श्रेयान्स्वधर्मो विगुणः...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
- स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तचत्वारिंशत्तमः(४७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वभावनियतं कर्म कुर्वन् न आप्नोति किल्बिषम् ॥
अन्वयः
[सम्पादयतु]विगुणः स्वधर्मः स्वनुष्ठितात् परधर्मात् श्रेयान् । स्वभावनियतं कर्म कुर्वन् किल्बिषं न आप्नोति ।
शब्दार्थः
[सम्पादयतु]- विगुणः = विकृतः
- स्वधर्मः = आत्मधर्मः
- स्वनुष्ठितात् = सुकृतात्
- परधर्मात् = इतरधर्मात्
- श्रेयान् = श्रेयोदायकः
- स्वभावनियतम् = स्वभावलब्धम्
- कर्म = कर्तव्यम्
- कुर्वन् = आचरन्
- किल्बिषम् = पापम्
- न आप्नोति = न अधिगच्छति ।
अर्थः
[सम्पादयतु]साधु आचरितात् परधर्मादपि किञ्चिदेन विकलः स्वधर्मः एव श्रेयस्करः । प्रकृतिवशात् यत् कर्म निर्णीतं तत् कर्म कुर्वन् पुरुषः पापं न प्राप्नोति ।