सदस्यः:मुदित पाण्डेय/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शैक्षिकमनोविज्ञानम्[सम्पादयतु]

शैक्षिकमनोविज्ञानम्  (Educational psychology), मनोविज्ञानस्य सा शाखा वर्तते । यस्मिन् , मानवः शैक्षिकवातावरणे कथं अधिगच्छति तथा शैक्षणिकक्रियाकलापाश्च कथं प्रभावी भवितुमर्हन्ति इति अध्ययनं क्रियते । 'शिक्षामनोविज्ञानम् ' द्वयोः शब्दयोः मेलनेन उत्पन्नः - ‘शिक्षा’ ‘मनोविज्ञानञ्च’। अतः अस्य शाब्दिकः  अर्थः वर्तते – शिक्षया संबन्धितं मनोविज्ञानमिति।

अपरेषु शब्देषु अयं मनोविज्ञानस्य व्यावहारिकं रूपमस्ति। तथा च शिक्षाप्रक्रियायां मानवव्यवहारस्य अध्ययनविज्ञानमस्ति।शिक्षायाः सर्वेषु पक्षेषु यथा उद्देश्येषु ,शिक्षणविधिषु ,पाठ्यक्रमे, मूल्याङ्कने, अनुशासने च मनोविज्ञानस्य प्रभावः वर्तते। मनोविज्ञानं विना शिक्षाप्रक्रिया स्म्यकरूपेण न चलितुं शक्नोति।