संस्कृत-विश्वकोशाः
“ विश्वम्” इति प्रसिध्दस्य शब्दस्य न केवलं जगती अर्थः किं तर्हि ‘समस्तम्’ ‘सकलम्’ इत्यप्यर्थः समस्तीति न तिरोहितं प्रेक्षावताम् । “ विश्वेदेवता” इत्यस्मिन् किल शब्देऽर्थोऽयं कामं प्रतिष्ठितः । एतेन केनापि न भ्रमितव्यं विविधविषयसंकलनपूर्वकं ग्रन्थरचनायाः प्रवृत्तिः संस्कृतविद्वल्लोके नासीदिति । इत्थंभूतलक्षणलक्षिता ग्रन्था अनल्पयैव मात्रया कामं गोचरः सांस्कृतेऽपि जगति परन्तु विश्वकोशनाम्ना तादृशग्रन्थानामभिधानं नास्ति स्म रुढमूलम् । यद्यपि क्रैस्तवीये स्प्तदशे शके नसालतिनामकमुस्लिंराजपोषितेन काश्मीरदेशजेन विश्वेशाख्येन विरचिते “असालतिप्रकाशे” कश्चन ‘विश्वकोशः’ परामृष्टः परन्तु स केनापि रचितः शब्दकोश एव । राजमानसोल्लासं कर्ता सोमेश्वरस्तु स्वां कृतिं (राज)-मानसोल्लासं “ जगदाचार्यपुस्तकम्” इति विशेषणेन विशेषयति । अभिधानेनानेनैव “ विश्वस्मिन् वसतां बुध्दिजीविनां परामर्श्यो ग्रन्थः कश्चन रिरचयिषित” इति तदीयमाकूतमिति स्पष्टभूयिष्ठम् ।
वाङ्मयस्य विस्तरः कथञ्चित् संपुञ्जनीय एकत्रेति कामना बुध्दिजीविनां प्रायिकी । नात्र वैचित्र्यलेशो विस्मयकणिका वा । प्रवृत्तिरेवंभूता चीना- ग्रीक् –प्रभृतिराष्ट्रेष्वप्यासीत्, भारतेऽपि स्म वर्तते । एवं विधया भावनया चोदितानां ग्रन्थकाराणां प्रयत्नवशतः सृष्टान् संस्कृत ग्रन्थान् संक्षेपेण परिचाययति लेखोऽयं मामकीनः । नात्र सविवरणम् अनुसंन्धानं चिकीर्षितम् । केवलं प्राधीतानां कौतुकमुत्पादयितुं कृतमिद यतनम् ।
पुराणानि वहन्ते प्राधान्यं विषयेऽस्मिन्नित्यत्र न द्वापरः । प्राथमिकेन कृतेन दृष्टिनिपातेन केषांचन पुराणानाम् अस्तव्यस्ततेव दृश्यते । परन्तु नेदं तेषां विराड्रूपं तिरोदधाति ।
विमृशतामाधुनिकानाम् ऐतिहासिकानामभिप्रायस्यानुसारेण पुराण संज्ञया प्रथितानां सर्वासां कृतीनां पुराणत्वरुपो धर्मो न सिध्दयति, तत्र परामृष्टानां समुच्चितानां च केषाञ्चन वस्तूनां नावीन्यस्य दुरपह्नवत्वात् । परन्तु पुराणानां रचनाकालो न सुस्पष्टस्तस्मात् कारणादत्र प्रथमं विचार्याः पुराणाख्याः कृतयस्ता एव ।
विश्वकोशाः
[सम्पादयतु]