श्रीनिवासरामानुजन्
श्रीनिवास: रामानुजन् | |
---|---|
जननम् |
२२/१२/१८८७ इरोड, मद्रास प्रेसिडेन्सी (वर्तमान तमिळनाडु) |
मरणम् |
२६/०४/१९२० (वयः ३२) चेतपेट (चेन्नै), मद्रास प्रेसिडेन्सी (वर्तमान तमिळनाडु) |
वासस्थानम् | कुम्बकोणम (तमिळनाडु) |
देशीयता | भारतियः |
कार्यक्षेत्राणि | गणितम् |
मातृसंस्थाः | ट्रिनिटि कॉलेज, कॅम्ब्रिज (Bachelor of Science, 1916) |
शोधविषयः | Highly Composite Numbers (१९१६) |
Academic advisors | G. H. Hardy, John Edensor Littlewood |
विषयेषु प्रसिद्धः |
{{Landau–Ramanujan constant Mock theta functions Ramanujan conjecture Ramanujan prime Ramanujan–Soldner constant Ramanujan theta function Ramanujan's sum Rogers–Ramanujan identities Ramanujan's master theorem}} |
प्रभावः | G. H. Hardy |
हस्ताक्षरम् |
श्रीनिवासः रामानुजन् (१८८७ - १९२० ) अतीव प्रसिद्धः महान् गणितज्ञः आसीत् । सः आधुनिकयुगस्य महानतमगणितज्ञेषु गण्यते। स गणितशास्त्रे न तथा विशेषप्रशिक्षणं प्राप्तवान् तथापि विश्लेषणं तथा संख्यासिध्दान्तक्षेत्रे अस्य महत्वपूर्णं योगदानमासीत्। विलक्षणप्रतिभासंपन्नः रामानुजः न केवलं गणितक्षेत्रे अभूतपूर्वम् आविष्कारः कृतः अपितु भारताय अतुलनीयं गौरवं प्रदत्तः।
जीवनम्
[सम्पादयतु]सः बाल्यादेव विलक्षणः प्रतिभासंपन्नः आसीत्। स स्वयमेव गणितम् अधीतवान्। स्वजीवने गणितस्य ३८८४ प्रमेयानां संकलनं कृतम्। एतेषु अधिकांशाः प्रमेयाः सिध्दीकृताः। सः गणितस्य सहजज्ञानं तथा बीजगणितस्य प्रकलनस्य अद्वितीयप्रतिभाबलेन मौलिकान् अपारम्परिकान् परिणामान् आविष्कृतवान् येषां अद्यापि शोधकार्यं प्रचलन् अस्ति। तमिळनाडुराज्यस्य ईरोडमण्डले अजायत। द्वादशवयसि त्रिकोनमितिं सम्पूर्णतया अवगम्य अस्मिन् विषये स्वाभिप्रायान्, आविष्कारादिकञ्च निरूप्य शिक्षकान् अपि आश्चर्यचकितान् अकारि। १८९८ तमे संवत्सरे कुम्भकोणस्थ प्रौढशालां प्रविष्टवान् आसीत्। गणीते सम्पूर्णाङ्कान् प्राप्नोतिस्म। अन्येषु विषयेषु अस्य आसक्तिः नासीत्। अतः अयं विश्वविद्यालये अधिकवर्षाणि नासीत् इति। भारतीय शोधपत्रिकासु सः स्वशोधप्रबन्धान् प्रकटितवान्। समनन्तरमेव युरोपदेशस्य केचन गणीतज्ञाः अस्य विषये आसक्तिं प्रदर्शितवन्तः। १९०३ तमे संवत्सरे इङ्ग्लण्डदेशस्य प्रसिद्धाय गणीतज्ञाय जि एच् हार्डि कृते एकं पत्रं लिखितवान् आसीत्। तस्मिन् पत्रे नैकान् सिद्धान्तान् मण्डितवान् आसीत्। पत्रं दृष्ट्वा आदौ अविश्वासं प्रदर्शितवान् आसीत्, किन्तु कालान्तरे अस्य प्रतिभादिकं ज्ञात्वा स्वदेशाय आगन्तुम् आह्वानं दत्तवानासीत्। हार्डि रामानुजौ मिलित्वा नैकानि संशोधनकार्याणि कृतवन्तौ । “हार्डि” कालान्तरे सन्दर्शने एकवारं रामनुजं प्रसिद्धिपथे आनीतवान् इदमेव मम गणितजीवनस्य मुख्यसंशोधनम इति स्वयम् एवम् उक्तवान् आसीदिति। अस्य जीवनम् अनारोग्यमयम् आसीदिति। लण्डन् गमनानन्तरम् अस्य आरोग्ये इतोऽपि व्यत्यासः जातः इति। जीवसत्वस्य न्यूनत्वात् क्षयरोगाच्च पीडितः एषः १९१९ तमे संवत्सरे भारतं प्रति आगतवान्। केषु चित् दिनेषु एव कुम्भकोणे मृतवान्। अस्य पत्नी जानकी अम्माळ् चेन्नैनगरस्य समीपे वासः आसीत्। एषा १९९४ तमे संवत्सरे मरणं प्राप्तवती।
टिप्पणी पुस्तकानि
[सम्पादयतु]भारते यदा आसीत् तदा स्वविचारान् टिप्पणीस्वरूपे लिखतिस्म। स्वचिन्तितस्य विषयस्य केवलं फलितांशान् लिखित्वा स्थापयतिस्म। त्रीणि पुस्तानि पूरितानि आसन्। प्रत्येकस्मिन् पुस्तके २०० तः ३५० पृष्ठानि आसन्। एषु पुस्तकेषु निबद्धाः टिप्पण्यः अद्यापि गणीतज्ञेभ्यः नूतनसंशोधनानां सामग्रीन् यच्छन्ति।
अस्य रामानुजस्य संशोधनकार्यक्षेत्राणि
- अविभाज्यसंख्यानां विषये संशोधनं कृतवान्
- रामानुजन् कल्पना
- रामुनजन् – पीटर्सन् कल्पना
रामानुजन् आधारितपुस्तकानि
[सम्पादयतु]- रामानुजन् बाळिदरिल्लि- जि. टि. नारायणराव् ("ರಾಮಾನುಜನ್ ಬಾಳಿದರಿಲ್ಲಿ", ಜಿ.ಟಿ.ನಾರಾಯಣ ರಾವ್)
- Collected Papers of Srinivasa Ramanujan ISBN 0-8218-2076-1
- The Man Who Knew Infinityः A Life of the Genius Ramanujan by Robert Kanigel ISBN 0-671-75061-5
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- श्रीनिवासः रामानुजन्
- रामानुजन् जर्नल् Archived २००२-०१-२६ at the Wayback Machine