संस्कृतविश्वविद्यालयाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

संस्कृतविश्वविद्यालयाः संस्कृतमाध्यमेन विभिन्नानां विषयाणां ज्ञानप्रदातारः विश्वविद्यालयाः। प्राचीने भारते विश्वविद्यालयानां स्वरूपं भिन्नम् आसीत्, तेषां सञ्चालनपद्धतिः च भिन्ना आसीत्। आधुनिके भारते विद्यापीठस्य स्थानं विश्वविद्यालयेन स्वीकृतम्। अतः विश्वविद्यालय-शब्देन पुरातनानां विद्यापीठानां सङ्कल्पना तु स्वीक्रियते, परन्तु प्रणालिः न।

संस्कृतविश्वविद्यालयाः[सम्पादयतु]

सम्प्रति भारते 16 संस्कृतविश्वविद्यालयाः सन्ति। ते यथा-
  1. राष्ट्रियसंस्कृतसंस्थानम् जनकपुरी, नवदेहली (देहली)
  2. राष्ट्रियसंस्कृतविद्यापीठम् , तिरुपतिः (आन्ध्रप्रदेशः)
  3. श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठम्, खट्वारियासरै, नवदेहली (दिल्ली)
  4. कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार)
  5. कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, रामटेक , नागपुरजिल्ला (महाराष्ट्रम्)
  6. श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओडिशा)
  7. जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थान)
  8. संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेश)
  9. सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरात)
  10. उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वार ( )
  11. श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
  12. महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेश)
  13. श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलाः)
  14. चन्दरशेखरसंस्कृतविश्ववद्यालयः, काञ्चीपुरम् (तमिलनाडु)
  15. कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु (कर्नाटकम् )
  16. कुमारभास्करवर्मसंस्कृत एवं प्राच्यविश्वविद्यलयः, नलबारि (अस्सोम् )
अमीषां विश्वविद्यालयानां विषये इतोपि ज्ञातुं पश्यताम् - http://www.sanskrit.nic.in/sans.htm