शिवाजीचरितम्
शिवाजीचरितम् | |
---|---|
'राजा' रविवर्मणा निर्मितं युद्धरतशिवाजीचित्रम् | |
लेखकः | हरिदाससिद्धान्तवागीशः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
शिवाजीचरितस्य प्रथमाभिनयः स्वाधीनतादिवस-यात्रावसरे समभूत् । सूत्रधारो ब्रवीति यद् भारतवासिनां हृदयेषु देशप्रेमदीपनार्थमेव वयमभिनेतुमभिलषामः। शिवाजीचरितं १९४५ ख्रीष्टाब्दे विरचितम्। रचनेयं सर्वथा कालासुयोगिनी।
कथावस्तु
[सम्पादयतु]शिवाजी गोविन्दं सहपाठिनं कथितवान् यद् 'गुरुजनाः शास्त्राण्यध्येतुमादिशन्ति मनश्च शस्त्रग्रहणाय समुत्कण्ठते । राज्यं यवनैरपहृतम् । शत्रूणां संख्या चान्युना इति।
गोविन्दोऽवदत् -
सम्पदि विपदि वालिशं छायेवानुवर्तिष्ये भवन्तम्।
राजनि च त्वयि मन्त्री भवितास्मि कारायां च सहगामी॥
ततः शिवाजी ब्रवीति -
'सुखमयमपि हिन्दुस्थानमप्यच्छहिन्दोर्न खलु भोग्यमेतत् पिशाचैः' इति।
द्वितीयाङ्के तोरणदुर्गस्याध्यक्षः करीमवक्सो विलासीति श्रूयते । शिवाजीमहोदयस्तत्र साधुवेशं परिधाय गतस्तस्य मनोरञ्जनाय। नर्तकीनां नृत्येन आसावानन्दविह्वलो जातस्तदा । अचिरेणैव सर्वे नर्तकाः समरमुद्रां सज्जीकृत्य दुर्गाधिकारिण आक्रान्तवन्तः। करीमवक्सो निगडितः । तोरणदुर्गश्च जितः शिवराजेन।
तृतीयाङ्के बीजापुरस्य नादिरनाम्नोऽधिपतेः दुर्गोऽप्यधिकृतः शिवराजेन । शिवाजीमहोदयस्य पिता साहनाथस्तस्यैव राजस्वसचिव आसीत् । स तु पुत्रस्यापराधेन बन्दित्वं प्रापितः । नादिरेण अफजलनामकः सेनापतिः आहूय भाषितं यच्छिवाजीलुण्टाको हन्तव्यः । अफजलः प्रत्यभाषत -
'चातुरीत एव चतुरं व्यापादयिष्यामि'।
चतुर्थेऽङ्के पूर्वघटनानां सङ्क्षिप्तसूचना वर्तते । पञ्चमेऽङ्के बीजापुरस्य सेनापतिः अफजलखानः शिवाजीं हन्तुमना तस्य सान्निध्यमवाप्य समुद्यतो बभूव । अभिसन्धिना शिवराजस्य वामकुक्षौ छुरिकया प्रहर्तुमियेष, किन्तु चतुरः शिवाजी व्याघ्रनखजालेन तस्योदरं विदारितवान्।
षष्ठेऽङ्के नादिरशाहस्य शिवाजी-दमन-विषयकाणि कुचक्राणि सन्ति । पुण्यपत्तने सायस्ताखानो दुर्गाध्यक्ष आसीत् । कस्मिंश्चिद् दिने भास्करनामा शिवराजस्य सहपाठी सहकारी सेनापतिश्च वैष्णवसाधुवेशं धृत्वा सायस्ताखानस्य समीपं गत्व अवोचत् -
'मम मातुः शवयात्रयानेनैव दुर्गमार्गेण भवितव्यम् इति। तेनानुमतम्। अचिरमेव कृत्रिमशवयात्रिणः तत्र आजग्मुः । ते सर्वेऽपि योद्धारः सायस्ताखानस्य सेनां विद्राव्य पूनादुर्गमधिकृतवन्तः ।
सप्तमेऽङ्के अवरङ्गजेबः राजसभायां विराजमानोऽस्ति। राजस्वमन्त्री सूचितवान् यद् हिन्दवो जजियाकरं न ददति । तदा शिवाजी तत्राविशत् । अवरङ्गजेबस्तस्योपेक्षाभावेनासौ परं क्षुभितः । स गृहं गन्तुमियेष किन्तु मुगलाधिपतिना कारागारे कृतः। अष्टमाङ्के शिवराजोऽवरङ्गजेबं सूचयामास यद् अहं रुग्णोऽस्मि दानार्थं च कानिचिन् मिष्टान्नपात्राणि प्रेषणीयानि । पश्चात् पञ्चदशदिनानि यावत् मिष्टान्नवितरणमभूत् । शिवाजी मिष्टान्नपात्रान्तर्निहितो भूत्वा पलायितवान् । तस्य ग्रहणार्थम् अवरङ्गजेबेन महती सेना सम्प्रेषिता ।
दशमेऽङ्के शिवराजस्य राज्याभिषेकस्य चर्चा वर्तते। राज्याभिषेकसमये रामदासो गुरुस्तमाशीर्वचोभिः अभिषेचयति स्म । पश्चाच्च छत्रं समर्पयामास । माता तस्य ललाट-प्रदेशं तिलकेन विभूषयामास ।
हरिदासेन नाटकारम्भे भूमिकायां निवेदितम् -
‘प्रायेणैव यथायथमितिहासमनुसरता वृत्तान्तपरिवृत्तिमकुर्वता पात्रमात्रं च कल्पयता नाटकीयलक्षणादीनि च परिरक्षता नाटकमिदं मया निरमायि’ इति।
कविना शिवाजीचरिते गीतानि समावेशिनि प्रथमाङ्कस्यान्ते नायकस्य सहचराणां बालगीतं वर्त्तते -
बालको युवकः प्रौढो वृद्धः मनसा वचसा वपुषा शुद्धः।
भवतु त्वरितमेकतावहः देशोद्धारे मास्तु विरुद्धः।।
धर धर प्रहरणं चल चल महारणम्।
कुरु भारतोद्धरणं न भव कोऽपि विरुद्धः।।
इह बहुगुण आर्यः नहि यवननिवार्यः।
भवामि कृतकार्यः परमपि सुसमृद्धः।।
नाटके छायातत्वं परमोन्नतं वर्तते । सर्वेऽपि विविधवेशान् समवलम्ब्य युध्यन्ते । सप्तमाङ्कस्य प्रारम्भोऽवरङ्गजेबस्य एकोक्त्या भवति । स कथयति यद् - धर्मस्य संवर्धनं जीवनस्य चरमलक्ष्यं वर्तते । सूक्तयो यथोचितं प्रयुक्ताः। तथाहि
१ - विषमा पराधीनता पिशाची सर्वेषामेव पौरुषं ग्रसते।
२- दर्पणे खल्वनुरूपमेव प्रतिबिम्बं पतति।
३- वपुर्बलाद् बुद्धिबलं गरीयः।