वेदेषु यज्ञेषु तपस्सु चैव...
दिखावट
श्लोकः
[सम्पादयतु]- वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
- अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अष्टाविंशतितमः (२८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]वेदेषु यज्ञेषु तपस्सु च एव दानेषु यत् पुण्यफलं प्रदिष्टम् अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति च आद्यम् ॥ २८ ॥
अन्वयः
[सम्पादयतु]योगी एतत् सर्वं विदित्वा वेदेषु यज्ञेषु तपस्सु दानेषु च एव यत् पुण्यफलं प्रदिष्टं तत् अत्येति परम् आद्यं स्थानम् उपैति ।
शब्दार्थः
[सम्पादयतु]- योगी = समाहितचित्तः
- इदम् = एतत्
- सर्वम् = सकलम्
- विदित्वा = विज्ञाय
- वेदेषु = निगमेषु
- यज्ञेषु = यागेषु
- तपस्सु = व्रतेषु
- दानेषु च एव = वितरणेषु च
- पुण्यफलम् = सुकृतफलम्
- प्रदिष्टम् = प्रोक्तम्
- तत्सर्वम् = तत्सकलम्
- अत्येति = अतिक्राम्यति
- परम् = उत्तमम्
- आद्यम् = मूलकारणम्
- स्थानम् = प्रदेशम्
- उपैति = प्राप्नोति ।
अर्थः
[सम्पादयतु]समाहितचित्तः एतत् सर्वं विज्ञाय निगमेषु यागेषु व्रतेषु दानेषु च यत् सुकृतफलं प्रोक्तंतत् सर्वम् उपेक्षमाणः अतिक्राम्यति । सर्वेषां यत् मूलं तत् ब्रह्म प्राप्नोति ।