सदस्यः:दशरथः ठाकुरः/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तमुवाच हृषीकेशः () इत्यनेन श्लोकेन अर्जुनस्य तूष्णीभूते सति किमभवद् इति सञ्जयः वर्णयति । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रं वदति यत्, "युद्धं न करिष्ये" इत्युक्त्वा अर्जुनः तूष्णी अभवत् इति । अत्र अर्जुनस्य तूष्णीस्थिते सति भगवान् श्रीकृष्णः अर्जुनं किं वदति इति सञ्जयः धृतराष्ट्रं कथयति । सञ्जयः कथयति यत्, हे भारतवंशज धृताराष्ट्र ! उभयोः सेनयोः मध्ये विषादकुर्वन्तम् अर्जुनं प्रति दृष्ट्वा स्मितेन सह भगवान् हृषीकेशः अग्रे एवं वदति इति ।

भावार्थः[सम्पादयतु]

'तमुवाच हृषीकेशः...विषीदन्तमिदं वचः' – योद्धॄन् द्रष्टुम् उभयोः सेनयोः मध्ये रथं स्थापय इति अर्जुनः शूरवीरातापूर्वकं श्रीकृष्णम् आदिशत् । ततः उभयोः सेनयोः मध्ये अर्जुनः विषादमग्नः अभवत् । वास्तव्येन युद्धाय उपस्थितेन अर्जुनेन युद्धं करणीयम् आसीत्, परन्तु चिन्तया, शोकेन च विक्षिप्ताय अर्जुनाय भगवान् उपदेशम् आरभते ।

'प्रहसन्निव' – अग्रे शूरवीरतापूर्वकं युद्धाय सज्जस्य अर्जुनस्य भावः विषादेन परिणितः इति दृष्ट्वा श्रीकृष्णः स्मितम् अकरोत् । श्रीकृष्णस्य स्मितपृष्ठे द्वितीयं कारणम् आसीत् यत्, समपूर्वमेव अर्जुनः "शरणम् आगतः । किं करणीयं किं न करणीयम् इत्यस्य उपदेशं ददातु" इत्युक्त्वा स्वयमेव युद्धं न करिष्यामि इति निर्णयं वदति इति । किञ्च शरणागते स्वीकारे सति "किं करवाणि, किं न करवाणि" इत्यस्य विचारः अस्थाने भवति । शरगणागते सति अर्जुनेन श्रीकृष्णस्य वचनानुसारं युद्धाय सज्जेन भवितव्यम् आसीत् । परन्तु सः तु "न योत्स्ये" इत्युक्त्वा स्वनिर्णयं श्रीकृष्णं श्रावयति । 'इव' इत्यस्य तात्पर्यं भवति यत्, अर्जुनस्य वचनं श्रुत्वा श्रीकृष्णस्तु अट्टहास्यं कर्तुं शक्नोति स्म, परन्तु सः सस्मितम् अवदत् ।

यदा अर्जुनः "युद्धं न करिष्ये" इति अवदत्, तदा श्रीकृष्णेन "यथेच्छसि तथा कुरु" [१] इति वक्तव्यम् आसीत् । परन्तु भगवान् जानाति स्म यत्, शोकग्रस्तः मनुष्यः व्याकुलतायाः कारणेन कर्तव्याकर्तव्ययोः विचारम् अकृत्वा यत्किमपि वदति । अर्जुनेन सह अपि तथैव जायमानम् अस्ति इति । अर्जुनस्य कृपणस्थितिं दृष्ट्वा भगवतः हृदये अर्जुनं प्रति कृपाभावः समुद्भूतः । यतः भगवतः ध्यानं साधकस्य वचनं प्रति न, अपि तु तस्य भावं प्रति भवति । अतः अहं न योत्स्ये इत्यस्य वचनस्य अवगणनां कृत्वा भगवान् उपदेशम् आरभते । एवं यः वचनमात्रेणापि भगवतः शरणं गच्छति, भगवान् तं स्वीकरोति । भगवतः हृदये प्राणिमात्रं प्रति अतीव दया अस्ति ।

'हृषीकेश' – इत्यस्य सम्बोधनस्य तात्पर्यम् अस्ति यत्, भगवान् अन्तर्यामी अस्ति । अर्थात् प्राणिनाम् अन्तर्भावान् सः जानाति । भगवान् अर्जुनस्य अन्तर्भावम् अपि जानाति यत्, राज्यप्राप्त्या शोकशमनम् अदृष्ट्वा कौटुम्बिकमोहने ग्रसितः अर्जुनः "न योत्स्ये" इति कथयति । परन्तु यदा स्वयंस्फुरणा भविष्यति, तदा एतान् विचारान् त्यक्त्वा अहं यथा कथयिष्यामि, तथा सः करिष्यति इति ।

'इदं वचः उवाच' – एतेषु वचनेषु केवलं "उवाच" इत्यनेन पदेन वाक्यबोधः भवेदेव । किञ्च "उवाच" इत्यस्मिन् "वचः" इति पदम् अन्तर्भवत्येव । एवं "वचः" इत्यस्य उपयोगं कृत्वा पुनरुक्तिदोषः प्रतीयते । परन्तु वास्तव्येन अत्र पुनरुक्तिदोषः नास्ति, प्रत्युत तस्मिन् कश्चन विशेषः भावः निहितः वर्तते । अग्रिमे श्लोके भगवान् अर्जुनम् उद्दिश्य सरलभाषया रहस्यमयं यं ज्ञानं प्रकटयिष्यति, तं ज्ञानं प्रति लक्ष्यं कर्तुं "वचः" इत्यस्य पदस्य उपयोगः कृतः ।

भाष्यार्थः[सम्पादयतु]

'दृष्ट्वा तु पाण्डवानीकम्' इत्यस्मात् श्लोकात् 'न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह' इत्येनं श्लोकं पर्यन्तं ग्रन्थस्य व्याख्या भवति यत्, एतस्मिन् प्रकरणे प्राणिनां शोकः, मोहः इत्यादयः ये सांसारिकदोषाः सन्ति, तेषाम् उत्पत्तेः कारणानि प्रदर्शितानि इति । किञ्च 'कथं भीष्ममहं सङ्ख्ये' इत्यादिभिः श्लोकैः अर्जुनः राज्य-गुरु-पुत्र-मित्र-सुहृद्-स्वजन-सम्बन्धि-बान्धवान् प्रति "एते मे, अहञ्चेतेषाम्" इति अज्ञानजनितेभ्यः स्नेह-विच्छेदादिकारणेभ्यः उत्पन्नं शोकं, मोहं च प्रदर्शयति ।

समपूर्वं यद्यपि अर्जुनः स्वयं क्षात्रधर्मरूपिणि युद्धे प्रवृत्त्यै सज्जः आसीत्, तथापि शोकमोहैः विवेकनाशे सति सः युद्धात् उपरामः अभवत् । एवञ्च सः भिक्षाद्वारा जीवननिर्वाहादितैर्कैः अन्येषां धर्माणाम् आचरणाय प्रस्तुतः अस्ति । एवं शोक-मोहादिदोषेभ्यः येषां चित्तम् आवृत्तम् अस्ति, तादृशाः मनुष्याः स्वधर्मत्यागं, निषिद्धधर्मस्य सेवनं च स्वाभाकिततया कुर्वन्ति । एतादृशाः मनुष्याः स्वधर्मपालने रताः भवन्ति चेदपि, तेषां मनोवाणीशरीरादीनां प्रवृत्तिः तु फलाकाङ्क्षापूर्वकम्, अहङ्कारसहितम् एव भवति । एवं तेषां पुण्य-पापानि वर्धन्ते । तेन असज्जन्मनः, सज्जन्मनः, सुखदुःखानां च प्राप्तित्वात् संसारनिवृत्तिः न भवति । अतः शोकमोहौ संसारबीजौ मन्येते । तयोः निवृत्तिः सर्वकर्मसंन्यासपूर्वकम् आत्मज्ञानात् अतिरीच्य असम्भवा । अतः तस्य आत्मज्ञानस्य उपदेशनस्य इच्छायां सत्यां भगवान् वासुदेवः सर्वेषु अनुग्रहं कृत्वा अर्जुनं निमित्तीकृत्य 'अशोच्यान्' इत्यादि कथयति ।

इत्यस्मिन् विषये अनेके टीकाकाराः कथयन्ति यत्, केवलं सर्व-कर्म-सन्न्यासपूर्वकाद् आत्मज्ञान-निष्ठामात्राद् एव कैवल्यस्य मोक्षस्य वा प्राप्तिः न शक्यते, अपि तु अग्निहोत्रादिनः श्रौत-स्मार्त-कर्मसहितज्ञानात् मोक्षप्राप्तिः भवति इति । तेषां मते आ गीतायाः एष एव निश्चिताभिप्रायः अस्ति । ते एतस्मिन् विषये प्रमाणम् अपि प्रदर्शयन्ति यत्, 'अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि', 'कर्मण्येवाधिकारस्ते', 'कुरु कर्मैव तस्मात्त्वम्' इत्यादि ।

ते एवम् अपि कथयन्ति यत्, हिंसादियुक्ते सति वैदिककर्म अधर्मकारणम् अस्ति इति शङ्का अपि न करणीया; यतः गुरु-भ्रातृ-पुत्रादीनां हिंसा एव यस्य स्वरूपम् अस्ति, तादृशः अत्यन्तक्रूरः क्षात्रधर्मः अपि स्वधर्मत्वात् अधर्महेतुः नास्ति इति । एवं वक्तारः तेषां वैदिककर्मणाम् अभावे 'ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि' इति कथयन्ति । दोषप्रदर्शकस्य भगवतः कथनेन सिद्ध्यति यत्, "जीवनपर्यन्तं कर्म कुरु" इत्यादिभिः श्रुतिवाक्यैः वर्णितं पश्वादिहिंसारूपं कर्म अधर्म न इति तेषां मतम् ।

परन्तु तेषाम् एतादृशं कथनं योग्यं न; यतो हि भिन्नयोः बुद्ध्योः आश्रितयोः ज्ञाननिष्ठाकर्मनिष्ठयोः भिन्नं वर्णनम् अस्ति । 'अशोच्यान्' इत्यस्मात् श्लोकात् 'स्वधर्ममपि चावेक्ष्य' इत्यस्मात् श्लोकात् पूर्वस्तने प्रकरणे भगवता यस्य परमार्थात्मतत्त्वस्य निरूपणं कृतम् अस्ति, तत् तत्त्वं साङ्ख्यः । साङ्ख्यविषयिका बुद्धिः अर्थात् आत्मनि जन्मादिषड्विकाराणाम् अभावत्वात् आत्मा अकर्ता अस्ति इति निश्चयः । उक्तप्रकरणस्य विवेचनेन एतादृशः निश्चयः उत्पद्यते, सः साङ्ख्यबुद्धिः अस्ति । एतादृशी साङ्ख्यबुद्धिः येभ्यः साधकेभ्यः उचिता अस्ति, ये च तस्याः बुद्धेः अधिकारिणः सन्तिः, ते साख्ययोगिनः सन्ति ।

एतादृश्याः उपर्युक्तायाः बुद्धेः उत्पत्तेः प्रागेव आत्मनः देहादिभ्यः पृथक्त्वस्य, कर्तृत्वस्य, भोक्तृत्वस्य च अपेक्षकः यः धर्माधर्मयोः विवेकयुक्तमार्गः अस्ति, मोक्षसाधनानुष्ठानचेष्टा एव यस्य धर्म अस्ति, तस्य मार्गस्य नाम योगः अस्ति । तद्विषयकबुद्धिरेव योगबुद्धिः अस्ति । सा बुद्धिः येभ्यः साधकेभ्यः उचिका अस्ति, ये च तस्याः बुद्धेः अधिकारिणः सन्ति, ते योगिनः सन्ति ।

एवमेव भगवान् 'एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श्रृणु' इत्यस्मात् श्लोकात् उभयोः बुद्ध्योः भिन्नत्वं दर्शयति । तयोः उभयोः बुद्ध्योः साङ्ख्यबुद्ध्याश्रितयोगिनां ज्ञानयोगोत्पनां निष्ठां 'पुरा वेदात्मना मया प्रोक्ता' इत्यादिवचनेभ्यः भिन्नतया कथयिष्यति । कर्तृत्वमकर्तृत्वम्, एकतानेकता इत्यादीनां भिन्नबुद्धीनाम् आश्रयि ज्ञानं, कर्म च स्तः । तयोः उभयोः एकस्मिन् पुरुषे अवस्थितिः अशक्या इति अपेक्षकः भगवान् एव स्वयम् उपर्युक्ततया साङ्ख्यबुद्धि-योगबुद्ध्योः आश्रयेण उभयोः निष्ठयोः प्रतिपादनं करोति ।

यथा गीताशास्त्रे तयोः निष्ठयोः भिन्नतया वर्णनम् अस्ति, तथैव शतपथब्राह्मणेऽपि निरूपितम् अस्ति । तत्र उक्तम् अस्ति यत्, "एनम् आत्मलोकमेव इच्छन्तः वैराग्यशालिब्राह्मणाः सन्न्यासिनः भवन्ति" इति [२] । एवं सर्व-कर्म-सन्न्यासस्य विधानं कृत्वा तस्य वाक्यस्य शेषं वाक्यान्तरे उक्तम् अस्ति यत्, "आत्मा एव अस्माकं लोकः इति मन्यमानाः वयं सन्ततिना किं सिद्धयिष्यामः ?" इति [३] । तत्रैवाग्रे उक्तम् अस्ति यत्, प्राकृत् आत्मा अर्थात् अज्ञानी मनुष्यः धर्मजिज्ञासायाः पश्चात्, विवाहात् पूर्वं च लोकत्रयप्राप्तेः साधनत्वेन पुत्रस्य, दैवमानुषलोकप्राप्तेः साधनत्वेन धनस्य च इच्छां करोति । एतेषु पितृलोकप्राप्तेः साधनत्वेन 'कर्म' मानुषधनम् अस्ति । एवञ्च देवलोकप्राप्तेः साधनत्वेन 'विद्या' देवधनम् अस्ति [४] । एवम् उपर्युक्तश्रुतौ अविद्यस्य, कामनायुक्तस्य च पुरुषस्य कृते एव श्रोतादयः सर्वाणि कर्माणि निर्दिष्टानि ।

'तानि सर्वाणि कर्माणि त्यक्त्वा निवृत्तः सन्न्यासं स्वीकरोति' इत्यनेन कथनेन केवलम् आत्मलोकेच्छुकेभ्यः निष्कामिभ्यः पुरुषेभ्यः सन्न्यासस्य विधानम् अस्ति । यदि चिन्तयामः यत्, भगवते श्रोतकर्म-ज्ञानयोः समुच्चयः इष्टः अस्तीति, तर्हि उपर्युक्तं विभक्तं वचनम् अयोग्यं सिद्ध्यति । एवञ्च 'ज्यायसी चेत्कर्मणस्ते' इत्यादयः अर्जुनस्य प्रश्नाः अपि अस्थाने सिद्ध्यन्ति ।

युगपथं ज्ञानमार्गस्य, कर्ममार्गस्य च अनुसरणम् एकेन पुरुषेण असम्भवः इति, कर्मणः अपेक्षया ज्ञानं श्रेष्ठम् इति च भगवान् यदि पूर्वमेव नावदिष्यत्, तर्हि अर्जुनः भगवता अनुक्तायाः वार्तायाः भवगति अध्यारोपणं किमर्थं कुर्यात् [५] ? सर्वेभ्यः यदि ज्ञानकर्मसमुच्चयः (ज्ञानमार्गस्य, कर्ममार्गस्य च एकस्मिन् एव काले अनुसरणम्) उक्तः स्यात्, तर्हि अर्जुनाय अपि सः मार्गः उक्तः आसीत् । परन्तु तस्मात् समुच्चयात् अर्जुनः किमर्थम् एकस्य विषये एव प्रश्नं करोति [६]  ? यतो हि पित्तशान्तीप्सिताय रोगिणे वैद्यः मधुरभोजनं, शीतपदार्थसेवनं च कुर्याः इति उपदेशं ददाति । तस्मिन् काले रोगी एवं वक्तुं न शक्नोति यत्, तयोः उभयोः मध्ये किमपि एकमेव पित्तशान्त्युपायत्वेन कथयतु इति ।

यदि कल्पयामः यत्, भगवता उक्तं वचनम् अनभिज्ञः अर्जुनः प्रश्नम् अकरोत् इति, तर्हि भगवता तु प्रश्नानुगुणम् उत्तरं दातव्यम् आसीत् । भगवान् अवदिष्यत् यत्, अहं तु ज्ञानकर्मणोः समुच्चयं वदामि, त्वं भ्रान्त्या अन्यथा किमर्थं स्वीकरोषि ? इति । परन्तु प्रश्नाद्विपरितं भिन्नमेव उत्तरं ददाति यत्, अहम् उभयोः निष्ठयोः विषये अवदम् इति । एतत् उपर्युक्तकल्पनया सह उपयुक्तं नास्ति । एतद्विहाय यदि केवलं स्मार्तकर्मणा सहैव ज्ञानस्य समुच्चयं मन्यामहे, तर्ह्यपि विभक्तवर्णनादयः सर्वे उपयुक्ताः न सिद्ध्यन्ति ।

युद्धरूपं स्मार्तकर्म स्वक्षात्रधर्म अस्ति इति ज्ञातुः अर्जुनस्य "तत् किं कर्मणि घोरे मां नियोजयसि" इति उपालम्भः अपि न भवितुम् अर्हति । एवं सुतरां सिद्ध्यति यत्, गीताशास्त्रे किञ्चिन्मात्रम् अपि श्रौतस्मार्तकर्मणा सह आत्मज्ञानस्य समुच्चयं कोऽपि दर्शयितुं न प्रभवति । अज्ञानासक्त्यादिदोषैः कर्मरतः पुरुषः यज्ञदानतपसादिभ्यः अन्तःकरणशुद्धौ सति परमार्थतत्त्वविषकज्ञानी भवति । अर्थात् तस्य ज्ञानं भवति यत्, ब्रह्म एकम् एवावस्ति, स च अकर्ता इति । तस्य पुरुषस्य कर्मभ्यः कर्मज्ञाने यद्यपि निवर्तयेते, तथापि लोकसङ्ग्रहाय पूर्ववत् यत्नपूर्वकं कर्मरतस्य तस्य पुरुषस्य प्रवृत्तिरूपकर्म प्रत्यक्षं भवति । तत् कर्म वास्तव्येन कर्म न । एवं कर्मणः ज्ञानेन सह सम्मुच्चः अपि असम्भवः ।

यथा भगवतः श्रीकृष्णस्य क्षात्रकर्मणां मोक्षादिसिद्ध्यै ज्ञानेन सह समुच्चयः इति न भवितुम् अर्हति, तथैव फलेच्छारहितत्वात्, अहङ्काराभावाच्च ज्ञानिनां कर्मणः अपि ज्ञानेन सह समुच्चयः न शक्यते । यतः अहं कर्ता अस्मि, फलमिच्छामि इति आत्मज्ञानी न चिन्तयति । कश्चन कामसाधनारूपिणाम् अग्निहोत्रादिकर्मणाम् अनुष्ठानाय सङ्कल्पं करोति । परन्तु सः सकामाग्निहोत्रादिभिः सह सँल्लग्नस्य स्वर्गादिकामनायुक्तस्य अग्निहोत्रस्य कामनां करोति । ततः अर्धकर्मणि समाप्ते सति सः अग्निहोत्रं त्यजति । यद्यपि अर्धाग्निहोत्रः समाप्तः, तथापि तस्य कामना पूर्णा न भवति । एवम् सः पौनःपुन्येन अर्धाग्निहोत्रान् करोति चेदपि तत् काम्यकर्म न सिद्ध्यति । एवमेव ज्ञानिनः कर्म कर्मत्वेन न परिगण्यते ।

'कुर्वन्नपि न लिप्यते', 'न करोति न लिप्यते' इत्यादिवचनैः भगवान् विभिन्नेषु प्रसङ्गेषु उक्तं विषयमेव उपस्थापयति । तथा च 'पूर्वैः पूर्वतरं कृतम्', 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इत्यादीनि वचनानि तु विभागशः एव अवगन्तव्यानि ।

पू. – तत् कथम् अवगच्छाम ?

उ. – यदि प्राच्यकाले जाताः जनकादयः तत्त्ववेत्ताः लोकसङ्ग्रहाय कर्मसु प्रवृत्ताः आसन्, तर्हि अर्थोऽयं ग्रहणीयः यत्, "गुणाः एव गुणेषु तिष्ठन्ति" [७] इत्यस्य ज्ञानस्य आधारेणैव ते परमसिद्धिङ्गताः । अर्थात् कर्म-सन्न्यासस्य योग्यतायां प्राप्तायां सत्याम् अपि कर्मणां त्यागं न कृतवन्तः ते कर्म कुर्वन्तः एव परमसिद्धाः अभूवन् इति ।

यदि ते जनकादयः तत्त्वज्ञानिनः नासन्, तर्हि व्याख्या भवति यत्, ते ईश्वरं प्रति समर्पणं कुर्वन्तः साधनरूपकर्मभिः चित्तशुद्धिरूपसिद्धिम् उत ज्ञानोत्पत्तिरूपसिद्धिं प्राप्तवन्तः इति । एतस्मिन् विषये भगवान् कथयिष्यति यत्, "योगिनः अन्तःकरणस्य शुद्ध्यै कर्म कुर्वन्ति" इति [८] । ततः "स्वस्य स्वाभाविककर्मद्वारा पूजां कृत्वा मनुष्यः परमसिद्धं प्राप्नोति" [९] इत्युक्त्वा "तां नैष्कर्म्यसिद्धं प्राप्य यथा मनुष्यः ब्रह्म प्राप्नोति" [१०] इत्यादिवचनैः सिद्धेभ्यः ज्ञाननिष्ठां कथयिष्यति । सम्पूर्णे गीताशास्त्रे निश्चितः अर्थः अस्ति यत्, केवलं तत्त्वज्ञानात् मुक्तिः भवति, न तु कर्मसहितेन ज्ञानेन । भगवतः यथा अभिप्रायः अस्ति, तथैव प्रकरणानुसारं विभागपूर्वकम् अवसरानुगुणं कथयिष्यामः ।

एवं धर्मविषये यस्य चित्तः मुह्यमानः अस्ति, यः महाति शोकसागरे निमज्जमानः अस्ति, तादृशस्य अर्जुनस्य आत्मज्ञानं विना उद्धारः असम्भवः इति विचिन्त्य शोकसमुद्रात् अर्जुनोद्धारकामी भगवान् वासुदेवः आत्मज्ञानस्य प्रस्तावनां कुर्वन् वदति यत् -

भाष्यार्थः[सम्पादयतु]

एवम् अयोग्ये समये उत्पन्नेन स्नेहसा, करुणया च यः स्वभावविचलितः अस्ति, क्षत्रियेभ्यः युद्धं परमं धर्म इति ज्ञात्वापि यः तत् अधर्मत्वेन मन्यमानः अस्ति तथा च यः धर्म ज्ञातुं श्रीकृष्णस्य शरणङ्गतः अस्ति, तम् अर्जुनं निमित्तीकृत्य "आत्मस्वरूपस्य यथार्थज्ञानं विना, फलाभिसन्धिरहितं स्वधर्मरूपं युद्धम् आत्मनः यथार्थज्ञानमार्गः अस्ति" इति अर्जुनं बोधयितुं परमपुरुषः भगवान् श्रीकृष्णः अध्यात्मशास्त्रस्य वर्णनम् आरभते । कथितमपि अस्ति यत्, असमये स्नेहसः, करुणायाः, धर्माधर्मभयाच्च व्याकुलो भूत्वा शरणागताय अर्जुनाय भगवान् गीताशास्त्रस्य आरम्भम् अकरोत् इति [११]

एवं शरीरात्मनोः यथार्थस्वरूपस्य अज्ञानत्वात् यः शोके निमज्जमानः अस्ति तथा च "शरीरात् आत्मा भिन्नः इति ज्ञानप्राप्तिः यस्य उद्देश्यम् अस्ति", तादृशस्य धर्मणः वर्णनं भवति । एतयोः परस्परविरुद्धगुणयोः युक्तम् अर्जुनम् उभयोः सेनयोः मध्ये एकस्मात् निश्चेष्टं दृष्ट्वा परमपुरुषश्रीकृष्णः सस्मितम् एवम् अवदत् । अर्थात् श्रीकृष्णः परिहासवचनं वदन् आत्मपरमात्मनोः यथार्थस्वरूपस्य, परमात्मप्राप्तेः च उपायाय कर्मयोग-ज्ञानयोग-भक्तियोगानां बोधकं 'न त्वेवाहं जातु नासम्' इत्यस्मात् 'अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' इत्येतावतः पर्यन्तस्य प्रसङ्गम् अकथयत् ।

  1. गीता, अ. १८, श्लो. ६३
  2. एतमेव प्रवाजिनो लोकमिच्छन्तो ब्राह्मणाः प्रवजन्ति, (बृ. ४।४।२२)
  3. किं प्रजया करिष्यामो, येषां नोऽयमात्मायं लोकः, (बृ. ४।४।२२।)
  4. प्राग्दारपरिग्रहात्पुरुष आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनं पुत्रं द्विप्रकारं च वित्तं मानुषं दैवं च तत्र मानुषं वित्तं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनं सोऽकामयत, (बृ. १।४।१७)
  5. ज्यायसी चेत्कर्मणस्ते
  6. यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्
  7. गुणा गुणेषु वर्तन्ते
  8. सत्त्वशुद्धये कर्म कुर्वन्ति
  9. गीता, अ. १८, श्लो. ४६, स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः
  10. गीता. अ. १८, श्लो. ५०, सिद्धिं प्राप्तो यथा ब्रह्म
  11. अस्थाने स्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणे कृतम् ।।, गीतार्थसङ्ग्रहः ५