वेदाहं समतीतानि...
दिखावट
श्लोकः
[सम्पादयतु]- वेदाहं समतीतानि वर्तमानानि चार्जुन ।
- भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य षड्विंशतितमः(२६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]वेद अहं समतीतानि वर्तमानानि च अर्जुन भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
अन्वयः
[सम्पादयतु]अर्जुन ! अहं समतीतानि वर्तमानानि च भविष्याणि च भूतानि वेद । मां तु कश्चन न वेद ।
शब्दार्थः
[सम्पादयतु]- अहम् = परमेश्वरः अहम्
- समतीतानि = अतिक्रान्तानि
- वर्तमानानि च = वर्तमानानि च
- भविष्याणि च = आगामीनि अपि
- भूतानि = स्थावरजमानि
- वेद = जानामि
- मां तु = परमेश्वरं तु
- कश्चन = कोऽपि
- न वेद = न जानाति ।
अर्थः
[सम्पादयतु]हे अर्जुन ! अहं अतिक्रान्तानि वर्तमानानि आगामीनि अपि सर्वाण्यपि भूतानि जानामि । मां तु कोऽपि न जानाति ।