र परमेश्वरस्य देवालयः अस्ति। अस्मिन् देवालये पार्वत्याः परमेश्वरस्य च गर्भगृहे परस्परम् अभिमुखे स्तः। अनेन कारणेन अत्र पूजया प्रेमिणोः सङ्गमः भवति इति विश्वासः अस्ति जनानाम्।

मयिलम्

[सम्पादयतु]

अत्र गिरेः उपरि कार्त्तिकेयस्य मन्दिरम् अस्ति । चेन्नै, विऴुप्पुरं राजमार्गे अयं ग्रामः अस्ति।

कण्डाचिपुरम्

[सम्पादयतु]

अस्मिन् ग्रामे परमेश्वरस्य देवालयः अस्ति । रामायणकथानुसारेण वनवासकाले अत्र श्रीरामेण परमेश्वरस्य सैकतलिङ्गं प्रतिष्ठापितम् इति जनाः विश्वसिन्ति।

तिरुवक्करै

[सम्पादयतु]

नदीतीरे विद्यमाने अस्मिन् लघुग्रामे वक्करकालियम्मन् देवालयः अस्ति । पूर्णिमादिने अत्र आगमनं श्रेयस्करम् इति प्रतीतिः। अस्मिन् ग्रामे वृक्षावशेषोद्यानम् अपि अस्ति । यत्र शताधिक वर्षीयाः वृक्षाः शिलात्वेन परिणमिताः सन्ति।

आलम्बाडिपेरुमाळ्देवालयः

[सम्पादयतु]

आलम्बाडिग्रामे विष्णोः कश्चन देवालयः अस्ति । यत्र विष्णुः कुण्डिसत्तिपेरुमाळ्रूपेण आराध्यते। अत्र परमात्मनः मूर्तिः नास्ति । किन्तु एकाशिला एव विद्यते । यस्यां शङ्खचक्रयोः चिह्नानि दृश्यन्ते। इयं शिला तिरुपतेः वेङ्कटाचलपतिविग्रहस्य भागः। अतः अत्र क्रियमाणा पूजा तिरुपति देवालयं प्रतिगमनेन तुल्यम् इति जनाः भावयन्ति।

पेरुम्पाक्कम्

[सम्पादयतु]

अयं ग्रामः विऴुप्पुरतः ८ किलोमीटर्दूरे अस्ति। अत्र श्रीयोगहयवदनस्य, वेदान्तदेशिकस्य च देवालयः अस्ति ।

माम्बलप्पाट्टुः

[सम्पादयतु]

अयं ग्रामः तिरुक्कोयिलूरुमार्गे विऴुप्पुरतः १४ किलोमीटर्दूरे अस्ति। अत्र शनीश्वरस्य देवालयः अस्ति । यत्र शनेः बृहदाकारिकामूर्तिः अस्ति । एषियाखण्डे एव बृहत्तमा शनीश्वरमूर्त्तिः इयम्।

सिरुवन्ताडुः

[सम्पादयतु]

अयं ग्रामः विऴुप्पुरतः १५ किलोमीटर्दूरे अस्ति। अयं ग्रामः कौशेयवयनेन कौशेयशाटिकानिर्माणेन च ख्यातः अस्ति । अत्र प्रसिद्धः लक्ष्मीनारायणदेवालयः अस्ति। शिवस्य प्रसिद्धं मन्दिरम् अपि अत्र अस्ति।

तिरुवेण्णैनल्लूर

[सम्पादयतु]

इदं तिरुक्कोयिलूर मार्गे विद्यमानम् उपपत्तनम्। अत्र सुन्दरनायनारकालिकः किरुबपुरीश्वर देवालयः अस्ति।

मेल्सितमूरु जैनमठः

[सम्पादयतु]

अयं जैनमठः विऴुप्पुरमण्डले जिञ्जीपत्तनस्य समीपे अस्ति । तमिऴ्जैनसमुदायस्य पवित्रं, प्रमुखं च धार्मिककेन्द्रम् इदम्।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  1. "www.tn.gov.in" (PDF). आह्रियत 2011-12-18. 
"https://sa.wikipedia.org/w/index.php?title=विळुप्पुरमण्डलम्&oldid=468083" इत्यस्माद् प्रतिप्राप्तम्