सदस्यः:डॉ वाचस्पतिः मिश्रः/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वीक्षणीयस्थलानि[सम्पादयतु]

त्रिपुरा-राज्यं पर्वतीयप्रदेशः अस्ति । अस्मिन् राज्ये बहूनि पर्यटनस्थलानि सन्ति । सेफाहिजाला-वन्यजीवाभयारण्यं, रोआ-वन्यप्रणाल्यभयारण्यं, ब्रह्मकुण्डः, उदयपुरं, डुम्बर, पिलाक-जम्पुई-पर्वताः, उनाकोटिः, त्रिपुरसुन्दरी-मन्दिरं, उज्जयन्ता-भवनम् इत्यादिनि त्रिपुरा-राज्यस्य पर्यटनस्थलानि सन्ति । "जमपुरी" इत्येतत् स्थलं त्रिपुरा-राज्यस्य एकमेव पर्वतीयक्षेत्रम् अस्ति । अस्मिन् राज्ये बहवः पर्यटन-उत्सवाः अपि आयोज्यन्ते । ऑरेञ्ज् एण्ड् टुरिज्म् उत्सवः, वाङ्गमुन-उत्सवः, नीरमहल-पर्यटनोत्सवः, पिलक-पर्यटनोत्सवः, उनाकोटि-पर्यटनोत्सवः इत्यादयः अस्य राज्यस्य पर्यटनोत्सवाः सन्ति ।

धलाई[सम्पादयतु]

धलाई-नगरं भारतस्य त्रिपुराराज्यस्य मण्डलम् अस्ति । अस्य मण्डलस्य निर्माणम् ई. स. १९९५ तमे वर्षे कारितम् आसीत् । मण्डलमिदं बाङ्ग्लादेशस्य समीपस्थं स्थलं वर्तते । अम्बासा-नगरम् मण्डलस्यास्य मुख्यालयत्वेन स्थितम् अस्ति । धलाई-मण्डलस्य सौन्दर्यम् अपि विशिष्टम् अस्ति । स्थलमिदं पर्वतीयम् अस्ति । अतः सौन्दर्याय इदं मण्डलम् भारते प्रसिद्धम् अस्ति । अस्य नगरस्य पर्यटनस्थलानि जनान् आकर्षयन्ति । अस्मिन् मण्डले बहूनि पर्यटनस्थलानि सन्ति । लाङ्गथराई-मन्दिरं, कमलेश्वरी-मन्दिरं च अस्य मण्डलस्य प्रमुखे पर्यटनस्थले स्तः । मण्डलेऽस्मिन् प्रतिवर्षं रासमेला-उत्सवः आचर्यते । भारतस्य विभिन्ननगरेभ्यः बहवः जनाः तत्र गच्छन्ति । यद्यपि अस्मिन् मण्डले अधिकानि वीक्षणीयस्थलानि न सन्ति, तथापि मण्डलमिदं त्रिपुराराज्यस्य पर्यटनकेन्द्रम् अस्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः अस्य नगरस्य वातावरणं सामान्यं भवति । अक्टूबर-मासतः अप्रैल-मासपर्यन्तम् अस्य मण्डलस्य तापमानं सुखदं भवति । अतः जनाः तस्मिन् समये भ्रमणार्थं तत्र गच्छन्ति । धलाई-नगरं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः धलाई-नगरं त्रिपुरा-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । त्रिपुरा-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः धलाई-नगरं गन्तुं शक्यते । धलाई-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः धलाई-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । अगरतला-रेलस्थानकम् धलाई-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् धलाई-नगरात् ९२ किलोमीटरमिते दूरे स्थितम् अस्ति । किन्तु अन्यः अपि विकल्पः अस्ति यत् असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकम् अस्ति । धलाई-नगरात् इदं रेलस्थानकं २१८ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकं धलाई-नगरस्य समीपस्थं भारतस्य प्रमुखं च रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । धलाई-नगरे विमानस्थानकं नास्ति । अगरतला-नगरस्य विमानस्थानकम् धलाई-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । उदयपुर-नगरात् अगरतला-विमानस्थानकं १०२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । अगरतला-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण धलाई-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया धलाई-नगरं प्राप्तुं शक्नुवन्ति ।

कैलाशहर[सम्पादयतु]

कैलाशहर-नगरं भारतस्य त्रिपुरा-राज्यस्य उत्तरत्रिपुरा-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं बाङ्ग्लादेशस्य समीपे स्थितम् अस्ति । कैलाशहर-नगरम् एकम् ऐतिहासिकं नगरम् अस्ति । इदं नगरं त्रिपुरा-राज्यस्य प्राचीनराजधानी आसीत् । ऊनाकोटि-स्थलम् अपि कैलाशहर-नगरेण सह सम्बद्धम् अस्ति । लोककथानुसारं ज्ञायते यत् – “तत्र जूझर-नामकः राजा आसीत् । तेन एव त्रिपुरब्द-पञ्चाङ्गम् आरब्धम् आसीत् । जूझर-राज्ञः उत्तराधिकारीराजा भगवतः शिवस्य भक्तः आसीत् । तेन छम्बुलनगरे मऊ-नद्याः तटे शिवस्य आराधना कृता आसीत् । मन्यते यत् – छम्बूलनगरम् इत्यैव कैलाशहर-नगरस्य मूलनाम आसीत् । नगरमिदं धार्मिकं, सांस्कृतिकं च अस्ति । अस्मिन् नगरे धार्मिकगतिविधयः, सांस्कृतिकोत्सवाः च भवन्ति । स्थलेऽस्मिन् धर्मवादः अपि नास्ति । अतः तत्र सर्वधर्माणां जनाः सद्भावेन निवसन्ति । अस्मिन् नगरे दुर्गापूजा, कालीपूजा च क्रियते । इमौ उत्सवौ कैलाशहर-नगरे सोत्साहेन आचर्येते । अस्मिन् नगरे हिन्दुधर्मस्य, इस्लाम-धर्मस्य, ईसाई-धर्मस्य, बौद्ध-धर्मस्य च जनाः निवसन्ति । अतः सर्वेषां धर्माणाम् अपि उत्सवाः आचर्यन्ते । अतः “ईद”, “क्रिसमस्”, “बुद्धपूर्णिमा” इत्यादयः उत्सवाः सन्ति । कैलाशहर-नगरे चाय-उद्यानानि अपि सन्ति । कैलाशहर-नगरस्य वातावरणं सर्वदा सामान्यम्, अनुकूलं च भवति । शीतर्तौ अस्य नगरस्य तापमानं न्यूनं भवति । वर्षर्तोः अनन्तरं नगरमिदं हरितमयं भवति । अतः तत्कालम् अपि भ्रमणार्थम् उत्तमं भवति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । कैलाशहर-नगरं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः कैलाशहर-नगरं त्रिपुरा-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । त्रिपुरा-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः कैलाशहर-नगरं गन्तुं शक्यते । कैलाशहर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः कैलाशहर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । कुमारघाट-रेलस्थानकम् कैलाशहर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् कैलाशहर-नगरात् २५ किलोमीटरमिते दूरे स्थितम् अस्ति । किन्तु अन्यः अपि विकल्पः अस्ति यत् असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकम् अस्ति । कैलाशहर-नगरात् इदं रेलस्थानकं १४९ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकं कैलाशहर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । कैलाशहर-नगरे विमानस्थानकं नास्ति । अगरतला-नगरस्य विमानस्थानकम् कैलाशहर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । कैलाशहर-नगरात् अगरतला-विमानस्थानकं १३९ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । अगरतला-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कैलाशहर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया कैलाशहर-नगरं प्राप्तुं शक्नुवन्ति ।

त्रिपुरासुन्दरी-मन्दिरम्[सम्पादयतु]

त्रिपुरासुन्दरी-मन्दिरं भारतस्य त्रिपुरा-राज्यस्य दक्षिणत्रिपुर-मण्डलस्य उदयपुर-नगरे स्थितम् अस्ति । मन्दिरमिदं देव्याः शक्तिपीठेषु अन्यतमम् अस्ति । मन्दिरमिदं कुर्माकारः दृश्यते । अतः इदं पीठं “कुर्मापीठम्” इति अपि कथ्यते । मन्यते यत् – “सतीदेव्याः दक्षिणपादः अत्रैव पतितः आसीत् । अतः एव इदं स्थलं पीठस्थलत्वेन पूज्यते । देव्याः इदं शक्तिपीठं भारते, विदेशे चापि प्रसिद्धम् अस्ति । अस्य मन्दिरस्य बङ्गाली-निर्माणशैली अस्ति । त्रिपुरासुन्दरी-मन्दिरास्य पूर्वदिशि कल्याणसागर-तडागः स्थितः अस्ति । भारतस्य विदेशस्य च विभिन्न-नगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । इदं स्थलं भारतस्य प्रमुखपर्यटनस्थलेषु अन्यतमम् अस्ति । मन्दिरमिदं हिन्दुधर्मस्य प्रमुखं धार्मिकस्थलम् अपि अस्ति । त्रिपुरासुन्दरी-मन्दिरम् उदयपुर-नगरे स्थितम् अस्ति अत उदयपुर-नगरं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः उदयपुर-नगरं त्रिपुरा-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । उदयपुर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः यानैः त्रिपुरासुन्दरी-मन्दिरं प्राप्यते । अस्मिन् नगरे रेलस्थानकं नास्ति । अतः अगरतला-रेलस्थानकम् उदयपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् उदयपुर-नगरात् ५२ किलोमीटरमिते दूरे स्थितम् अस्ति । उदयपुर-नगरे विमानस्थानकं नास्ति । अगरतला-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । उदयपुर-नगरात् इदं विमानस्थानकं ५२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । अगरतला-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण त्रिपुरासुन्दरी-मन्दिरं गन्तुं शक्यते । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया उदयपुर-नगरं प्राप्य त्रिपुरासुन्दरी-मन्दिरं गन्तुं शक्नुवन्ति ।

परिवहनम्[सम्पादयतु]

त्रिपुरा-राज्यस्य परिवहनं समृद्धम् अस्ति । इदं राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् सन्ति । अतः जनाः सरलतया त्रिपुरा-राज्यं प्राप्नुवन्ति भ्रमणार्थम् अपि तत्र गच्छन्ति च ।

भूमार्गाः[सम्पादयतु]

त्रिपुरा-राज्यस्य सर्वकारेण भूमार्गस्य व्यवस्था दृश्यते । सर्वकारेण सम्पूर्णे राज्ये भ्रमणार्थं बसयानानि प्रचालितानि सन्ति । अतः तैः बसयानैः त्रिपुरा-राज्यस्य विभिन्ननगराणां भ्रमणं कर्तुं शक्यते । त्रिपुरा-राज्यं ४४ क्रमाङ्कस्य, ४४A क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ त्रिपुरा-राज्यं भारतस्य प्रमुखनगरैः सह सञ्योजयतः । ई. स. २०१० तमस्य वर्षस्य सर्वेक्षणानुगुणम् अस्मिन् राज्ये आहत्य १६,९३१ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । तेषु राष्ट्रियराजमार्गाः ४४८ किलोमीटरमिताः, राज्यराजमार्गाः ६८९ किलोमीटरमिताः च दीर्घाः सन्ति । अतः सरलतया भूमार्गेण त्रिपुरा-राज्यं प्राप्यते ।

धूमशकटमार्गाः[सम्पादयतु]

त्रिपुरा-राज्यस्य धूमशकटमार्गाः भारतस्य प्रमुखनगरैः सह सम्बद्धाः सन्ति । अस्मिन् राज्ये धूमशकटमार्गाः ४१२ किलोमीटरमिताः दीर्घाः सन्ति । भारतस्य प्रमुखेषु रेलस्थानकेषु अगरतला-रेलस्थानकं त्रिपुरा-राज्ये स्थितम् अस्ति । अगरतला-नगरस्य, अम्बासा-नगरस्य, धर्मनगरस्य, जोगेन्द्र-नगरस्य, जिरानिया-नगरस्य इत्यादीनि रेलस्थानकानि त्रिपुरा-राज्ये स्थितानि सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । अनेन प्रकारेण त्रिपुरा-राज्यं धूमशकटमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । जनाः धूमशकटमार्गेण त्रिपुरा-राज्यस्य विभिन्ननगराणि सरलतया गन्तुं शक्नुवन्ति ।

वायुमार्गाः[सम्पादयतु]

त्रिपुरा-राज्यं वायुमार्गेण अपि सुदृढम् अस्ति । राज्येऽस्मिन् त्रिषु नगरेषु राष्ट्रियविमानस्थानकानि सन्ति । अगरतला-नगरे, कमालपुर-नगरे, खोवाई-नगरे च त्रिपुरा-राज्यस्य राष्ट्रियविमानस्थानकानि सन्ति । एतेभ्यः विमानस्थानकेभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । एतानि विमानस्थानकानि देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभिः भारतस्य प्रमुखविमानस्थानकैः सह सम्बद्धानि सन्ति । अनेन प्रकारेण त्रिपुरा-राज्यं वायुमार्गेण भारतस्य विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । जनाः सरलतया त्रिपुरा-राज्यस्य प्रमुखनगराणि गन्तुं शक्नुवन्ति ।