विस्तरेणात्मनो योगं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

विस्तरेण आत्मनः योगं विभूतिं च जनार्दन भूयः कथय तृप्तिः हि शृण्वतः नास्ति मे अमृतम् ॥ १८ ॥

अन्वयः[सम्पादयतु]

जनार्दन ! आत्मनः योगं विभूतिं च विस्तरेण भूयः कथय । अमृतं शृण्वतः मे तृप्तिः नास्ति ।

शब्दार्थः[सम्पादयतु]

जानार्दन = कृष्ण !
आत्मनः = स्वस्य
योगम् = स्वरूपम्
विभूतिं च = ऐश्वर्यं च
विस्तरेण = विपुलं यथा तथा
भूयः = पुनः
कथय = वद
हि = यस्मात्
अमृतम् = अमृततुल्यम्
शृण्वतः मे = आकर्णयतः मम
तृप्तिः = तुष्टिः
नास्ति = न विद्यते ।

अर्थः[सम्पादयतु]

कृष्ण ! स्वस्य स्वरूपं माहात्म्यविस्तरं च विस्तरेण पुनः वद । अमृततुल्यं तत् आकर्णयतः मम तृप्तिः एव न भवति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विस्तरेणात्मनो_योगं...&oldid=418818" इत्यस्माद् प्रतिप्राप्तम्