सामग्री पर जाएँ

सत्त्वात्सञ्जायते ज्ञानं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

सत्त्वात् सञ्जायते ज्ञानं रजसः लोभः एव च प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥ १७ ॥

अन्वयः

[सम्पादयतु]

सत्त्वात् ज्ञानं सञ्जायते रजसः लोभः एव च । तमसः प्रमादमोहौ भवतः अज्ञानम् एव च ।

शब्दार्थः

[सम्पादयतु]
सत्त्वात् = सत्त्वगुणात्
ज्ञानम् = विवेकः
रजसः = रजोगुणात्
तमसः = तमोगुणात्
प्रमोदमोहौ = प्रमोदः मोहश्च
भवतः = सम्भवतः ।

सत्त्वगुणात् विवेकः सम्भवति । रजोगुणात् तृष्णा । तमोगुणात् अज्ञानप्रयुक्तौ मोहप्रमादौ सम्भवतः ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]