कडलूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कडलूर् मण्डलम्

கடலூர் மாவட்டம்

—  मण्डलम्  —
चिदम्बरम् मन्दिरम्
चिदम्बरम् मन्दिरम्


Location of कडलूर् मण्डलम्
in तमिळ्नाडु
निर्देशाङ्काः

११°४५′०″ उत्तरदिक् ७९°४५′०″ पूर्वदिक् / 11.75000°उत्तरदिक् 79.75000°पूर्वदिक् / ११.७५०००; ७९.७५०००

देशः भारतम्
राज्यम् तमिळ्नाडु
मण्डलम् कडलूरुमण्डलम्
उपमण्डलम् कडलूरु,पन्रुति, चिदम्बरम्, नेय्वेलि, विरुधाचलम्
केन्द्रप्रदेशः कडलूरू
बृहत्तमं नगरम् कडलूरूनगरम्
बृहत्तमं महानगरम् None
समीपतमं नगरम् पाण्डिचेरी, चेन्नै
Collector & District Magistrate श्री राजेन्द्र रत्नू, IAS
[[तमिळ्नाडु राज्यस्य संसत्|संसत्]] (स्थानानि) elected ()
विधानसभा कडलूरु
जनसङ्ख्या

• सान्द्रता

२२,८५,३९५[१] (2011)

702 /किमी2 (1,818 /वर्ग मील)7 (11)

लिङ्गानुपातः 984 /
साक्षरता

• Male
• Female

79.04%% 

• 86.84%%
• 71.20%%

व्यावहारिकभाषा(ः) तमिळ्भाषा, आङ्ग्लभाषा
समयवलयः IST (UTC+05:30)
वायुमण्डलम्

तापमानम्
• ग्रीष्मकालः
• शीतकालः



     41 °से (106 °फ़ै)
     20 °से (68 °फ़ै)

जालस्थानम् कडलूरुमण्डलस्य अधिकृतजालपुटम्

कडलूरुमण्डलम् (Cuddalore district) (तमिऴ् - கடலூர் மாவட்டம்) दक्षिणभारतस्य तमिळ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । कडलूरुनगरम् अस्य मण्डलस्य केन्द्रस्थलम् । क्रि.पू प्रथमशतकस्य कानिचन स्मारकस्थलवस्तूनि अस्य मण्डलस्य मरुङ्गूरुग्रामे ऐदम्प्राथम्येन लब्धानि । तेषामुपरि तमिळ् ब्राह्मीलिप्या लेखाः अपि दृष्टाः ।

भौगोलिकम्[सम्पादयतु]

कडलूरुमण्डलस्य विस्तारः ३५६४ चतरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे विलुप्पुरं मण्डलम्, पूर्वभागे बङ्गालसमुद्रः, दक्षिणदिशायां नागपट्टिनं मण्डलम्, पश्चिमतः पेरम्बलूर् मण्डलं च अस्ति ।

आर्थिकता[सम्पादयतु]

२००६ तमे वर्षे केन्द्रसर्वकारस्य पञ्चायती राज् सचिवालयेन निर्दिष्टेषु देशस्य २५० अविकसितमण्डलेषु कडलूरु अपि परिगणितम् । सम्प्रति, तमिऴ्‌नाडुराज्यस्य षट् मण्डलानि सर्वकारस्य अविकसितप्रदेशसहायधनयोजनया (Backward Regions Grant Fund Programme) साहाय्यं लाभमानाः सन्ति, तेषु कडलूरु अन्यतमम् ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं कडलूरुमण्डलस्य जनसंख्या २,६००,८८० । देशस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या कडलूरु १५८ तमम् । अस्य मण्डलस्य जनसंख्यासान्द्रता प्रतिचतुरश्रकिलोमीटर् ७०२ जनाः (१८२०/चतुरश्रमैल्)। २००१-२०११ दशके जनसंख्यावृद्धिः १३.८% आसीत् । अत्र पुं, स्त्री अनुपातः १०००-९८४ अस्ति । साक्षरता ७९.०४% अस्ति ।

उपमण्डलानि[सम्पादयतु]

कडलूरुमण्डले ६ उपमण्डलानि सन्ति ।

  1. कडलूरु
  2. चिदम्बरम्
  3. पण्रुट्टि
  4. काट्टुमन्नार्‌कोयिल्
  5. विरुदाचलम्
  6. तित्तकुडि

कृषिः वाणिज्यं च[सम्पादयतु]

कडलूरुमण्डले भल्लातकस्य कृषिः अधिका दृश्यते । तमिऴ्‌नाडुराज्यस्य ५२% भल्लातकस्य उत्पादनम् अस्मिन् मण्डले भवति । अत्रत्यानि पनसफलानि अपि प्रसिद्धानि (पण्रुटि-पनसम्) । नैवेलिनगरे नैवेलि लिग्नैट् कार्पोरेषन् संस्था अस्ति । अत्र अङ्गारतः विद्युदुत्पादनं भवति । अत्र भारतस्य अतिबृहत् अनावृत अङ्गारखनिः अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

कडलूरुमण्डले बहवः प्रसिद्धाः देवालयाः सन्ति । चिदम्बरक्षेत्रे विद्यमानं नटराजमन्दिरम् विश्वप्रसिद्धम् । कडलूरुनगरे पातालेश्वरदेवालयः अस्ति । कडलूरुनगरात् ७ किलोमीटर् दूरे विद्यमानः तिरुवन्दिपुरदेवालयः श्रीवैष्णवानां १०८ दिव्यक्षेत्रेषु अन्यतमः । अत्र भगवान् विष्णुः देवनाथरूपेण पूज्यते । चिन्दम्बरात् ३१ किलोमीटर् दूरे विद्यमाने श्रीमुष्णं क्षेत्रे विख्यातं भूवराहमन्दिरम् अस्ति । विरुदाचलक्षेत्रे विरुदगिरीश्वरदेवालयः अस्ति । कडलूरुनगरात् २ किलोमीटरदूरे रजततीरम् (Silver beach) इति प्रसिद्धं समुद्रतीरम् अस्ति । चिदम्बरसमीपे पिच्चावरे मान्‌ग्रोव् अरण्यानि सन्ति । मान्‌ग्रोव् अरण्यानां विस्तारे पिच्चावरस्य विश्वे एव द्वितीयस्थानम् । इदं प्रसिद्धं जैकप्रवासस्थानम् । कुरिञ्जिप्पडितालुकायां वेङ्गडपेटेप्रदेशे विजयनगरकालस्य अवशेषाः द्रष्टुं शक्याः ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
  2. www.tn.gov.in



"https://sa.wikipedia.org/w/index.php?title=कडलूरुमण्डलम्&oldid=480075" इत्यस्माद् प्रतिप्राप्तम्