सदस्यः:मुकेशभाई राज्यगुरु/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

महानगराणि[सम्पादयतु]

राजस्थान-राज्ये चत्वारि महानगराणि सन्ति । तानि – जयपुर-नगरं, अलवर-नगरं, जोधपुर-नगरम्, उदयपुर-नगरं च [१]

जयपुरम्[सम्पादयतु]

जयपुर-नगरं भारतस्य राजस्थान-राज्यस्य जयपुर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं “पिङ्क् सिटी” इति नाम्ना अपि विश्वस्मिन् प्रसिद्धम् अस्ति । जयपुर-नगरं राजस्थान-राज्यस्थ राजधानीत्वेन अपि स्थितम् अस्ति । अम्बेर-साम्राज्यस्य “सवाई जयसिंह द्वितीयः” इत्याख्येन राज्ञा “विद्याधरभट्टाचार्यः” इत्याख्यस्य बङ्गाल-राज्यस्य वास्तुकारस्य साहाय्येन अस्य नगरस्य निर्माणं कारितम् आसीत् । वास्तुशास्त्रानुगुणं निर्माणे सम्पूर्णे भारते अस्य नगरस्य प्रथमं स्थानम् आयाति । “सवाई जयसिंह” इत्याख्येन राज्ञा नगरनिर्माणे ९ क्रमाङ्काय विशिष्टं महत्त्वं प्रदत्तम् आसीत् । यतः सः खगोलविज्ञानस्य विषये किञ्चित् जानाति स्म । ९ क्रमाङ्कः नवग्रहाणां प्रतीकत्वेन अस्ति । नगरेऽस्मिन् बहवः दुर्गाः, भवनानि च सन्ति । विश्वस्य विभिन्ननगरेभ्यः जनाः अस्य नगरस्य भ्रमणाय गच्छन्ति । “अम्बेर-दुर्गः”, “नाहरगढ-दुर्गः”, “हवा महल”, “शीश महल”, “गणेश पोल”, “जल महल” इत्येतानि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । जयपुर-नगरे प्रतिवर्षं जनवरी-मासे “जयपुर विण्टेज् कार रैली” इत्ययम् उत्सवः आचर्यते । अस्मिन् उत्सवे विभिन्नकारयानानि दृश्यन्ते । उत्सवेऽस्मिन् एकोनविंशतिशताब्द्याः कारयानानाम् अपि सङ्ग्रहः दृश्यते । “एलीफैण्ट्-उत्सवः” इत्ययम् अपि एकः विशिष्टः उत्सवः अस्ति । प्रतिवर्षं होलीपर्वणि अस्य उत्सवस्य आयोजनं क्रियते । उत्सवोऽयं हिन्दुधर्मस्य मुख्यपर्व अस्ति । अस्मिन् उत्सवे सांस्कृतिककार्यक्रमाः भवन्ति । सज्जीकृताः गजाः तत्र आनीयन्ते । गणगौर-उत्सवः अपि अस्मिन् नगरे प्रचलितः वर्तते । “गणगौर” इत्यर्थः भवति यत् – “शिवः, पार्वती च” । “बाणगंगामेला-उत्सवः”, “तृतीया”, “होलीपर्व”, “चाकसूमेला-उत्सवः” इत्यादयः उत्सवाः जयपुर-नगरे आयोज्यते । जयपुर-नगरं ८ क्रमाङ्कस्य, ११ क्रमाङ्कस्य, ११२ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः जयपुर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः जयपुर-नगरं गन्तुं शक्यते । जयपुर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः जयपुर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थानराज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् जैसलमेर-नगराय, बीकानेर-नगराय, भोपाल-नगराय, देहली-नगराय, मुम्बई-नगराय, पुणे-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । जयपुर-नगरे एकं विमानस्थानकम् अपि अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य. विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जयपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया जयपुर-नगरं प्राप्तुं शक्नुवन्ति ।

अलवर[सम्पादयतु]

अलवर-नगरं भारतस्य राजस्थान-राज्यस्य अलवर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदम् अरावली-पर्वतीयशैलेषु स्थितम् अस्ति । पौराणिककथानुसारम् इदं नगरं मत्स्यदेशः कथ्यते स्म । तत्र पाण्डवाः त्रयोदशवर्षीये वनवासे काले रूपं परिवर्त्य निवसितवन्तः । ऐतिहासिकदृष्ट्या नगरमिदं मेवाड इति नाम्ना अपि ज्ञायते स्म । अस्मिन् नगरे बहवः तडागाः, भवनानि, स्मारकाः, दुर्गाः, मन्दिराणि इत्यादीनि स्थलानि सन्ति । अस्मिन् नगरे बाला-दुर्गः अस्ति । अयं दुर्गः अलवर-दुर्गः इति नाम्ना अपि ज्ञायते । ई. स. १५५० तमे वर्षे हसन खान मेवाति इत्याख्येन अस्य दुर्गस्य निर्माणं कारितम् आसीत् । अस्मिन् दुर्गे षड्द्वाराणि सन्ति । तानि – जय पोल, लक्ष्मण पोल, सूरत पोल, चाँद पोल, अन्धेरी-दवारं, कृष्णा-द्वारं च । सिटी पैलेस्, विजय-मन्दिरम् इत्येते अलवर-नगरस्य वास्तुकलायाः विशिष्टे स्थले स्तः । विजय-मन्दिरे १०५ भव्यभवनानि, उद्यानं, तडागः च सन्ति । जयसमन्द-तडागः, सिल्लीसेढ-तडागः, सागर-तडागः इत्यादयः अस्य नगरस्य समीपस्थाः तडागाः सन्ति । “मूसी महारानी की छतरी”, “त्रिपोलिया”, “मोती डूङ्गरी”, “भानगढ”, “क्लॉक् टॉवर्”, “सर्वकारीयसङ्ग्रहालयः”, “नाल्देश्वरः” इत्यादीनि अलवर-नगरस्य पर्यटनस्थलानि सन्ति । अलवर-नगरस्य वातावरणं सामान्यतः शुष्कं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य तापमानं सुखदं, शान्तं च भवति । अतः तस्मिन् काले जनाः भ्रमणार्थं तत्र गच्छन्ति । अलवर-नगरं ८ क्रमाङ्कस्य, ११ क्रमाङ्कस्य, १२ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः अलवर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः अलवर-नगरं गन्तुं शक्यते । अलवर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः अलवर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थानराज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् जैसलमेर-नगराय, बीकानेर-नगराय, भोपाल-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । अलवर-नगरे विमानस्थानकं नास्ति । जयपुर-नगरस्य विमानस्थानकम् अलवर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । अलवर-नगरात् इदं विमानस्थानकं १६२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अलवर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया अलवर-नगरं प्राप्तुं शक्नुवन्ति ।

जोधपुरम्[सम्पादयतु]

जोधपुर-नगरं भारतस्य राजस्थान-राज्यस्य जोधपुर-नगरस्य केन्द्रं विद्यते । नगरमिदं राजस्थानराज्यस्य द्वितीयं मरुभू-नगरम् अस्ति । “सन सिटी”, “ब्लू सिटी” इत्येते द्वे अस्य नगरस्य उपनामनि स्तः । तत्र मेहरानगढ-दुर्गः ऐतिहासिकं स्थलं वर्तते । अस्य दुर्गस्य समीपे नीलवर्णीयानि गृहाणि सन्ति । अतः अस्य नगरस्य नाम “ब्लू सिटी” “नीलनगरं” वा इति । तत्र थारमरुभूमिः अपि विद्यते । इदं नगरं थार-मरुभूमेः सीमायां स्थितम् अस्ति । अतः नगरमिदं “थार-मरुभूमेः प्रवेशद्वारत्वेन” अपि ज्ञायते । ई. स. १४५९ तमे वर्षे राठौड-वंशस्य “राव जोधा” इत्याख्येन प्रमुखेण इदं नगरं स्थापितम् आसीत् । पुरा इदं नगरं “मारवाड” इति नाम्ना ज्ञायते स्म । किन्तु साम्प्रतं इदं नगरं “राव जोधा” इत्यस्य नाम्ना “जोधपुरम्” इति ज्ञायते । अस्य नगरस्य खाद्यव्यञ्जनानि अपि भारते प्रसिद्धानि सन्ति । तत्र विभिन्नप्रकारकाणि खाद्यव्यञ्जनानि प्राप्यन्ते । रक्तमरिचाय अपि इदं नगरं सम्पूर्णे भारते प्रसिद्धम् अस्ति । जोधपुर-नगरे विभिन्नाः उत्सवाः आयोज्यन्ते । तेषु अन्ताराष्ट्रियमरुस्थलवाताटोत्सवः प्रसिद्धः वर्तते । अयम् उत्सवः प्रतिवर्षं फरवरी-मासस्य १४ दिनाङ्के आयोज्यते । त्रिदिवसात्मके अस्मिन् उत्सवे वाताटोड्डयनस्य स्पर्धायाः आयोजनं क्रियते । प्रतिवर्षं हिन्दुमासानुसारं आश्विन-मासे मारवाड-उत्सवः आयोज्यते । अयम् उत्सवः द्विदिवसात्मकः भवति । उत्सवेऽस्मिन् लोकसङ्गीतं, नृत्यं च भवति । इतः परं जोधपुर-नगरस्य नागौर-उत्सवः प्रसिद्धः वर्तते । अस्मिन् उत्सवे पशूनां विक्रयणं क्रयणं च क्रियते । नगरेऽस्मिन् बहूनि भवनानि, स्मारकाः, उद्यानानि, मन्दिराणि च सन्ति । तत्र “उम्मेद भवन पैलेस्” इत्येतत् स्थलं जोधपुर-नगरस्य प्रसिद्धस्मारकः अस्ति । अस्मिन् स्थले “उम्मेद भवन पैलेस् सङ्ग्रहालयः” स्थितः अस्ति । अस्य नगरस्य मेहरानगढ-दुर्गः जोधपुर-नगरस्य लोकप्रियदुर्गेषु अन्यतमः अस्ति । अस्मिन् दुर्गे सप्तद्वाराणि सन्ति । दुर्गेऽस्मिन् सङ्ग्रहालयः अपि अस्ति । सङ्ग्रहालये वस्त्राभूषणानि, शस्त्रास्त्राणि च दृश्यन्ते । “चोकेलाव-उद्यानं”, “जसवन्त थाडा”, “राजकीय-सङ्ग्रहालयः”, “घण्टाघर”, “जसवन्तसागर-जलबन्धः”, “राय का बाग पैलेस्” इत्यादीनि जोधपुर-नगरस्य समीपस्थानि आकर्षणकेन्द्राणि सन्ति । जोधपुर-नगरे अन्यानि अपि बहूनि धार्मिकस्थलानि, पर्यटनस्थलानि सन्ति । महामन्दिर-मन्दिरं, रसिकबिहारी-मन्दिरं, गणेश-मन्दिरं, बाबारामदेव-मन्दिरं, सन्तोषीमाता-मन्दिरं, चामुण्डामाता-मन्दिरं, अचलनाथशिवालयः च इत्यादीनि अस्य नगरस्य धार्मिकस्थलानि सन्ति । बालसमन्द-तडागः अस्य नगरस्य प्रमुखम् आकर्षणकेन्द्रं विद्यते । एनं तडागं परितः उद्यानं स्थितम् अस्ति । एवं च कैलाना-तडागः अपि अस्य नगरस्य समीपे स्थितः अस्ति । अस्य तडागस्य सौन्दर्यम् अपि अद्भूतम् अस्ति । जोधपुर-नगरस्य जलवायुः उष्णः, शुष्कश्च भवति । ग्रीष्मर्तौ तत्र अत्यधिकम् औष्ण्यं भवति । शीतर्तौ अस्य वातावरणं सामान्यं भवति । अतः अक्टूबर-मासतः फरवरी-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । जोधपुर-नगरं ८ क्रमाङ्कस्य, ६५ क्रमाङ्कस्य, ११२ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः जोधपुर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः जोधपुर-नगरं गन्तुं शक्यते । जोधपुर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः जोधपुर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थानराज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् जैसलमेर-नगराय, बीकानेर-नगराय, भोपाल-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । जोधपुर-नगरे एकं विमानस्थानकम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जोधपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया जोधपुर-नगरं प्राप्तुं शक्नुवन्ति ।

उदयपुरम्[सम्पादयतु]

उदयपुर-नगरं भारतस्य राजस्थान-राज्यस्य उदयपुर-मण्डलस्य केन्द्रं विद्यते । नगरेऽस्मिन् बहवः तडागाः सन्ति । अतः नगरमिदं “तडागानां नगरम्” इत्यपि कथ्यते । अस्मिन् नगरे बहूनि मन्दिराणि, भवनानि, सङ्ग्रहालयाः, दुर्गाः, वन्यजीवाभयारण्यानि च सन्ति । ई. स. १५५९ तमे वर्षे उदयसिंह-राज्ञा अस्य नगरस्य स्थापना कृता आसीत् । अतः अस्य नगरस्य नाम उदयपुरम् इत्यभवत् । नगरमिदं भारतस्य प्रमुखं पर्यटनस्थलं वर्तते । अस्य नगरस्य संस्कृतिः, परम्परा च विश्वस्मिन् विख्याता अस्ति । तत्र पिछोला-तडागः अतीव सुन्दरः अस्ति । अस्य तडागस्य निर्माणं ई. स. १३६२ तमे वर्षे कृतम् आसीत् । अपरः फतेहसागर-नामकः तडागः अपि विद्यते । अयमपि कृत्रिमः तडागः अस्ति । ई. स. १६७८ तमे वर्षे फतेहसिंह-राज्ञा अस्य तडागस्य निर्माणं कारितम् आसीत् । राजसमन्द-तडागः, उदयसागर-तडागः, जैसामन्द-तडागः इत्यादयः अपि अस्य नगरस्य तडागाः सन्ति । अस्य नगरस्य “सिटी पैलेस्” इत्येतत् स्थलं प्रमुखम् आकर्षणम् अस्ति । अस्य स्थलस्य निर्माणं ई. स. १५५९ तमे वर्षे कृतम् । “आहाड-पुरातत्त्वसङ्ग्रहालयः” अस्य नगरस्य समीपस्थः सङ्ग्रहालयः अस्ति । अस्मिन् सङ्ग्रहालये प्राचीनयुगस्य जनानां जीवनोपयोगीनि वस्तूनि सङ्ग्रहीतानि सन्ति । “सहेलियों की बाडी”, “बडा महल”, “गुलाब-उद्यानं”, “महाराणाप्रताप-स्मारकः”, “लक्ष्मी चौक” इत्यादीनि उदयपुर-नगरस्य पर्यटनस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णः शुष्कः च भवति । सितम्बर-मासतः मार्च-मासपर्यन्तं कालम् उदयपुर-नगरस्य भ्रमणाय उत्तमं वर्तते । ग्रीष्मर्तौ उदयपुर-नगरस्य अधिकतमं तापमानं प्रायः ४५ डिग्रीसेल्सियसमात्रात्मकं भवति । अतः जनाः शीतर्तौ उदयपुर-नगरस्य पर्यटनस्थलानि गच्छन्ति ।

उदयपुर-नगरं ८ क्रमाङ्कस्य, ६५ क्रमाङ्कस्य, ११२ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः उदयपुर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः उदयपुर-नगरं गन्तुं शक्यते । उदयपुर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः उदयपुर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थानराज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् जैसलमेर-नगराय, बीकानेर-नगराय, भोपाल-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । उदयपुर-नगरे एकं विमानस्थानकम् अस्ति । उदयपुर-नगरात् इदं विमानस्थानकं २२ किलोमीटरमिते दूरे पूर्वदिशि स्थितम् अस्ति । इदं विमनस्थानकम् महाराणाप्रताप इति नाम्ना प्रसिद्धम् अस्ति । महाराणाप्रताप-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । महाराणाप्रताप-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण उदयपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया उदयपुर-नगरं प्राप्तुं शक्नुवन्ति ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ११५