सामग्री पर जाएँ

विश्वनाथसत्यनारायणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विश्वनाथसत्यनारायणः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः गुप्तपाशुपतम्, अमृतशर्मिष्ठम्

विश्वनाथसत्यनारायणः (आङ्लम् - ViswanathaSatyanarayana) (सेप्टम्बर् 10, 1895 तः अक्टोबर् 18, 1976 पर्यन्तम्) कविसम्राट् इति बिरुदाङ्कितः, तेलुगुसाहित्यक्षेत्रे सर्वप्रथमः ज्ञानपीठपुरस्कारग्रहीता च अस्ति। भारतशासनेन स पद्मभूषणोपाधिना समलङ्कृतः । १९३४ ईसवीये मद्रासविश्वविद्यालयेन तस्य “वेयि पदगलु” इत्यभिधान उपन्यासः पुरस्कृतः । तेलगुभाषायां विरचिता रामायणकल्पवृक्षाभिधाना तस्य कृतिर्ज्ञानपीठद्वारा लक्षं रूप्यकाणि प्रदाय पुरस्कृता । कवेः 'कविसम्राट्' इत्युपाधिः आसीत्। अस्य पिता विश्वनाथ-शोभनाद्रिरासीत् । विश्वनाथ इत्यस्य वंशस्योपाधिः । अस्य जन्म कृष्णाजनपदस्य नन्दमुरुग्रामे बभूव । कवेः साहित्यगुरुः आचार्यतिरुपतिवेङ्कटकविरासीत् । कविना स्नातकोत्तरपरीक्षा समुत्तीर्णा। अयं प्रथमं तेलगु-पण्डितः, ततो व्याख्याता, ततः करीमनगरस्य महाविद्यालये प्राचार्यपदमलंकृत्य विश्रान्तः। सत्यनारायणस्य तेलगुभाषायां शताधिककृतयो विलसन्ति। संस्कृतभाषायां द्वे कृती विद्येते (१) गुप्तपाशुपतम् । (२) अमृतशर्मिष्ठञ्च।

परिचयः

[सम्पादयतु]

20 तमशताब्द्याः आन्ध्रसाहित्यस्य, विशिष्य परम्परागतसाहित्यस्य मूलस्तम्भः अस्ति एषः महाशयः। अनेन महाशयेन अस्पृष्टा साहित्यप्रक्रिया काचिदपि नास्ति। यथा - काव्यानि, कविताः, नवलाः, नाटकानि, पद्यकाव्यानि, प्रयोगाः, विमर्शाः, लेखाः, कथाः, चरित्राणि इत्येवं सर्वविधसाहित्यप्रक्रियासु अस्य विशिष्टाः कृतयाः सन्ति। एतस्य प्रतिभापाण्डित्यादीनि सकलजगद्विदितानि सन्ति। विश्वनाथसत्यनारायणः कदाचित् स्वयम् उक्तवान् यत् - "मया लिखितानां प्रकाशितानां च पद्यानां संख्या प्रायः विंशतिसहस्रात्मिका भवेत्, किन्तु मया लिखित्वा मयैव विच्छिन्नानि पत्राणि सप्ततिसहस्रं स्युः" इति। तेन लिखिताः सर्वाः रचनाः एकत्रीक्रियेरन् चेत् लक्षपुटात्मिकाः भवेयुः।

श्रीश्रीमहाशयः विश्वनाथसत्यनारायणम् उद्दि्श्य एवम् अभिवर्णितवान् यत् "विश्वनाथः भाषमाणः कशेरुः" इति। जि.वि.सुब्रह्मण्यमहाशयः एवम् अवदत् - "आधुनिकान्ध्रजगति विश्वनाथः एकः कविराण्मूर्तिः। वचनकविताप्रकियां विहाय तेन अप्रयुक्ता साहितीप्रकिया काचिदपि नास्ति। तेन स्पृष्टं साहित्यप्रक्रियारूपम् एकमपि स्वर्णितं न जातमिति नास्ति। गेयं पद्यं मुक्तकं महाकाव्यम् इत्यादिषु विश्वनाथकृतिषु सर्वास्वपि तदीयं किञ्चन विशिष्टं व्यक्तित्वं प्रतिस्फुरति। वाचि वाक्ये शब्दे समासे भावे भावनायां दर्शने विमर्शने भाषणे भूषणे च तदीयं वैलक्षण्यं सुष्ठु प्रकाशते। महाकविः इति नाम्ना प्रथितुम् अवश्यम्भाव्यं प्रथमं लक्षणम् एतादृशं व्यक्तित्वम्" इति।

बाल्यजीवनम्

[सम्पादयतु]

विश्वनाथः 1895 तमस्य वर्षस्य सेप्टेम्बरमासे 10 दशमे दिनाङ्के (मन्मथ-भाद्रपद-कृष्णषष्ठी इत्यस्यां तिथौ) आन्ध्रप्रदेशस्य कृष्णा इत्यस्मिन् जनपदे नन्दमूरु (उङ्गुटूरुमण्डल) इत्यस्मिन् ग्रामे जन्म प्राप्तवान्। तस्य पितरौ शोभनाद्रिः पार्वती च। तदीयं कुटुम्बं पारम्परिकं तेलुगुवैदिकब्राह्मणकुटुम्बं वर्तते। विश्वनाथस्य पिता शोभनाद्रिः स्वजीवनम् अत्यन्तं वैभवेन यापितवान्। किन्तु जीवनस्य अन्तिमावस्थायां दातृत्वगुणातिशयेन नितरां दारिद्र्यम् अनुभूतवान्। विश्वनाथस्य बाल्यं सुखमयम् आसीत्।

रचनावलिः

[सम्पादयतु]

विश्वनाथसत्यनारायणवर्यस्य रचनानां नामानि अत्र प्रदत्तानि सन्ति।

कादम्बरीसाहित्यम् (नवलासाहित्यम्)

  • वेयिपडगलु
  • स्वर्गानिकि निच्चेनलु
  • चेलियलिकट्ट
  • एकवीर
  • तेरचिराजु
  • मा बाबु
  • जेबुदोङ्गलु
  • वीरवल्लडु
  • वल्लभमन्त्री
  • प्रळयनायुडु
  • हाहा हूहू
  • म्रोयु तुम्मेद
  • समुद्रपु दिब्ब
  • दमयन्तीस्वयंवरमु
  • नीलपेण्ड्लि
  • शार्वरि नुण्डि शार्वरि दाका
  • कुणालुनिशापमु
  • धर्मचक्रमु
  • काश्मीरराजवंशनवललु (आरु नवललु)
  • कवललु
  • यशोवती
  • पातिपेट्टिननाणेमुलु
  • सञ्जीवकरणि
  • मिहिरकुलुडु
  • भ्रमरवासिनि
  • पुराणवैरग्रन्थमाला
  • विष्णुशर्मइङ्ग्लीषु चदुवु
  • पुलुलसत्याग्रहमु
  • देवतलयुद्धमु
  • पुनर्जन्म
  • परीक्षा
  • नन्दिग्रामराज्यम्
  • बाणावती
  • अन्तरात्मा
  • गङ्गूलीप्रेमकथा
  • आरुनदुलु
  • चन्दवोलुराणि
  • कडिमिचेट्टु
  • वीरपूज
  • स्नेहफलमु
  • बद्दन्नसेनानी
  • नेपालराजवंशनवललु (आरुनवललु)
  • दिण्डुकिन्दिपोकचेक्क
  • चिट्लिचिट्लनिगाजुलु
  • सौदामिनि
  • ललितापट्टणपुराणि
  • दन्तपुदुव्वेन
  • दूतमेघमु (पन्नेण्डुनवललु)
  • भगवन्तुनिमीदि पग
  • नास्तिकधूममु
  • धूमरेखा
  • नन्दो राजा भविष्यति
  • चन्द्रगुप्तुनिस्वप्नमु
  • अश्वमेधमु
  • अमृतवल्लि
  • पुलिम्रुग्गु
  • नागसेनुडु
  • हेलिना
  • वेदवती
  • निवेदिता

पद्यकाव्यानि

[सम्पादयतु]
  • श्रीमद्रामायणकल्पवृक्षमु (षट् काण्डाः)
  • आन्ध्रप्रशस्ति
  • आन्ध्रपौरुषमु
  • विश्वनाथमध्याक्करलु
  • ऋतुसंहारमु
  • श्रीकुमाराभ्युदयमु
  • गिरिकुमारुनिप्रेमगीतालु
  • गोपालोदाहरणमु
  • गोपिकागीतलु
  • भ्रमरगीतलु
  • झान्सीराणी
  • प्रद्युम्नोदयमु
  • रुरुचरित्रमु
  • मा स्वामी
  • वरलक्ष्मीत्रिशति
  • देवीत्रिशतिः (संस्कृतम्)
  • विश्वनाथपञ्चशति
  • वेणीभङ्गमु
  • शशिदूतमु
  • शृङ्गारवीथी
  • श्रीकृष्णसङ्गीतमु
  • ना रामुडु
  • शिवार्पणमु
  • धर्मपत्नी
  • भ्रष्टयोगि (खण्डकाव्यम्)
  • केदारगौळ (खण्डकाव्यम्)
  • गोलोकवासि
  • दमयन्तीस्वयंवरम्

नाटकानि

[सम्पादयतु]
  • अमृतशर्मिष्ठम्(संस्कृतम्)
  • काव्यवेदहरिश्चन्द्र
  • लोपल - बयट
  • गुप्तपाशुपतम् (संस्कृतम्)
  • गुप्तपाशुपतमु
  • अन्ता नाटकमे
  • अनार्कलि
  • तल्लिलेनि पिल्ल
  • त्रिशूलमु
  • नर्तनशाला
  • प्रवाहः
  • वेनराजु
  • अशोकवनमु
  • शिवाजि - रोषनार
  • धन्यकैलासमु
  • नाटिकलसम्पुटि (१६ नाटिकाः)

गुप्तपाशुपतम्

[सम्पादयतु]

गुप्तपाशुपते महाभारतमुपजीवितम् । कविराधुनिकयुगीनेषु महायुद्धेषु महामारणशस्त्राणां प्रयोगमसाम्प्रतं मनुते । अस्यां दिशि सः अर्जुनम् आदर्शवीरं निर्दिशति । अर्जुनस्य सविधे महामारकं शिवप्रदत्तं पाशुपतास्त्रमासीत्, परन्तु स तस्य प्रयोगं नैव कृतवान्। गुप्तपाशुपतस्य अभिनयः शरदृतौ समभवत्।

अमृतशर्मिष्ठम्

[सम्पादयतु]

अमृतशर्मिष्ठे शर्मिष्ठा–देवयान्योस्तयोर्दयितस्य ययातेश्च महाभारतीया कथा पल्लविता | शर्मिष्ठा ययातेः प्रेम्णि रुग्णा सती आसन्नमरणा भवति । महाराजाज्ञया वैशम्पायननामा मन्त्री तस्या रोगस्य परीक्षायै समायाति । शर्मिष्ठा तस्मै निवेदयति – अहं पूर्वजन्मनि बोधायननृपतेर्विदूषकस्य सहपाठिन्यासम् । इन्द्रशापानुसारमहं पूर्णिमायां चान्द्रे तेजसि निलीना भविष्यामि । वैशम्पायनानुसारं चन्द्रवंश्यो ययातिरेव चन्द्रः । ययातिः स्वर्गं गत्वा तत्र देवविरोधिनोऽसुरान् विजित्य भूलोकमागत्य शर्मिष्ठां मिलति । तां परिरभ्य मूर्छितो भवति । नागवल्ली प्रथमं राज्ञा, ततः शर्मिष्ठया ततः पुनरपि नृपेण दष्टा । एवंभूतैर्बहुभिः संविधानैरिदं नाटकं पूर्णमस्ति।

नवाङ्कमिदं नाटकं कविना महानाटकमिति संज्ञितम् । सत्यनारायणः परम्परावादी नाटककारो विद्यते । अस्य नाटकेषु नान्दी-प्रस्तावना भरतवाक्यादीनां नाट्यशास्त्रीयं संविधानकं वर्तते । एकोक्तीनां वैशिष्ट्यं विलसति | संवादानां चटुलता प्रयाप्तं रुचिरा वर्तते।

सम्बद्धाः लेखाः

[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

अर्जुनः

कृष्णः

उद्धरणम्

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=विश्वनाथसत्यनारायणः&oldid=435499" इत्यस्माद् प्रतिप्राप्तम्