सदस्यः:जीतेन्द्रः पटेल/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अविनाशी तु तद्विद्धि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः स्वरूपनिरूपणं करोति । पूर्वस्मिन् श्लोके सदसतोः लक्षणविवेचनं कृत्वा अत्र भगवान् सत्किम्, असच्चकिम् इति वर्णयति । सः कथयति यत्, तम् अविनाशित्वेन बुद्ध्यस्व, यः सम्पूर्णे संसारे व्याप्तः अस्ति । तस्य अविनाशिनः विनाशं कर्तुं न कोऽपि समर्थः इति ।

भावार्थः[सम्पादयतु]

'अविनाशि तु तद्विद्धि' – अग्रिमे श्लोके सदसतोः या चर्चा कृता, तयोः सतः टीकां कर्तुम् अत्र 'तु' इत्यस्य पदस्य उपयोगः कृतः । तद् अविनाशि तत्त्वं त्वं जानीहि इत्युक्त्वा भगवान् तद् तत्त्वं परोक्षत्वेन बोधयति । परोक्षत्वेन स्वीकरणतात्पर्यम् अस्ति यत्, इदम्तया (समानतया) दृश्यमाणे एतस्मिन् सम्पूर्णे संसारे तद् परोक्षतत्त्वमेव व्याप्तम् अस्ति । तदेव परिपूर्णम् अस्ति इति । वास्तव्येन यद् परिपूर्णम् अस्ति, तदेव "विद्यमद्" अस्ति । सम्मूखे यः संसारः दृश्यते, सस्तु "अविद्ममानः" अस्ति । अत्र "तद्" इत्यनेन शब्देन सत्तत्त्वस्य परोक्षत्वम् उल्लिखितम् । अत्र तद् तत्त्वं बहुदूरे अस्ति अतः परोक्षः इति न, अपि तु तद् इन्द्रियान्तकरणयोः विषयः नास्ति अतः परोक्षः इति ।

'येन सर्वमिदं ततम्' – एतस्य पदस्य गीतायां वारत्रयम् उपयोगः अस्ति । अत्र उच्यमानः अर्थः शरीरिणे अस्ति । उक्तं चात्र शरीरिणा सम्पूर्णः संसारः व्याप्तः इति । एतद् कथनं साङ्ख्ययोगदृष्ट्या उक्तम् । द्वितीयवारम् एतस्य पदस्य उपयोगः अष्टमाऽध्यायस्य द्वाविंशे श्लोके प्राप्यते । तत्र उक्तम् अस्ति यत्, येन ईश्वरेण एषः सम्पूर्णः संसारः व्याप्तः अस्ति, सः अनन्यभक्त्या प्राप्यते । अतः भक्तियोगदृष्ट्या उक्तपदानाम् उपयोगः ईश्वरसन्दर्भे भवति । तृतीयवारम् एतेषां पदानाम् उपयोगः अष्टादशाध्यायस्य षट्चत्वारिंशत्तमे श्लोके भवति । तत्र उक्तम् अस्ति यत्, येन एषः सम्पूर्णः संसारः व्याप्तः अस्ति, तस्य पूजनं चत्वारः वर्णाः स्वकर्मानुगुणं कुर्युः इति । तत्रापि भक्तियोगदृष्ट्या वर्णनं प्राप्यते ।

नवमाध्यायस्य चतुर्थे श्लोके राजविद्यायाः वर्णनं कुर्वाणः भगवान् "मया ततमिदं सर्वम्" इत्यस्य पदस्य उपयोगं करोति । तेन पदेन सः कथयति यत्, सम्पूर्णसंसारः मया व्याप्तः अस्ति । एवं स्थानत्रये "येन" इत्यस्य पदस्य उपयोगं कृत्वा तत्त्वं परोक्षत्वेन उपस्थापयति सः । ततः एकवारम् "अस्मत्" (मया) इत्यस्य शब्दस्य उपयोगं कृत्वा भगवान् परोक्षतया स्वस्य चर्चां करोति ।

यद् परोक्षम् उक्तम् अस्ति, तस्य वर्णनं करोति यत्, सम्पूर्णः संसारः तेन नित्यतत्त्वेन व्याप्तः अस्ति इति । यथा सुवर्णाभूषणेषु सुवर्णः, लोहास्त्रशस्त्रयोः लोहः, मृत्पात्रेषु मृत्, हिमे जलञ्च व्याप्तं भवति, तथैव संसारे तद् सत्तत्त्वं व्याप्तम् अस्ति । अतः वास्तव्येन एतस्मिन् संसारे तद् सत्तत्त्वमेव ज्ञेयम् अस्ति ।

'विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति' – एषः शरीरी अव्ययः अर्थात् अविनाशी अस्ति । भगवान् गीतायाम् अनेकस्थानेषु शरीरिणम् अव्ययत्वेन उक्तवान् । तथा च स्वम् अपि अव्ययत्वेन उपास्थापयत् । स्वरूपेण उभे अपि अव्यये सत्यपि भगवान् प्रकृतिं वशीकृत्य स्वयं स्वतन्त्रतया प्रकटः, अन्तर्धानः च भवति । सः शरीरी प्रकृतेः परवशो भूत्वा जन्ममृत्योः चक्रे भ्रमन् भवति । यतो हि सः शरीरमेव आत्मत्वेन अङ्गीकरोति । तस्य अविनाशिनः विनाशं कर्तुं न कोऽपि समर्थः । परन्तु शरीरं तु विनाशि एव । यतो हि तद् नित्यनिरन्तरं विनाशं प्रति चलद् अस्ति । अतः एतस्य विनाशिनः विनाशं कोऽपि अवरोद्धुं न शक्नोति । त्वं चिन्तयसि यत्, अहं युद्धं न करिष्ये चेत्, तेषां मृत्युः न भविष्यति इति । परन्तु वास्तव्येन तव युद्धे कृतेऽकृते वा तयोः अविनाशिविनाशिनोः किमपि परिवर्तनं न भविष्यति । अर्थात् अविनाशी तु स्थास्यति, परन्तु विनाशी नश्यति एव ।

अत्र "अस्य" इत्यनेन पदेन सत्तत्त्वस्य इदम्ता उक्ता । तस्य तात्पर्यम् अस्ति यत्, प्रतिक्षणं परिवर्तनशीले शरीरे यद् दृश्यते, तद् सत्तत्त्वमेवास्ति । "मम शरीरम् अस्ति । अहं शरीरधारी अस्मि ।" इति स्वसत्तायाः यज्ज्ञानमस्ति, तद् लक्षीकृत्य भगवान् अत्र "अस्य" इत्यस्य पदस्य उपयोगम् अकरोत् ।

भाष्यार्थः[सम्पादयतु]

तर्हि, यद् निस्सन्देहं सदस्ति, तद् सदैव तिष्ठति । तद् किमस्ति ? इतस्मिन् विषये कथयति यद् –

अनाशः यस्य स्वभावः अस्ति, सः अविनाशी अस्ति । "तु" इत्यनेन पदेन असतः सतः विशेषता प्रदर्शिता । तं त्वं अविनाशित्वेन जानीहि । कं तम् ? इति प्रश्ने सति कथयति यत्, यस्माद् सच्छब्दवाच्याद् ब्रह्मणः आकाशसहितम् एतद् सम्पूर्णं विश्वम् आकाशाद् घटादिवद् व्याप्तम् अस्ति इति ।

तस्य अव्ययस्य अर्थात् यस्य व्ययः न भवति । यस्मिन् वृद्धिः, न्यूनता च न तदव्ययम् उच्यते । तस्य विनाशं, अभावं वा कर्तुं न कोऽपि समर्थः । यतो हि तद् सन्नामकं ब्रह्म अवयवरहितत्वाद् देहादिवद् स्वरूपाद् नष्टं न भवति । अर्थात् तस्य व्ययः न भवति इति । तथा च निजपदार्थाभावाद् निजपदार्थनाशे सति अस्य नाशः न भवति । यथा देवदत्तः स्वधनहानिना हानियुक्तः भवति, तथा ब्रह्म न भवति । अत एव उच्यते यत्, तस्य अविनाशिनः ब्रह्मणः विनाशः केनापि न शक्यः । केनापि अर्थात् ईश्वरः अपि स्वस्य विनाशं कर्तुं न समर्थः । किञ्च आत्मा एव स्वयं ब्रह्म अस्ति, तत्र स्वस्मिन् क्रियायाः विरोधः अस्ति ।

भाष्यार्थः[सम्पादयतु]

आत्मनः अविनाशित्वं कथं सिद्ध्यति इत्यस्मिन् विषये अत्र कथयति –

येन चेतनात्मतत्त्वना तस्माद् भिन्नमेतद् समस्तम् अचेतनतत्त्वं (जडतत्त्वं) व्याप्तम् अस्ति, तम् आत्मतत्त्वम् अविनाशी जानीहि । व्यापके सति अत्यन्तसूक्ष्मे सति यद् विनाशार्हं नास्ति, तस्य आत्मतत्त्वस्य तस्माद्भिन्नः कोऽपि पदार्थः विनाशं कर्तुं न शक्नोति । यतो हि जडपदार्थः तस्माद् तत्त्वाद् स्थूलत्वाद् तेन तत्त्वेन व्याप्तः अस्ति । शस्त्रजलाग्निवाय्वादः ये नाशकपदार्थाः सन्ति, ते नाशनीयपदार्थं प्रविष्य तान् शिथिलीकुर्वन्ति (नाशयन्ति) । मुद्गरादयः अपि वेगयुक्तसंयोगाद् वायूमुत्पाद्य तेन वायुना एव नाशं कुर्वन्ति । परन्तु आत्मतत्त्वं सर्वापेक्षया सूक्ष्मतमत्वाद् एते पदार्थाः तस्मिन् प्रष्टुं न असमर्थाः । अत एव आत्मतत्त्वम् अविनाशी अस्ति ।