छत्रपति शिवाजी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Shivaji
शिवाजी शहाजी भोसले
Chhatrapati

Shivaji's portrait (1680–7), housed in the British Museum
Flag of the Maratha Empire.svg 1st king of the Marathas
शासनकालम् 1674–1680 CE
राज्याभिषेकः 6 June 1674
उत्तराधिकारी Sambhaji
Consort Saibai (Nimbalkar)
Wives Soyarabai (Mohite)
Putalabai (Palkar)
Sakvarbai (Gaikwad)
Kashibai (Jadhav)[१]
Issue
Sambhaji, son
Rajaram, son
Sakhubai Nimbalkar, daughter
Ranubai Jadhav, daughter
Ambikabai Mahadik, daughter
Rajkumaribai Shirke, daughter
पिता Shahaji Bhonsle
माता Jijabai
जन्म c. April 1627 / 19 February 1630[२]
Shivneri Fort, near Pune, India
मृत्युः 3 April 1680
Raigad Fort, Pune, India
मतम् Hinduism

कश्चित् बालकः एकस्मिन् लघुनि सिंहासने उपविष्टवान् आसीत् । तस्य भटाः कञ्चन ग्रामाधिकारिणम् आनीतवन्तः । तस्य अपराधः एवम् आसीत् एकस्याः अनाथविधवायाः बलात्करणम् इति। ग्रामाधिकारिणः हस्तौ पादौ च बद्धौ आस्ताम् । अनाथानाम् असहायानां रक्षणं ग्रामाधिकारिणः कर्तव्यम् । किन्तु सःन केवलं दुष्टः अपि च गर्वी । एतावान् लघुबालकः तस्य चेष्टाः सुनिशितं परिशीलयतीति तस्य ग्रामाधिकारिणः ऊहापि नाभवत् । ग्रामाधिकारिणं न केवलं गृहीतवान् अपि तु न्यायस्थानं प्रति तम् आनीतवान् सः बालकः । सर्वविषयश्रवणानन्तरं ग्रामाधिकारी दारुणमपराधं कृतवानिति स्पष्टमभवत् ।

दृढस्वरेण बालराजकुमारः स्वनिर्णयं प्रकटितवान् -’एतस्य पादद्वयं, हस्तद्वयं कर्तयन्तु'इति।सर्वे जनाः आश्चर्यचकिताः जाताः, आनन्दमन्वभवन् च । जनाः चर्चां कुर्वन्ति स्म-"पश्यतु अस्माकं बालराजकुमारः न केवलं न्यायप्रिय: अपि तु, दुष्टेभ्यः किञ्चिद् अपि भीतिम् नानुभवति । सर्वस्याऽपि दोषिणः योग्यं दण्डं विदधाति । दीनानां, दुःखितानां, निर्धनानां विषये तस्य हृदयं करुणापूर्णम् अस्ति । तेषां साहाय्यता, संरक्षणं च तस्य प्राणसमम् । सर्वेभ्योऽपि विशिष्टः गुणः अस्ति--सर्वाः स्त्रियः राजकुमारः स्वमातृवत् भावयति । एषः ज्येष्ठः भूत्वा देशं, धर्मं च रक्षिष्यति इत्यत्र नास्ति सन्देह: । वयमपि अवश्यं तं सहकुर्मः"इति। कोऽसौ राजकुमार इति ज्ञातुमिच्छा अस्ति वा ? सः एव शिवाजि: । अस्याः घटनायाः समये तस्य आयुः आसीत् केवलं चतुर्दशवर्षाणि । शिवराजराज्ये पूना, तत्समीपप्रान्ताः च आसन् । पिता शाहराजः बीजपुरराजस्य (सुलतानस्य) सभायाम् एकः सेनापति: । जनकः पुत्रस्य स्वभावं सम्पूर्णतया जानाति स्म । विदेशीयानां पालकानां पुरतः अनमतः स्वकुमारस्य सिंहसदृशं धैर्यं यदा शाहराज:स्मरति स्म तदा तस्य हृदयं पुलकितं भवति स्म । सा घटना एव अद्भुता- एकदा शाहराजः स्वपुत्रं बीजपुरराजस्य सभां नीतवान् । तदा शिवराजः द्वादशवर्षीयः अपि नासीत्। तदानीन्तन-सम्प्रदायानुसारं शाहराजः त्रिवारं हस्तेन भूमिं स्पृशन् शरीरं नामयित्वा प्रभोः नमस्कारं (सलाम्) कृतवान् । स्वपुत्रमपि तथैव करोतु इति सूचितवान् । तद्वाक्यश्रवणेनैव पादचतुष्टयं पृष्ठ्त: गत्वा दृढं दण्डवत् स्थित्वा असम्मतिं सूचयन् शिरः चालितवान्, अहं परपालकानां पुरतः शिरः न नामयामि इति । शिवराजस्य एतादृशी भावना तस्य तीक्ष्णदृष्टया प्रकटिता अभवत् । सिंहसदृशगाम्भीर्येण, दर्पेण च सः सभातः बहिरागतवान् ।

छत्रपतिशिवाजी (१६३०-१६८०) मराठा साम्राज्यस्य संस्थापकः। बीजपुरसुलतानस्य पुरतः एतादृशसाहसेन व्यवहृतवन्तः जनाः तावत्पर्यन्तं केऽपि नासन् । एतस्य लघुबालकस्य धैर्यं दृष्ट्वा सर्वेऽपि आश्चर्यचकिताः अभवन् । स्वपुत्रस्य एतादृशचेष्टाभिः शाहराजः कुपितः अभवद् वा ? नैव प्रत्युत स्वमनसि अधिकम् आनन्दम् अनुभूतवान् स: । दौर्भाग्यवशात् स्वतन्त्ररुपेण स्थातुं तस्य अवसर: नासीत् । अतः शाहराजः स्वपुत्रं पुण्यपत्तनं (पूना) प्रेषितवान् । स्वपुत्रः वा स्वतन्त्रराजः भवेदिति शाहराजस्य आशयः । एतावति लघुवयसि शिवराजे एतावत् धैर्यं, शौर्यं, देशभक्तिः, धर्मे अनुरागः इत्यादय: उदात्तगुणाः कथम् आगता: ? इति प्रश्नः भवतां मनसि सहजतया भवत्येव । एतेषां सर्वेषां कारणभूता आसीत् तस्य माता जीजाबाई । शिवराजस्य बाल्यदारभ्य सा तं रामायणे महाभारते, पुराणेषु च स्थितानां वीराणां, महात्मनां जीवनकथाः श्रावयति स्म । एतादृशवीरगाथाः, धर्मगाथाः श्रावं श्रावं शिवराजस्य मनसि अपि स्वयं रामः,कृष्णः, अर्जुनः, भीमः भवेयम् इति भावना जायते स्म । एतावदेव न, शिवराजस्य विषये परमेश्वरस्य कृपा अपि आसीत् । गुरुरूपेण, मार्गदर्शकरूपेण च दादाजी कोण्डदेव इति महापुरुषः लब्धः । कर्णाटकप्रान्ते कदाचित् भव्यं दिव्यं विजयनगरसाम्राज्यम् आसीत् । तस्य साम्राज्यस्य कथाः तदा तदा शिवराज:शृणोति स्म । एताः कथाः तस्मै महतीं स्फूर्तिं दत्तवत्यः ।

छत्रपतिः शिवाजी

’शिवनेरी’ भाग्यम्[सम्पादयतु]

१६२७ तमे वर्षे 'शिवनेरी’दुर्गे शिवराजः जातः । भविष्यकाले साधनीयाय दुर्गाणां विजयाय इतः एव स स्वराज्यं सुस्थिरं कर्तुम् एच्छत् । तस्य नान्दीरुपेण केवलं षोडशे वर्षे एव एकं दुर्गं जितवान् । तस्य दुर्गस्य नाम 'तोरणम्’ । 'तोरणम्’......आः..... कीदृशं सुन्दरम् , भावयुक्तं नाम । स्वराज्यस्य आधारभूतं तत् दुर्गं सर्वत: सुरक्षितं कर्तुं सैन्यमादिशत् शिवाजि: । तस्मिन् दुर्गे यदा खननमारब्धं तदा स्वर्णनाणकैः पूर्णानि पात्राणि लब्धानि । 'महालक्ष्म्या स्वराज्यलक्ष्म्याः कृते प्रेषिता पुरस्कृतिः एषा’ इति भाति खलु । आश्चर्यकरोऽयं विषयःयत् तत्र कर्म कुर्वतां निर्धनकर्मकराणां मनसि तस्मिन् विषये क्षणकालमपि व्यामोहःन उत्पन्न: । तं निधिं सर्वमपि ते शिवराजसमीपं नीतवन्तः । 'स्वराज्य’सङ्ग्रामाय देवेनैव एतद्वनं प्रेषितमिति ते चिन्तितवन्तः । तोरणदुर्गविजयानन्तरं शिवराजः एकस्यानन्तरं एकं दुर्गं जितवान् । शिवराजस्य विजयवार्ताः बीजपुरमहाराजस्य (सुलतानस्य) कर्णौ प्राप्तवत्यः । शिवराजस्य एतान् विजयान् निरोद्धुम् एकं कुतन्त्रं कृतवान् सः । शाहराजं कारागारे स्थापितनवान् । शाहराजं कारागारे बध्द्वा हिनस्तीति, शिरश्छेदनं करिष्यतीति वार्ताः शिवराजं प्राप्तवत्यः। अत्र स्वराज्यस्थापनानन्दे मग्नस्य शिवराजस्य ताः वार्ताः वज्राघात इव लग्नाः । तस्य मातुः जीजायाः मनः अपि एतया वार्तया व्याकुलितम् अभवत् । स्वस्य सौभाग्यं यमः कर्षयन्नस्तीति तया अनुभूतम् । एतया वार्तया सह विषादकरं वार्ताद्वयं अवाप्तम् । प्रथमा वार्ता फतेखान् -नामक: बीजपुर(सरदारः)सेनानी महता सैन्येन शिवराजं आक्रान्तुं प्रस्थितः इति । द्वितीया वार्ता- फरादखाननामकः अन्यः बीजपुरसेनानी शिवराजस्य सोदरं सभाजिराजं बन्धुं प्रेषितः अस्ति इति । शिवराजं पराजित्य, वित्रास्य वा कथमपि निग्रहीतुम् एतादृशं कुतन्त्रं रचितम् आसीत्। शिवराजः यदि वशो न भविष्यति, अथवा सङ्ग्रामं न त्यजति तथापि तस्य पितुः प्राणानां हानिः भविष्यति । शिवराजः व्याकुल: अभवन्। 'किं करणीयम्, किं न करणीयम्’ इति सः न ज्ञतवान् । एतस्यां क्लिष्टपरिस्थितौ तस्य पत्नी सयीबायी योग्यम् उपायं सूचितवती । तदा तस्याः वयः केवलं चतुर्दशवर्षाणि एव । " एतस्मिन् लघुविषये तावदधिकं चिन्तनं किमर्थम् ? शत्रुनाशनं करोतु । तदा भवतः पिता मुक्तो भविष्यति, स्वराज्यमपि सेत्स्यति" इति । सयीबायी नूनं वीरपत्नी । शिवराजः तत्क्षणं निर्णयं स्वीकृतवान् । पुरन्दरदुर्गं बीजपुरसुलतानस्य अधीने आसीत् । स्नेहपूर्णवाक्यैः तस्य दुर्गस्याधिपतेः हृदयं जित्वा शिवराजः स्वसैन्यं तस्मिन् दुर्गे न्यवेशयत् । फतेखानः स्वसैन्येन सह यदा तत्र प्राप्तः तदा पुरन्दरदुर्गस्थं शिवराजसैन्यं अवितर्कितम् आक्रमणं अकरोत् । स्वराज्यस्थापनसङ्ग्रामाय एषा प्रथमपरीक्षा पराक्रमवतः शिवराजसैन्यस्य आक्रमणेन पराजितः फतेखानः युध्दभूमिं त्य्क्त्वा पलायितवान् । अन्यत्र शम्भुराजः अपि फरादखानं जितवान् । सङ्ग्रामेषु जयं प्राप्तवान्, किन्तु पिता कथं रक्षणीयः ? इति शिवराजः चिन्तयन् आसीत् । हठात् तस्य मनसि विद्युदिव एकः विचारः आगतः । शत्रोः तन्त्रात् अपि उत्तमतन्त्रयोजने शिवराजः समर्थः । तस्मिन् समये देहलीं शाहजानः परिपालयति स्म । शिवराजः तस्मै एकं पत्रं लिखितवान् । 'मम पितरं बीजपुरसुलतानः कारागारे बध्दवान् । तं यदि मुक्तं करिष्यति तर्हि अहं, मम पिता च भवतः सेवायाम् उपस्थितौ भविष्यावः 'इति । बीजपुरसुलतानः पत्रस्य विषयं ज्ञातवान् । बहुकालतः देहलीचक्रवर्ती (बादशाहः)बीजपुरस्य आक्रमणप्रयत्ने अस्तीति सः जानाति स्म। अस्मिन् समये चक्रवर्ती आक्रमणार्थम् स्वयम् आगच्छति चेत् स्वस्य स्थितिः का ? इति भावना यदा मनसि आगता, तदा तस्य हृदयं भग्नमिवाभवत् । तत्क्षणं शाहराजं सगौरवम् अमुञ्चत । एवं शिवराजः स्वपराक्रमेण, बुध्दिचातुर्येण च स्वराज्यस्थापने समागताः संकटस्थितीः अतिक्रान्तवान् । अष्टादशवर्षाणां वयस्येव शिवराजः कोङ्कण-पुरन्दर- प्रतापगृह-राजगृह-चाकणेत्यादिनि चत्वारिंशत् दुर्गाणि स्वायत्तीकृत्य तत्र भगवद्ध्वजं प्रतिष्ठापितवान् । अस्मिन् समये एव देशस्य पश्चिमभागे आंगलेयाः पोर्चगीसजनाः च पदनिक्षेपं कुर्वन्तः आसन् । एते विदेशीयाः यदा कदापि भारतदेशं सङ्कटेषु पातयिष्यन्तीति सः पूर्वमेव समभावयत् । एतेभ्यः देशरक्षणाय समुद्रतीरप्रान्तेषु दुर्गाणां निर्माणम् आरभत । युध्दाय योग्याः नौकाः, नाविकादलं च निरमात् । विदेशीयशक्तिभ्यः सम्भविष्यमाणाम् आपदं पूर्वमेव ज्ञातवान् । तेषाम् आक्रमणानि निरोध्दं योग्यां रक्षणव्यवस्थां व्यरचयत् च एवं शिवराजः बहुदूरदर्शी आसीत् ।

शत्रूणां स्ंहार:[सम्पादयतु]

शिवराजः स्वराज्यनिर्माणे सफल: भवन्नस्तीति दृष्ट्वा आदिलशाहस्य (बीजपुरसुलतानस्य) मनः व्याकुलितम् अभवत् । निःस्पृहता आवृता । 'शिवराजः आस्मिन् दिने एतद् दुर्गं जितवान्, ह्यः तद् दुर्गं जितवान् ’ इत्यादि वार्ताः प्रतिदिनं सः शृणोति स्म । राज्ञः सपत्नीमाता उलियाबेगम् नाम्नी शिवराजं नितरां द्वेष्टि स्म। सा प्रख्यातान् सर्वान् वीरानाहूय सभामेकाम् आयोज्य -"शिवराजं बन्धुं यस्य धैर्यसाहसादिकम् अस्ति, सः एतं खड्गं स्वीकरोतु’ इति पन्थाह्वानं कृतवती । सभायाः मध्ये पटवस्त्रेण आवृतः खड्गः आसीत् ।तदा बृहदाकारकः दृढकायः कश्चन सेनापतिः उत्थितवान् । पुरतः आगत्य तं खड्गं गृहीतवान् । तस्य नाम अफजलखानः । आदिलशाहसभायां मुख्यसेनानीषु अयम् एकः ।यथा अयं पराक्रमी, तथा वञ्चकः, क्रूरश्च । पञ्चविंशतिसहस्रयोधै: युक्तं बलिष्ठं सैन्यं स्वीकृत्य सः शिवराजं ग्रहीतुं प्रस्थितवान् । आरम्भे अफजलखानः तुलजापुरस्थं देवीमन्दिरं स्वह्स्ताभ्यां ध्वस्तं कृतवान् । तुलजापुरभवानी शिवराजस्य कुलदेवता । एवमेव पण्ढरपुरस्थां मूर्तिमपि ध्वस्तवान् । खानेन क्रीयमाणानां दुष्कृत्यानाम्, अत्याचाराणाञ्च वार्ताः शिवराजं प्राप्नुवन्त्येव । शिवराजः यावत् दुर्गेषु, अरण्येषु तिष्ठति, तावत् तस्य बन्धनं नैव सुकरं भवति इति खानः जानाति स्म । देवालयानां ध्वंसः, स्त्रीणाम् अत्याचारः, गवां हननम् इत्यादि अकृत्यानि कुर्मः चेत् शिवराजः अवश्यं बहिरागमिष्यतीति, विनायासं तं ग्रहीतुं शक्नुमः इति अफजलस्य कुतन्त्र्म् आसीत् । किन्तु शिवराजः स्वपरिधिम् अतिक्रम्य बहिः नागतवान् । अफजलखानस्य कुतन्त्रं सः ज्ञातवान् । दुर्गं त्यक्त्वा बहि: युध्दं क्रियते चेत् अफजलः अवश्यं जेष्यतीति सः जानाति स्म । अतिगहनारण्ये नूतनतया निर्मितं प्रतापदुर्गं प्राप्य, कथञ्चित् अफजलखानं तत्र आनयामः इति उपायं रचितवान् शिवराजः । अस्मिन्नेव समये भवनीमाता स्वप्ने शिवराजस्य साक्षादभूय ’ निश्चयेन तव विजयो भविष्यति’ इति आशिषो दत्तवती । यथाकथञ्चित् शिवराजं प्रतापगढतः भूप्रान्तम् आनेतुम् अफजलखानः एकं दूतं शिवराजस्य समीपे प्रेषितवान् । तस्मै दूताय अनेकाः रहस्यसूचनाः च दत्तवान् । शिवराजं प्राप्तः सः दूतः अतिविनम्रं " खान् महोदयः भवतः पितुः उत्तममित्रम् अस्ति । अतः सः भवन्तं न बाधयति । भवान् आगत्य तेन मिलतु ।" इति सूचितवान् । शिवराजः इतोऽपि विवेकेन एकं पत्रं विलिख्य स्वदूतद्वारा खानं प्रति प्रेषितवान् । " भवान् मम पितृव्येण तुल्यः । मम कारणेन जातान् दोषान् क्षाम्यतु । भवान् प्रतापगढम् आगत्य मां धन्यं कृत्वा, महाराजस्य समीपं नयतु ।" इति लिखितवान् । शिवराजस्य लेखे दृश्यमानं भयं ज्ञात्वा खानः अत्यन्तमानन्दितवान् । शिवराजस्य लेखहारः युक्तिपरः । सः खानस्य धैर्यसाहसादिकम् अत्यन्तं प्रशंसन् शिवराजस्य भीरुतां वर्णीतवान् । खानः अधिकं मोदम् अनुभूतवान् । खानः स्वपरिवारेण सह तम् अटवीप्रान्तं प्राप्तवान् । प्रतापदुर्गस्य अधोभागे एकं शिबिरं निरमात् । अफजलखानस्य शिवराजस्य च मध्ये सन्धिरचनाय निर्णयः जातः । शिवराजः अत्यधिकं भीतः इति कारणतः अफजलखानः शिवराजम् एकान्ते मिलेदिति, तयोः अङ्गरक्षकद्वयं द्वारे तिष्ठेदिति च निर्णीतम् । सूर्योदयानन्तरं समावेशः भविष्यति । पूर्वदिने रात्रौ शिवराजस्य मित्राणां नेत्राणि न निमीलितानि । नेताजि:, तानाजि:, कन्होजि: इत्यादयः शिवराजस्य अत्यन्तविधेयाः सेनानायकाः स्वस्वसैन्यानि स्वीक्रुत्य दुर्गस्य अधोभागे अरण्ये निः शब्दं स्थितवन्तः । दुर्गात् यदा शतध्नीनां शब्दः श्रूयते तदा खानसैन्यं आक्रान्तव्यम् इति पूर्वमेव सूचना तेभ्यो दत्ता । रात्रिः अतीता । सूर्योदयः जातः । शिवराजः ईश्वरपूजां क्रुत्वा शिरसि शिरस्त्राणं, शरीरे अयः कवचं धृत्वा, भवानीप्रसादितं खड्गं स्वीकृत्य, हस्तयोः व्याघ्रनखानि धृत्वा भवानीमातरं स्मरन् दुर्गस्य अधोभागे स्थितम् अफजलं मेलितुं प्रस्थितः । समावेशस्थानम् अरण्यमध्ये निश्चितम् । अफजलखानशिबिरतः तत् स्थलं न दृश्यते । शिवराजस्य आगमनं अफजलखानः समावेशस्थानतः दृष्टवान् । यदा शिवराजः प्रविष्टवान् तदा खानः उत्थितवान् । एकक्षणं द्वयो: नेत्रचतुष्टयो: सङ्गम: अभवत् । खानः स्वदीर्घबाहुद्वयं प्रसारितवान् । शिवराजः तस्य बाह्वोः मध्ये गतवान् । खानः शिवराजं हस्तद्वयेन आलिङ्ग्य बद्धवान् । तत् साक्षात् मृत्योः आलिङ्गनम् इव भासते स्म । किन्तु कस्य मृत्युः ? तदैव शिवराजः स्वव्याघ्रनखैः खानस्य उदरम् अच्छिन्त् । तस्य आन्त्राणि बहिरागतानि । खानः प्रतिप्रहरणं कृतवान्, किन्तु तत् प्रहरणं शिवराजस्य शिरस्त्राणेन निरुद्धम् । शिवराजः सपदि उड्डीय स्वखड्गेन खानस्य शिरः कर्तयित्वा भूमौ पातितवान् । खङ्गस्योपरि अफजलखानस्य शिरः लम्बयित्वा शिवराजः दुर्गं आरोहति स्म । तत्क्षणे आकाशं मुखरयन् शतध्नीनां नादः आरब्धः । खानस्य सैन्यं मदिरापरवशम् आसीत् । तत्र जायमानां स्थितिं ते न जानन्ति स्म। प्रायः शिवराजं खानः अबध्नात् इत्येव ते चिन्तयन्ति स्म । शिवराजस्य सैन्येन अकस्मात् तेषामुपरि आक्रमणं कृतम् ।तुलजाभवान्याः कृते जातस्य अपमानस्य सम्पूर्णं प्रतीकारं कृतवन्तः सैनिकाः । खानस्य सैन्यं सम्पूर्णतया ध्वस्तम् । पुनः शिवराजमेव विजयलक्ष्मीः वृतवती । शिवराजः स्वमातुः सकाशे एकं पुरस्कारं प्रेषितवान् । तत् किम् ?...अफजलखानस्य शिरः तत् । शिवराजस्य कीर्तिः देशे विदेशेषु च व्याप्ता आसीत् । अफजलस्य वधोदन्तं श्रुत्वा सर्वे तं प्रशंसन्ति स्म । बीजपुरसुलतानन्तु दुःखमेघाः आवृण्वन् । एतैः विजयैः शिवराजः न तृप्तः । तप्तम् अयः आवश्यकतानुसारं यथा परिवर्तयामः तथा परितः स्थितानि अनेकानि दुर्गाणि आक्रान्तुं प्रस्थितवान् । बीजपुरसुलतानः अन्यं सेनापतिं सप्ततिसहस्रपदातिसैन्येन सह शिवराजं निग्रहीतुं प्रैषयत् । सेनापतिः सिद्दीजोहरः शिवराजम् आक्रान्तुं गतवान् । तदा शिवराजः पन्हालदुर्गं प्राप्तवान् । सुलतानस्य साहाय्यार्थम् आङ्ग्लेयाः स्वगोलकास्स्त्रदलम् अपि प्रेषितवन्तः । तेषां साहाय्येन सिद्दीजोहरः पन्हालदुर्गं परिक्रान्तवान् । शनैः, शनैः तदाक्रमणं बलहीनं भवतीति शिवराजः अचिन्तयत् । किन्तु तथा नाभवत् । सुलतानः आदिलशाहः देहलीमहाराजस्य औरङ्गजेबस्य अपि साहाय्यं प्रार्त्थितवान् । औरङ्गजेबः स्वमातुलं षयिस्तेखानम् एकलक्षमितेन सैन्येन सह सिद्दीजोहरस्य साहाय्यार्थं प्रैषयत् । एतादृशसङ्कटस्थितौ जीजाबाई समर्थतया पालनव्यवहारादिकं निर्वहति स्म । यथाकथञ्चित् दुर्गात् बहिः गन्तव्यम् इति शिवराजः प्रणालीं रचयन् आसीत् । किन्तु कथं सम्भवति ? सिद्दीजोहरस्य सैन्यं तु यथाकथञ्चित् परिक्रान्तव्यमेवेति दृढसंकल्पः आसीत् । तदा शिवराजः एकम् उपायम् आलोच्य एकस्य दूतस्य द्वारा सिद्दीजोहराय एकं सन्देशं प्रेषितवान् ।--‘अहं मम पराजयम् अङ्गीकर्तुं सिद्धः अस्मि । यदि भवान् अङ्गीकरोति तर्हि श्वः एव मम दुर्गं भवदधीनं करोमि । कृपया भवान् मम अपराधान् क्षाम्यतु ।’इति शिवराजः वशीभविष्यतीति वार्तां प्राप्य सिद्दीजोहरस्य सेना तस्यां रात्रौ आनन्दे मग्ना । केवलं तान् वञ्चयितुमेव तत्पत्रं लिखितम् इति ते न ज्ञातवन्तः । तस्यां रात्रौ मेघाः गर्जन्ति स्म । विद्युतः विद्योतन्ते स्म । धारापात इव वृष्टिः भवति स्म । तस्मिन्नेव समये शिवराजः स्वकीयेन अष्टशतसंख्याकेन सेनानिवहेन सह गूढं पन्हालगढतः विशालगढदुर्गं प्रति प्रयातः । सिद्दीजोहरस्य सेनारक्षकाः स्वशिबिरेषु उपविश्य शिवराजः वशीभूत इत्यानन्दे आसन् । तेषां मनसि लेशोऽपि सन्देहः भवति चेत् शिवराजस्य प्रणाली भग्ना भविष्यति । शिवराजः तैः गृहीतो भविष्यति । अतः शिवराजस्य सेना प्रतिपदम् अत्यन्तजागरुकतया पदानि निक्षिपन्ती पुरतो गच्छति स्म । भवानीमातुः कृपाकारणतः शिवराजस्य लघुसेना कस्यापि शत्रोः दृष्टौ न पतिता तस्मात् सेनानिवेशात् बहिरागता च । शिवराजेन सह स्थिताः मावलीसैनिकाः स्वमहाराजं शिबिकायाम् उपवेश्य वहन्तः सवेगं धावन्ति स्म । तदा एका विद्युत् लसिता। सर्वोपि प्रदेशः कान्तिमान् जातः । तस्मिन् प्रकाशे सिद्दीजोहरस्य गूढचरः कश्चन धावतः सैनिकान् अपश्यत् । तत्क्षणं धावन् सिद्दीजोहरं प्राप्य 'शिवराजः पलायितवान्" इति वार्ताम् अश्रावयत् । वार्ताश्रवणेन सिद्दीजोहरस्य शिरसि वज्राघात जात: इव । तथापि सः न भीतः । स्वस्य जामातरं सिद्दीमसूदम् अधिकसंख्याकेन आश्विकदलेन सह प्रेषयन् वेगेन शिवराजम् अनुधाव्य बन्धुम् आदिशत् । तेभ्यः पलायनं कष्टमिति शिवराजः ज्ञातवान् । एकम् उपायम् अचिन्तयत् । तत्क्षणं शिबिकां परिवर्तितवान् । सा शिबिका अन्यमार्गेण गता । शिवराजस्य सेनायां शिवराजसदृशः अन्य कश्च्न सैनिकः आसीत् । सः शिवराजस्य वेषं धृत्वा प्रथमशिबिकायाम् आसीनः अभवत् । सिद्दीमसूदः तां शिबिकां, तां सेनां च बद्धवा सिद्दिजोहरस्य समीपम् अनयत् । किन्तु तत्र ज्ञातं यत् तस्य सैनिकस्य नाम् शिवराज एव, किन्तु सः प्रतापदुर्गनिवासी कश्चन क्षौरिक: इति । तत् श्रुत्वा सिद्दीजोहरस्य सेना लज्जया विवर्णा जाता । क्रोधावेशैः सिद्दीमसूदः पुनः शिवराजम् अन्वधावत् । तदैव शिवराजः स्वसैनया सह पञ्चविंशतिमीलदूरं गतवान् । गाजापुर -उपत्यकां प्राप्तवान् च । ततः किञ्चिद् दूरे एव विशालदुर्गम् आसीत् । सिद्दीमसूदः दन्तान् घट्टयन पञ्चसहस्रसङ्खाकैः सैनिकैः सह तान् अन्वगच्छत् । शिवराजस्य सेनायां बाजीप्रभुदेशपाण्डे इति पराक्रमी सेनानी आसीत् । सः भीमसदृश-बलशाली । सः शिवराजं प्रार्थितवान् -‘महाराज ! भवान सेनार्धेन सह विशालगढं सुरक्षितं प्राप्नोतु । शिष्टेन सेनार्धेन अस्मिन् प्रदेशे अहं शत्रुसेनां निरुणध्मि । एकं पदमपि ते पुरतः यथा नागच्छेयुः तथा करोमि’ इति । हस्तद्वयेन खङ्ग्द्वयं स्वीकृत्य स्थितस्य बाजीप्रभोः रणावेशः दर्शनीयः आसीत् । सागरोर्मिवत् पततः आदिलशाहस्य सैनिकान् बाजीप्रभुः गृञ्जनकानीव कर्तयति स्म । घोरः सङ्ग्रामः जातः तस्य ग्रात्रं सर्वमपि व्रणैः रक्तसिक्तम् अभवत् । स्वव्रणान् अगणयित्वा सायं पर्यन्तं सः युद्ध्यन्नेव आसीत् । बाजीप्रभुसैनिकाः बहवः मृताः । अन्ते बाजीप्रभोः प्राणोत्क्रमणं यथा भवेत् तथा शत्रुः कश्चन खड्गेन मारितवान् । बाजीप्रभुः खड्गप्रहारपीडया मृत्युवेदनाम् अनुभवन्न्पि मृत्युं प्रार्थितवान् -‘हे मृत्यो ! मम कर्तव्यसमाप्तिपर्यन्तं किञ्चित् तिष्ठतु ।’ इति । तदा एव विशालदुर्गतः पञ्चवारं शतध्नीनां शब्देन सूचना श्रुता । तस्यार्थः शिवराजः सुरक्षितं विशालदुर्गं प्राप्तवानिति । बाजीप्रभुः अत्यानन्दम् अनुभूतवान् । खड्गं त्यक्त्वा दिवङ्गतः । तस्य मुखे कर्तव्यसमापनतृप्तिः दृश्यते स्म । आत्मार्पणं कृतवतां तेषां वीराणां बलिदानेन सः प्रदेशः पवित्रः जातः । तदारभ्य जनाः तं प्रदेशं पवित्रस्थानम् इति वदन्ति । शिवराजः पन्हालदुर्गत: पलायितः इति वार्ता बीजपुरसुलतानः ज्ञातवान् । तस्य शिरसि सहस्त्रशः वज्राघाताः जाताः इव । तस्य धैर्यं क्षीणं जातम् । शिवराजं पुनः आक्रान्तुं तस्य साहसं नासीत् । किन्तु शिवराजस्य राज्ये षयिस्तेखानरुपेण अन्या आपद् आगता । तामापदं निवारयितुम् अत्यावश्यकतया चिन्तनीयः अवसरः संप्राप्तः । एषा विपत्करस्थितिः कथं सम्मुखीकरणीया....? शिवराजः साहसोपेतम् उपायमचिन्तयत् । तदानीं रम्जान्-मास: । षायिस्तेखानसेनायां सैनिकाः उपवासनियमं पालयन्ति स्म । दिवा निराहारिणः रात्रौ अधिकं खादित्वा अतिनिद्रावशं गच्छन्ति स्म ते । तावता औरङ्गजेबस्य सिंहासनमधिष्ठाय एकवर्षं जातम् आसीत् । अतः रात्रौ मृष्टान्नभोजनं भविष्यति । एतत् ज्ञात्वा द्विसहस्त्रं सैनिकान् चित्वा शिवराजः रायदुर्गतः रात्रौ प्रस्थितः । पुण्यपत्तनतः क्रोशदूरे शिबिरं कृतवान् । पुण्यपत्तनस्य् रक्तभवने (लालमहल्) यत्र शिवराजेन बाल्यं यापितम् आसीत् तस्मिन् एव षायिस्तेखानः निवेशं कृतवान् । पुण्यपत्तने, तत्परिसरप्रान्तेषु एकलक्षं मुघलसैनिकाः निविष्टाः । शिवराजस्य बाल्यमित्रं बाबाजी कैश्चित् सैनिकैः सह मुघलसेनायाः वलयं प्रति प्रस्थितः । तमं शिवराजः अल्पसङख्याकैः सैनिकैः सह अनुसृतवान् । परस्परं भाषामाणाः साधारणसैनिका इव ते मुघलसैन्यवलयं प्रविष्टवन्तः । परिरक्षकाः यदा न्य्रुन्धन् तदा " वयं पर्यटन्तः रक्षकभटाः । अस्माकं रक्षणसमयः समाप्तः, अतः इदानीम् अस्माकं निवासं प्रति गच्छामः । " इति विश्वासितवन्तः । परिरक्षकाः विश्वासं प्राप्तवन्तः । सर्वे सेनानिवेशस्य अन्तः प्रविष्टाः । शिवराजः साक्षात् भवनस्य पश्चादभागं प्राविशत् । ततः पाकगृहं प्राप्तवान् । तत्रत्यान् सर्वान् संहृत्य, शनैः षायिस्तेखानस्य शयनगृहं प्राविशत् । तत्र गमनसमये एकं कुड्यं भेत्तव्यम् आपतितम् । तदा लघुशब्दः अभवत् । तं शृत्वा कश्चन कर्मकरः सूचनां दातुं खानस्य समीपं गतवान् । निद्रापरवशः खानः 'पाकगृहे मूषिकाः शब्दं कुर्वन्ति, गच्छ्तु 'इति कुपितः । एतदन्तरे शिवराजस्य सेनापि भवनान्तर्भागं प्रविष्टा । लालमहले सर्वत्र शत्रवः प्रविष्टाः इति वार्ता दावानलज्वाला इव प्रसृता । षायिस्तेखानस्य पत्न्यः स्वपतिं यवनिकानां पृष्ठत: गोपितवन्तः । शिवराजः पुरतः आगत्य स्वखङ्गं क्षिप्तवान् षयिस्तेखानस्य हस्ताङ्गुलित्रयं छिन्नम् । खानः वातायनतः कूर्दनं कृत्वा पलायितः । तदैव मुघलसेना जागरिता । रक्तभवनं परितः यथेच्छं अत्यन्तवेगेन सर्वे धावन्ति स्म । शिवराजसैनिकाः अपि तैः सह मिलित्वा गृह्णन्तु, बध्नन्तु, छिन्दतु इति क्रोशन्ति स्म । तथा क्रोशन्तः एव भवनद्वाराणि उदघाट्य बहिरागत्य, पूर्वनिर्णीते स्थले सिद्धान् अश्वान् आरुह्य सिंहदुर्गं प्राप्तवन्तः । एतेन संघटनेन शिवराजस्य शत्रूणां भीतिरवर्धत । एतावत्पर्यन्तं सः एकः पर्वतीयमूषक इत्येव चिन्तयन्तः आसन् ते । इदानीं तु तस्य समीपे मन्त्रतन्त्रादिकम् अस्तीति, सः भूतो वा पिशाचो वा भवेदिति भावयन्ति स्म-। एतां सम्पूर्णां वार्तां श्रुत्वा औरङ्गजेबः लज्जया स्तम्भीभूतः । षयिस्तेखानं दण्डयित्वा वङ्गप्रदेशं प्रेषितवान् । स्वराज्यनिर्माणार्थं, पदातिदल-नौकादलनिर्माणार्थं, राज्ये उत्तम-परिपालनरचनाय, विशिष्य शत्रुनिग्रहणार्थं धनम अत्यन्तमावश्यकम् । अतः अन्यमार्गो नास्तीति शत्रुभ्य एव धनं सम्पादनीयम् इति निश्चितवान् शिवराजः । औरङ्गजेबस्य कोशागारम् अपहर्तुं निश्चयः जातः । तेषु दिनेषु सूरतनगरं कुबेरनिवासः इति, धनिकानां निलयः इति च प्रवादः आसीत् । ततः एव शिवराजः आगण्यं धनम् आर्जितवान् ।

मुघलचक्रवर्तिनः जालः[सम्पादयतु]

शिवराजस्य चेष्टाः औरङ्गजेबस्य शिरोवेदना इव जाताः कोपेन तप्तः सः । शिवराजं नाशयितुम् अत्यधिकेन सैन्येन दक्षिणप्रान्तमगन्तुमैच्छत् । किन्तु तस्य पर्वतमूषकस्य नखतीक्ष्णताम् पूर्वमेव आस्वदत सः । अतः किञ्चिदालोच्य् 'सिंहं प्रतियोद्धुं सिंह एव आवश्यक’इति निश्चितवान् । एतस्य कार्यस्य कृते मीरजामहाराजं जयसिहं चितवान् । राजा जयसिंहः न केवलं महान् पराक्रमी, विवेकी सेनापतिश्च । एतादृशः योग्यः पुरुषः परधर्मीयाणां सेवायां ध्न्यो भवामीति चिन्तयतीति ल्ज्जास्पदः विषयः अस्माकम् । अधिकसेनया जयसिंहः दक्षिणापथमागतः बीजपुरसुलतानेन सन्धिं विरचितवान् । सर्वाभ्यः दिग्भ्यः शिवराजं परितः सेनां निवेशितवान् । शिवराजः एकेन लेखेन सन्घिं प्रस्तुतवान् । तथैव जयसिंहेन मिलित्वा संभाषणं कृत्वा औरङ्गजेबेन सह संभाषणार्थमपि अङ्गीकृतवान् । सह्याद्रिगिरिशिखरेषु स्वेच्छया विहरन् मृगराजः शिवराजः किमर्थम् एवं हठात् चक्रवर्तिनः वशीभूतः ? इति सर्वे आश्चर्यचकिताः जाताः ।अग्रे कोऽपि गूढार्थः भवतीति सर्वे भावयन्ति स्म । सेवां करोमीति व्याजेन गत्वा औरंगजेबं ह्न्यात् इत्यपि चिन्तयन्ति स्म केचन । एतेन शिवराजस्य धैर्यसाहसादिविषये, समयस्फूर्तिविषये, समयं दृष्ट्वा शत्रुनाशनाय युक्तिप्रयोगविषये च जनाः कथं विश्वासं प्राप्तवन्त: आसन्निति अस्माभिः ज्ञायते । चिन्तनानुसारं शिवराजः स्वपुत्रेण सम्भाजिराजेन सह औरङ्गजेबेन मेलितुं प्रस्थितः । राजकुटुम्बिनः, पौराः च किं भविष्यति इति उत्कण्ठया आसन् । मार्गमध्ये अनेके हिन्दवः सादरं स्वागतं कृतवन्तः । शिवराजः आगरां प्राप्तवान् । तस्य कुटिलोपायविषये औरङ्गजेबः अपि अल्पचिन्तनं न कृतवान् । अत एव शिवराजं कदापि स्वसमीपमागन्तुं नाङ्गीकृतवान् । राजसभायामपि शिवराजस्य स्थानं दूरे एव अस्थापयत् । एतेन शिवराजः स्वचिन्तनाग्नौ दैवेन शीतोदकं सिञ्चितमिति भावितवान् । 'शिवराजं सगौरवं पश्यामि इति’ जयसिंहाय वचनं द्त्तवान् औरङ्गजेबः स्ववचोव्याघातं कुर्वन् शिवराजम् अपमानितवान् । शिवराजः परं क्रोधाग्निना ज्वलितः । औरङ्ग्जेबस्य यथा अपमाननं भवेत् तथा राजसभां त्यक्त्वा गतवान् । किन्तु शिवराजः महत्याम् आपदि पतितवान् । हस्तगतं शत्रुं त्यक्तुं मूर्खः न चक्रवर्ती । शिवराजं बद्धवा तस्य शिरश्छेदं कर्तुम् आज्ञप्तवान् । एतादृशस्थितावपि शिवराजः स्वधैर्यं न त्यक्तवान् । विपदि स्थितौ शिवराजस्य बुद्धिः, धैर्यं च वेगेन कार्यं करोति स्म । हठात् शिवराजः रुग्णः । तस्य स्वास्थ्यं दिने दिने क्षीयमाणम् अभवत् । 'स्वेन सहागताः महाराष्ट्रसैनिकाः प्रतिगन्तुम् अनुमन्यन्ताम्’ इति सः औरङ्गजेबं प्रार्थितवान् । चक्रवर्ती अनुमतवान् । स्वस्थ्यप्राप्तये साधुभ्यः, सन्यासिभ्यः च मधुरवितरणमारब्धवान् । नगराधिकारिभ्यः अनेकपुरस्कृतीः प्रेषयति स्म । एतेभ्यः सर्वेभ्यः औरङ्गजेबस्य अनुमतिः लब्धा । औरङ्गजेबसदृशस्याऽपि सन्देहः ईषदपि न जातः । मरणदण्डनाय निर्णीतं दिनम् आगतम् । पूर्वदिने शिवराजस्य अस्वास्थ्यम् इतोऽपि प्रवृद्धम् । तस्य शरीरस्मृतिरपि नासीत् । प्रतिदिनम् इव मधुराणां करण्डा: अन्तः आगता: । तावत्पर्यन्तं स्मृतिरहितः शिवराजः हठात् उत्थाय मधुराणां करण्डे उपविष्टवान्, स्वपुत्रं सम्भाजिराजमपि उपवेशितवान् । सेवकाः तत्क्षणं मधुराणां करण्डं शरावेगेण बद्धवा बहिः अनयन् । यथापूर्वं मधुराणां करण्डा एव गच्छन्तीति रक्षकभटाः चिन्तितवन्तः तेषां नायकः फौलादखानः कांश्चन् करण्डान् परीक्षितवान् च । तत्र केवलं मधुराण्येव आसन् । दैववशात शिवराज;, सम्भाजिराज:च यत्र आस्ताम् तत्र तस्य हस्तः न आगत: । भवानीमातु: कृपा, शिवराजस्य युक्तिः, फौलादखानस्य गर्वं इति सर्वम् अनुकूलितम् । भगवतः आशयः शिवराजः सजीवो भवेदिति । फौलादखानः? 'त्यजतु’ इत्याज्ञप्तवान् । कारावासे शिवराजस्य शय्यायां तस्य मित्रं हीरोजि: शिवराजवत् सुप्तः । शरीरं सर्वं राङ्कवेनाच्छाद्य शिवराजस्य राजमुद्रिकासहितं हस्तं बहिः दृश्यमानं कृत्वा सः निद्राम् अभिनयति स्म अमायक इव मदारिमेहतरनामक: बालकः तस्य पादौ संवहति स्म । फौलादखानः मध्ये मध्ये अन्तः चक्षुः प्रसार्य शिवराजस्य अनामयं पृष्ट्वा गच्छति स्म । द्वितीयदिने सायङ्काले हीरोजि: उत्थितः । प्रायः चतुर्विंशतिघण्टापर्यन्तं सः निद्राणवान् । शय्यायां शय्यावस्त्राणि निद्रायमाणमानववत् विरचय्य स्वस्य साधारणवस्त्राणि धृत्वा शनैः बहिरागत्य हस्तद्वयं मुकुलीकृत्य रक्षकभटान् उदिदश्य "शनैः भाषणं कुर्वन्तु । महाराजस्य अस्वास्थ्यं तीव्रम् अस्ति । इदमिदानीं निद्रां प्राप्तवान् सः । अहम् औषधमानेतुं गच्छन्नस्मि ।" इति उक्तवा हीरोजि: अपि बहिरागतवान् । किञ्चित्कालानन्तरं एवमेव वञ्चयित्वा मदारिः अपि पलायितः । शय्यायां शिवराजः निद्रायमाण एव दृश्यते । बहिः रक्षकभटाः खड्गधारिणः सन्तः दृढं रक्षन्त्येव । प्रातः अभवत् । शिवराजस्य शिरश्छेदनं तस्मिन्नेव दिने । फौलदखानः अन्तः आगतवान् । तत्र निः शब्दवातावरणं प्रसृतमस्ति । तस्य कश्चन सन्देहः जातः । पुरतः गत्वा शिवराजं निद्रामग्नं दृष्ट्वान् । सर्वं सम्यगस्ति इति चिन्तितवान् । तत्र कोऽपि कोलाहलः नास्तीति ज्ञातवान् । शिवराज: मृतो वा इति सन्देहः आगतः । कम्बलम् अपावृत्य अपश्यत् । तत्र केवलं शय्या, उपधानं च स्तः । सः स्तम्भीभूतः । खङ्गप्रहारेणापि चलनरहित इव सम्भूतः । शिवराजः पलायितः । फौलदखानस्य स्थितिरेव एतादृशी चेत् औरङ्गजेबस्य स्थितिः कीदृशी इति ऊहितुं शक्नुमः । सः सहस्रवृश्चिकैः दष्ट इव आसीत् । तत्क्षणं शिवराजं बन्धुं सेनामाज्ञप्तवान् । सेनया चतुर्दिशः प्रसृत्य अन्वेषणम् आरब्धम् । पूर्वनिर्दिष्टप्रणाल्यनुसारं शिवराज- शाम्भराजयोः कृते अश्वौ सिद्धौ आस्ताम् । करण्डकेभ्यः बहिरागत्य तौ दक्षिणादिशं प्रस्थितौ । अतिवेगेन प्रयातौ तौ । मध्येमार्गं रामदासस्य मठाः तेषाम् अपयोगाय अभवन् । संन्यासिवेषे शिवराजः रायदुर्गं प्राप्तवान् । एकक्षणं जीजामाता शिवराजं न ज्ञातवती । अभिज्ञानानन्तरं पुत्रम् आलिङ्ग्य अनन्दाश्रूणि सारितवती । मातापुत्रयोः समागमः सर्वानन्दकरः अभवत् । दक्षिणादेशस्थाः तस्य शत्रवः 'सः आगरातः पलायितः’ इति ज्ञात्वा भीतिम् अनुभूतवन्तः । तेषां वाक् न निस्सरति स्म् । इदानीं किं भविष्यतीति कम्पितवन्तः । एतया घतनया शिवराजस्य कीर्तिः देशे दशदिशः व्याप्ता । अत्यन्तं कपटः आसीत् औरङ्गजेबः । तस्य अक्षणोः धूलिं प्रक्षिप्य, तस्य अधीनतः, राजधानीतः, प्रतिदिनं रक्षद्भ्यः रक्षकभटेभ्यः सकाशात् आत्मानं गोपायित्वा सः पलायितवान् । सर्वाभ्यः दिग्भ्यः अनुधावतां सहस्रसङ्ख्याकानां मुघलसैनिकानाम् अक्षीणि निमेल्य सः सहस्रमीलदूरं प्रययौ । एतादृशं पराक्रमोपेतं, युक्तिमन्तम् अपूर्वं पुरुषं लोके पूर्वं कदापि , कुत्रापि ,को?ऽपि न दृष्टवान् ।

धर्मपरिरक्षकः[सम्पादयतु]

हिन्दुजातेः प्रेरणा यथा भवेत् तथा हिन्दुसाम्राज्यं निर्मितवान् शिवराजः । किन्तु शास्त्रोक्तविधानेन तावत्पर्यन्तं पट्टाभिषिक्तः नाऽभवत् । अत एव केचन शिवराजं महाराजत्वेन नाङ्गीकृतवन्तः । शिवराजस्य एतं लोपं पूरयितुं काशीपण्डितः कश्चन सिदध: अभवत् । तस्य नाम् गागाभट्टः । सः शास्त्रोक्तविधिना शिवराजस्य राज्याभिषेकं कारितवान् । १६७४तमे वर्षे एतादृश-द्विव्यसङ्घटनसमये शिवराजस्य वयः चत्वारिंशत् वर्षाणि । सर्वदुर्गेषु श्रेष्ठतमं रायदुर्गं शिवराजः स्वराज्यस्य राजधानीं कृतवान् । परमपवित्रौ मातुः चरणौ स्पृष्ट्वा, आशिषः प्राप्य रत्नखचितस्वर्णसिंहासने आसीनः । गागाभट्टः शिवराजस्य शिरसि स्वर्णच्छत्रं धारयित्वा 'छत्रपतिः’ इति घोषितवान् । सुवासिन्यः नीराजनं समर्पितवत्यः । साधवः सन्यासिनश्च आशिषो दत्तवन्तः । अस्मिन् महोत्स्वे भागं ग्रहीतुं दूरप्रदेशेभ्यः सहस्रशो जनाः समागतवन्तः । ते सर्वे आनन्दोत्साहेन 'छत्रपतिः श्रीशिवमहाराजः जयतु ’ इति मुक्तकण्ठं जयकारं कृतवन्तः । रायदुर्गे सर्वत्र जयघोषाय शतघ्निध्वनयः श्रुताः । बीजपुरसुलतानः, आंग्लेयाः शिवराजं स्वतन्त्रराजरूपेण सम्मान्य पुरस्कृतीः प्रेषितवन्तः । एतस्य अद्भुतस्य दृश्यस्य समर्थरामदासः अत्यानन्देन काव्यरूपं कल्पितवान् । "एषा भूमिः, धर्मश्च उद्धृतौ, रक्षितौ च । भव्यः स्वराज्यभानुः समुदितः ।" इति सः लिखितवान् । शत्रून् पराजित्य, राज्यसथापनमात्रेण शिवराजः न तृप्तः । प्रजानां सुखसन्तोषाद्यर्थम् अनेकविधं प्रयत्नं सः व्यदधात् । प्रजाः भगवत्स्वरुपाः इति भावितवान् । प्रजानां पीडा भवति चेत् न सहते स्म । प्रजाश्रेयसे स्वसैन्यम् अत्यन्तदूरमपि प्रेषयति स्म ।"मध्येमार्गं कुत्रापि प्रजानां किञ्चिदपि कष्टं न भवेत् । सस्यक्षेत्रेषु पर्णानि अपि सैनिकगमनकारण्तः न चलेयुः " इति आज्ञां ददाति स्म । कृषकाणां शिवराजः प्रेमस्वरूपः । धनिकाः भूस्वामिनः यदि निर्धनकर्षकान् पीडयन्ति तर्हि तेषां क्षेत्राणि स्वायत्तीकृत्य निर्धनकर्षकाणां कृते वितरति स्म सः । तदानीं समाजे अस्पृश्यतादुराचारः अधिकतया आसीत् । तदानीन्तनसमाजः स्वसोदरानेव अस्पृश्याः इति व्याजेन दूरे स्थापयति स्म । शिवराजः तान् सर्वान् प्रेम्णा दृष्टवान्, तेभ्यः स्वसैन्ये स्थानं दत्त्वा, तेषामर्हतामनुसृत्य उन्नतपदवीः अपि दत्तवान् । ते सर्वेऽपि शिवराजविषये अत्यन्तभक्तिश्रद्धादिभि:स्वविहितकार्यम् अनुतिष्ठन्ति स्म । स्वराज्यस्थापनविषये अत्यन्त -क्लिष्टसमस्याः अपि सम्मुखीकृतवान् शिवराजः । अस्मिन् महति कार्ये बहवः आत्मसमर्पणं क्रृतवन्तः । एकधर्मावलम्बिनः हिन्दवः परस्परं ईर्ष्या-द्वेषग्रस्ताः न भवेयुरिति आदर्शं शिवराजः अस्माकं पुरतः स्थापितवान् । सर्वे जनाः विद्यावन्तः भवेयुरिति शिवराजस्य अभिलाषः आसीत् । तस्य पालनस्मये संस्कृतभाषया सर्वोन्नतस्थानं नष्टम् आसीत्। पार्शीभाषा विशेषप्राचारे आसीत् । पार्शीस्थाने शिवराजः संस्कृतभाषायाः व्याप्तिं कारितवान् । तेषु दिनेषु बहवः बलात्कारेण महम्म्दीयधर्मे परिवर्त्यन्ते स्म । तेषां तु पुनः हिन्दुधर्मे परिवर्तने आकाङ्क्षा आसीत् । किन्तु हिन्दुसमाजः एतान् स्वधर्मे पुनरागमनाय न अनुमनुते स्म । शिवराजाय एतत् नारोचत । शुद्धिकार्यक्रमेण तान् पुनः हिन्दुधर्मे आहूतवान् । समुद्रप्रयाणं तेषु दिनेषु निषिद्धम् आसीत् । एतं मूर्खवादं शिवराजः व्यतिरिच्य स्वयं स्मुद्रयुद्धानि क्रुतवान्, नैकासेनामपि निर्मितवान् ।अविनीतिपरेभ्यः जनेभ्यः शिवराजः क्रुध्द्यति स्म । मातृदेशद्रोहपरान् न क्षम्यति स्म । स्वपुत्रमपि दण्डयति स्म सः । शिवराजः धर्ममूर्तिः । बन्धुवर्गीयजनेषु अपि पक्षपातबुद्धिं न प्रदर्शयति स्म ।बुद्धिमतः, दायित्वज्ञानिनः जनान् सदा प्रोत्साहयते स्म सः, तेभ्यः उन्न्तपदवीः अपि कल्पयति स्म । एतस्य फलमासीत् शिवराजस्य राज्ये गुणवतां संख्या प्रवृद्धा । स्वार्थपराणां तद्राज्ये स्थानं नासीत् । एवं शिवराजः सर्वविषयेषु अभ्दुतपरिणामान् साधितवान् । शिवराजस्य स्वराज्यनिर्माणविषयिका एषा कथा अस्माकं देहं पुलकितं करोति । एतस्य ग्रन्थस्य पठनेन शिवराजः आदर्शरुपेण अनुसरणीयः पदे पदे सम्भावनीयश्च् । अस्माकं मनस्सु एषा भावना कुतः आयाति ? यतः शिवराजः देशार्थं, धर्मार्थं च अनेककष्टनष्टानि असहत । स्वप्राणानपि न गणितवान्, बहुवारं मृत्युमुखं प्रविष्टोऽपि । अन्तिमक्षणपर्यन्तं देशार्थं, धर्मार्थमेव चिन्तितवान् । ३०० वर्षेभ्यः अनन्तरम् अद्यापि तं क्षणमात्रं स्मरामः चेदपि अस्मासु नूतनोत्तेजनं जायते ।

भारतीय सम्राटः।

टिप्पणी[सम्पादयतु]

  1. Raṇajita Desāī; V. D. Katamble (2003). Shivaji the Great. Balwant Printers Pvt. Ltd.. p. 193. ISBN 81-902000-0-3. http://books.google.com/?id=N5mIVt_Zd-0C. 
  2. Indu Ramchandani, ed (2000). Student’s Britannica: India (Set of 7 Vols.) 39. Popular Prakashan. p. 8. ISBN 978-0-85229-760-5. http://books.google.com/books?id=DPP7O3nb3g0C&pg=PA8. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=छत्रपति_शिवाजी&oldid=429821" इत्यस्माद् पुनः प्राप्तिः