शिवकुमारस्वामी
शिवकुमारस्वामी ಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು | |
---|---|
![]() शिवकुमारस्वामी, भारतस्य पूर्वतनराष्ट्रपतिना डा अब्दुल् कलामवर्येण सह | |
जन्म |
भारतम् | १, १९०७
मृत्युः |
२१ जनवरी २०१९ ![]() |
शिक्षणस्य स्थितिः |
Central College of Bengaluru ![]() |
वृत्तिः | श्री सिद्धगङ्गा एजुकेशन् सोसैटी ( Sree siddhaganga education society) संस्थायाः संस्थापकः |
कर्णाटकरत्नः डा. शिवकुमारस्वामी(०१ एप्रिल् १९०७-२१ जनवरी २०१९) (कन्नड: ಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು, आङ्ग्ल: Shivakumara Swamiji) तुमकूरुमण्डलस्य सिद्धगङ्गामठस्य मठाधिपतिः । एषः त्रिविध(अन्नम्,अक्षरं,ज्ञानं)दासोहदाता । द्वादशस्य (१२) शतमानस्य युगपुरुषस्य, क्रान्तिकारिणः बसवण्णनामकस्य 'कायकवे कैलास' इत्यस्य वचनस्य, नित्यदासोहतत्त्वस्य च कैङ्कर्ये अस्य प्रवृत्तिः । ०३/०१/१९३० तमे दिनाङ्के श्रीमठस्य दायित्वं स्वीकृत्य तद्दिनात् मठस्य, वीरशैवधर्मस्य, समाजस्य च उद्धारार्थं एषः निरन्तरं श्रममाणः अस्ति ।
देशस्य, समाजस्य च प्रगतिविषये अस्य बहु आदरं वर्तते । आगामिपरम्परायाः अभिवृद्धये कृतसङ्कल्प एषः । समाजस्य अनेकानां गण्यानां बाल्यजीवनस्य परिवर्तनाय एषः कारणीभूतः । श्रीमठे १०,००० विद्यार्थिभ्यः आश्रयं दत्त्वा तेभ्यः त्रिविधदासोहं सततं यच्छन् अस्ति एषः ।
जननं बाल्यञ्च[सम्पादयतु]
मागडी इत्यस्य मण्डलस्य वीरापुरे ०१/०४/१९०८ तमे दिनाङ्के अस्य जन्म अभूत् । 'शिवण्ण' इति अस्य बाल्यनाम । श्री होन्नप्प, श्रीमती गङ्गम्मा अस्य पूर्वाश्रमपितरौ । नागवल्यां प्राथमिकमाध्यमिकशिक्षणं समाप्य, तुमकूरु इत्यस्मिन्नगरे विद्यमानायां सर्वकारीयप्रौढशालायां प्रौढशिक्षणं समाप्य, १९२६ तमे वर्षे 'मेट्रिक्युलेषन्' प्राप्तवान् । १९२७ तमे वर्षे तदानीन्तनसिद्धगङ्गामठाधिपतेः सहवासः जातः । तस्मिन्नेव वर्षे प्रवेशपरीक्षायाम् उत्तीर्य उन्नतविद्याभ्यासार्थं बेङ्गळूरु इत्यस्य महानगरस्य 'सेन्ट्रल् कालेज्' प्रविष्टवान् ।
स्वामिनः दिनचरी[सम्पादयतु]
प्रतिदिनं स्वामी प्रातः चतुर्वादने उत्थाय स्नात्वा पूजाप्रकोष्ठे एकघण्टापेक्षया अधिकसमयं ध्यानावस्थायां भवति । तदनन्तरम् इष्टलिङ्गपूजा । तदनन्तरं भक्तेभ्यः त्रिपुण्ड्रभस्मं दत्त्वा, स्वयमपि धृत्वा पूजां समापयति । तदनन्तरम् अल्पाहारसेवनं प्रातः सार्धषड्वादने । मठे विद्यमानानां बालकानां सामूहिकप्रार्थनायां सः प्रतिदिनं भागं गृह्णाति । तदनन्तरं कार्यालये वार्तापत्रिकाणां पठनम् । तदनन्तरं भक्तेभ्यः दर्शनं, भक्तैः सह सम्भाषणं, गण्यैः सह मेलनम्, अधिकारिभिः सह मठस्य शासनसम्बद्धाः चर्चाः इत्येवम् अस्य दिनचरी प्रचलति ।
पुरस्काराः[सम्पादयतु]
२००७ तमे वर्षे कर्णाटकसर्वकारेण स्वामी कर्णाटकरत्नपुरस्कारेण पुरस्कृतः अस्ति ।