शौर्यं तेजो धृतिर्दाक्ष्यं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिचत्वारिंशत्तमः(४३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

शौर्यं तेजः धृतिः दाक्ष्यं युद्धे च अपि अपलायनम् दानम् ईश्वरभावः च क्षात्रं कर्म स्वभावजम् ॥

अन्वयः[सम्पादयतु]

शौर्यं तेजः धृतिः दाक्ष्यं युद्धे च अपि अपलायनं दानम् ईश्वरभावः च स्वभावजं क्षात्रं कर्म ।

शब्दार्थः[सम्पादयतु]

शौर्यम् = विक्रमः
तेजः = प्रागल्भ्यम्
धृतिः = अग्लानिः
दाक्ष्यम् = सामर्थ्यम्
युद्धे = आयोधने अपि
अपलायनम् = अपराङ्मुखीभावः
दानम् = वितरणम्
ईश्वरभावः = प्रभुत्वम्
स्वभावजम् = स्वभावोत्पन्नम्
क्षात्रम् = क्षत्रियसम्बन्धि
कर्म = कर्तव्यम् ।

अर्थः[सम्पादयतु]

विक्रमः, आत्मविश्वासः, धैर्यम्, सामर्थ्यम्, युद्धे अपराङ्मुखीभावः, दानम्, प्रभुत्वं च क्षत्रियाणां स्वभावात् जातं कर्म ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]