श्रीनगरम्
श्रीनगरम् | |||||||||
— राजधानी — | |||||||||
निर्देशाङ्काः
३४°५′२४″ उत्तरदिक् ७४°४७′२४″ पूर्वदिक् / 34.09000°उत्तरदिक् 74.79000°पूर्वदिक् | |||||||||
देशः | भारतम् | ||||||||
राज्यम् | जम्मूकाश्मीरराज्यम् | ||||||||
मण्डलम् | श्रीनगरम् | ||||||||
Settled | 3rd century BC | ||||||||
Mayor | Salman Sagar (NC) | ||||||||
जनसङ्ख्या • सान्द्रता |
८,९४,९४०[१] (2001[update]) • 8,523 /किमी2 (22,074 /वर्ग मील) | ||||||||
लिङ्गानुपातः | 1.17 ♂/♀ | ||||||||
साक्षरता | 59.18% | ||||||||
व्यावहारिकभाषा(ः) | काश्मीरी, उर्दु[२] | ||||||||
---|---|---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||||
विस्तीर्णम् • औन्नत्यम् |
238 वर्ग किलोमीटर (92 वर्ग मील) • 1,585 मीटर (5,200 फ़ुट) | ||||||||
वायुमण्डलम् • तलस्पर्षी |
Cfa (कोप्पेन्) • 710 मिमी (28 इंच) | ||||||||
सङ्केताः
| |||||||||
जालस्थानम् | www.srinagar.nic.in |
श्रीनगरं भारतस्य जम्मूकाश्मीरराज्यस्य ग्रीष्मकालीना राजधानी अस्ति । इदम् एकं सुरम्यं नगरम् अस्ति । राज्ञा प्रवरसेनेन २००० वर्षेभ्यः पूर्वं श्रीनगरं संस्थापितम् । श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते । काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते । श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च ।
विमानमार्गः
[सम्पादयतु]चण्डीगढ –देहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी दूरे अस्ति ।
धूमशकटयानसम्पर्कः
[सम्पादयतु]देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति ।
वाहनमार्गः
[सम्पादयतु]पठानकोटतः २५० कि.मी, देहलीतः ८८० कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति ।
आधाराः
[सम्पादयतु]- ↑ १.० १.१ "Population in the age group 0-6 and literates by sex—urban agglomeration/town". Census of India 2001. Government of India. 27 May 2002. आह्रियत 2007-04-14.
- ↑ "Kashmiri: A language of India". Ethnologue. आह्रियत 2008-05-14.