व्यासप्रसादाच्छ्रुतवान्...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।
- योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चसप्ततितमः(७५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥
अन्वयः
[सम्पादयतु]साक्षात् कथयतः योगेश्वरात् कृष्णात् गुह्यं परम् एतत् योगं व्यासप्रसादात् अहं स्वयं श्रुतवान् ।
शब्दार्थः
[सम्पादयतु]- साक्षात् = प्रत्यक्षम्
- कथयतः = वदतः
- योगेश्वरात् = योगप्रभोः
- कृष्णात् = वासुदेवात्
- गुह्यम् = रहस्यम्
- परम् = उत्तमम्
- योगम् = योगग्रन्थम्
- व्यासप्रसादात् = व्यासानुग्रहात्
- श्रुतवान् = आकर्णितवान् ।
अर्थः
[सम्पादयतु]योगेश्वरः कृष्णः साक्षात् स्वमुखेन यदिदं गीतार्थतत्त्वम् उक्तवान् तदहं व्यासानुग्रहेण श्रुतवान् अस्मि ।