सामग्री पर जाएँ

वेदानां सामवेदोऽस्मि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

वेदानां सामवेदः अस्मि देवानाम् अस्मि वासवः इन्द्रियाणां मनः च अस्मि भूतानाम् अस्मि चेतना ॥ २२ ॥

अन्वयः

[सम्पादयतु]

वेदानां सामवेदः अस्मि । देवानां वासवः अस्मि । इन्द्रियाणां मनः च अस्मि । भूतानां चेतना अस्मि ।

शब्दार्थः

[सम्पादयतु]
वेदानाम् = चतुर्णां वेदानाम्
सामवेदः अस्मि = सामवेदः अस्मि
देवानाम् = सुराणाम्
वासवः अस्मि = इन्द्रः अस्मि
इन्द्रियाणाम् = इन्द्रियाणाम्
मनः च = चित्तम्
भूतानाम् = प्राणिनाम्
चेतना अस्मि = चैतन्यम् अस्मि ।

चतुर्षु वेदेषु अहं सामवेदः अस्मि । सुरेषु इन्द्रः अस्मि । इन्द्रियेषु मनः अस्मि । प्राणिषु चैतन्यम् अस्मि ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]