वृक्षासनम्
दिखावट
वृक्षासनं योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
[सम्पादयतु]- भूमौ वामपादेन दण्डायमानः सन् दक्षिण्पादं जानुतः पुटीकृत्य वामजंघस्य समीपे स्थापयतु ।
- पूरकेण हस्तद्वयम् ऊर्ध्वम् उत्थाप्य नमस्कारमुद्रया मस्तकस्योपरि स्थापयतु ।
- मणिवन्धद्वयं मस्तकं श्पृशेत् ।
- निमेषद्वयं तस्यामवस्थायां तिष्ठतु ।
- शनैः शनैः रेचकेण हस्तद्वयमधः कृत्वा दक्षिणपादमधः करोतु ।
- पुनः अपरपादेन दण्डायमानो भूत्वा पूर्ववत् करोतु ।
लाभः
[सम्पादयतु]- आसनमिदं शरीरस्य ग्रन्थिसमूहं सहजतया सञ्चालयितुं समर्थं भवति ।
- ग्रन्थिसमूहं दृढीकरोति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- The Tree Pose at Flash Mavi Archived २००७-०९-२७ at the Wayback Machine
- Yoga Journal - Tree Pose