सदस्यः:हितेन्द्रः व्यासः/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

रणकपुर[सम्पादयतु]

रणकपुर-नगरं भारतस्य राजस्थान-राज्यस्य पाली-मण्डले स्थितम् अस्ति । नगरमिदम् अरावली-पर्वतशृङ्खलायाः पश्चिम-दिशि स्थितम् अस्ति । अस्मिन् नगरे पञ्चदशशताब्द्याः जैनमन्दिरं विद्यते । अस्मै मन्दिराय नगरमिदं भारते प्रसिद्धम् अस्ति । आवर्षं जैनानुयायिनः दर्शनार्थं तत्र गच्छन्ति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । भगवतः सूर्यस्य अपि मन्दिरं विद्यते । मन्दिरमिदम् अस्य नगरस्य आकर्षणस्य केन्द्रं विद्यते । अस्य मन्दिरस्य भित्तिषु खगोलीयपिण्डानां हयानां, योद्धॄणां च चित्राणि दृश्यन्ते । मन्दिरेऽस्मिन् भगवान् सूर्यः रथे आरूढः अस्ति इति दृश्यते । रणकपुरस्य समीपे सदरी इत्येतत् स्थलम् अस्ति । स्थलमिदं जैनानुयायीनां पवित्रस्थलं वर्तते । रणकपुर-नगरे मुच्छल-महावीर-मन्दिरं विद्यते । इदं मन्दिरं भगवतः शिवस्य अस्ति । मन्दिरमिदं कुम्भलगढ-अभयारण्ये स्थिपमस्ति । अस्य मन्दिरस्य वैशिष्ट्यमस्ति यत् – तत्र भगवतः शिवस्य प्रतिमा मुच्छसहिता अस्ति । तस्य स्थलस्य गजानन्द-मन्दिरमपि प्रसिद्धम् अस्ति । रणकपुर-नगरात् ६ किलोमीटरमिते दूरे नरलाई-नामकः ग्रामः विद्यते । ग्रामः अयं जैनमन्दिरेभ्यः ज्ञायते । तेषां मन्दिराणां वास्तुकला, भित्तिचित्राणि च उत्तमानि सन्ति । रणकपुरस्य समीपे कुम्भलगढ-स्थलमपि ऐतिहासिकमस्ति । तत्र मेवाड-दुर्गः स्थितः अस्ति । अयं दुर्गः समुद्रतलात् ११०० मीटरमिते उन्नते स्थितमस्ति । साम्प्रतम् अयं दुर्गः सङ्ग्रहालये परिवर्तितः । बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । रणकपुर-नगरस्य वातावरणं सामान्यं भवति । शीतर्तौ अस्य नगरस्य तापमानम् उत्तमं भवति । अतः तस्मिन् समये भ्रमणं कर्त्तव्यम् । रणकपुर-नगरं ८ क्रमाङ्कस्य, ७६ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ रणकपुर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः रणकपुर-नगरं गन्तुं शक्यते । रणकपुर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः रणकपुर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । फलना-नगरस्य रेलस्थानकं रणकपुर-नगरस्य समीपस्थं रेलस्थानकमस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । रणकपुर-नगरात् इदं रेलस्थानकं ३५ किलोमीटरमिते दूरे स्थितमस्ति । अस्मात् रेलस्थानकात् अहमदाबाद-नगराय, पुणे-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । रणकपुर-नगरे विमानस्थानकम् अपि नास्ति । उदयपुर-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं वर्तते । रणकपुर-नगरात् इदं विमानस्थानकं ९५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण रणकपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया रणकपुर-नगरं प्राप्तुं शक्नुवन्ति ।

सवाई माधोपुर[सम्पादयतु]

सवाईमाधोपुर-नगरं भारतस्य राजस्थान-राज्यस्य सवाईमाधोपुर-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं चम्बल-नद्याः तटे स्थितम् अस्ति । अष्टादशशताब्द्यां सवाई माधोसिंह प्रथम इत्याख्यः राजा जयपुरक्षेत्रे शासनं करोति स्म । अत एव तस्य नाम्ना अस्य नगरस्य नाम सवाईमाधोपुर इति अभवत् । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । प्रारम्भे चौहानवंशस्य शासकेन राज्ञः हम्मीरदेवस्य शासनम् आसीत् । अनन्तरम् अलाउद्दीन खिलजी इत्याख्येन राज्ञा आक्रमणं कृत्वा अस्मिन् क्षेत्रे आधिपत्यं स्थापितम् । तेन सम्पूर्णनगरस्य स्थितिः जर्जरीकृता । सवाईमाधोपुर-नगरस्य समीपे बहूनि ऐतिहासिकानि, प्राकृतिकानि स्थलानि सन्ति । अत एव इदं नगरं विख्यातम् अस्ति । सवाईमानसिंह–अभयारण्यं, रामेश्वर-घट्टः, सैमटन-भवनम् चमत्कारजी-जैनमन्दिरं, चौथमाता-मन्दिरं, कैलादेवी-मन्दिरम् इत्यादीनि अस्य नगरस्य धार्मिकस्थलानि, पर्यटनस्थलानि च सन्ति । अस्मिन् नगरे प्रतिवर्षम् उत्सवाः आयोज्यन्ते । तेषु उत्सवेषु अस्य नगरस्य संस्कृतिः, परम्पराः च दृश्यन्ते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः, शुष्कः च भवति । शीतर्तौ अस्य नगरस्य तापमानम् उत्तमं भवति । अतः जनाः तस्मिन् समये भ्रमणार्थं तत्र गच्छन्ति । सवाईमाधोपुर-नगरं ११ क्रमाङ्कस्य, १२ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ सवाईमाधोपुर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः सवाईमाधोपुर-नगरं गन्तुं शक्यते । सवाईमाधोपुर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः सवाईमाधोपुर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् अहमदाबाद-नगराय, पुणे-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । सवाईमाधोपुर-नगरे विमानस्थानकं नास्ति । जयपुर-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं वर्तते । सवाईमाधोपुर-नगरात् इदं विमानस्थानकं १६० किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण सवाईमाधोपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया सवाईमाधोपुर-नगरं प्राप्तुं शक्नुवन्ति ।

केसरोली[सम्पादयतु]

केसरोली-नामकः अयं लघुग्रामः भारतस्य राजस्थान-राज्यस्य अलवर-मण्डले स्थितः अस्ति । अस्मिन् ग्रामे एकः दुर्गः स्थितः अस्ति । सः दुर्गः चतुर्दशशताब्द्याः अस्ति । अयं दुर्गः पर्वते स्थितम् अस्ति । केसरोली-ग्रामः भारतस्य प्राचीन-स्थलेषु अन्यतमः अस्ति । महाभारत-काले अपि अस्य ग्रामस्य अस्तित्वमासीत् । तस्मिन् काले ग्रामः अयं मत्स्य-जनपदः इति कथ्यते । अस्य ग्रामस्य समीपे स्थिते विराटनगरस्य बौद्धविहारः अपि दर्शनीयस्थलं वर्तते । मन्यते यत् – पाण्डवैः वेशभूषां परिवर्त्य अत्र निवासः कृतः । अस्य नगरस्य प्राकृतिकसौन्दर्यमपि मनोहरं भवति । स्थलमिदं देहली-नगरस्य, अलवर-नगरस्य च समीपे स्थितम् अस्ति । अतः सप्ताहान्ते बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । केसरोली-ग्रामस्य वातावरणं सामान्यं, शान्तं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । केसरोली-ग्रामः ८ क्रमाङ्कस्य, ११ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धः अस्ति । इमौ राष्ट्रियराजमार्गौ केसरोली-ग्रामं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः केसरोली-ग्रामं गन्तुं शक्यते । केसरोली-ग्रामे भाटकयानानि अपि प्रचलन्ति । अतः तैः केसरोली-ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । अलवर-नगरस्य रेलस्थानकं केसरोली-ग्रामस्य निकटतमं रेलस्थानकम् अस्ति । केसरोली-ग्रामात् अलवर-नगरस्य रेलस्थानकं १० किलोमीटरमिते दूरे स्थितमस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् अहमदाबाद-नगराय, पुणे-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । केसरोली-ग्रामे विमानस्थानकम् अपि नास्ति । देहली-महानगरस्य इन्दिरा-गान्धी-विमानस्थानकम् अस्य नगरस्य समीपस्थम् अस्ति । केसरोली-ग्रामात् इदं विमानस्थानकं १५० किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण केसरोली-ग्रामः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धः अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया केसरोली-ग्रामं प्राप्तुं शक्नुवन्ति ।

पाली[सम्पादयतु]

पाली-नगरं भारतस्य राजस्थान-राज्यस्य पाली-मण्डलस्य केन्द्रमस्ति । नगरमिदम् औद्यौगिकनगरत्वेन ज्ञायते । इदं नगरं बाँदी-नद्याः तटे स्थितम् अस्ति । पुरा इदं पल्लिका, पल्ली वेति नाम्ना ज्ञायते स्म । प्राचीने काले अत्र पालीवालब्राह्मणाः निवसन्ति स्म । प्राचीनकालादेव नगरमिदं व्यापारकेन्द्रमासीत् । इदं नगरं वस्त्रोद्योगाय भारते प्रसिद्धमस्ति । तत्र बहूनि मन्दिराणि, दुर्गाः, सङ्ग्रहालयाः, उद्यानानि च सन्ति । नवलखा-मन्दिरं पाली-नगरस्य प्रमुखं तीर्थस्थलं वर्तते । इदं मन्दिरं जैन-धर्मस्य तीर्थस्थलेषु अन्यतमम् अस्ति । अस्य मन्दिरस्य वास्तुकला उत्कृष्टतमा अस्ति । पाली-नगरस्य समीपे अपि बहूनि तीर्थस्थलानि सन्ति । परशुराम-मन्दिरं, चामुण्डामाता-मन्दिरं, सोमनाथ-मन्दिरं, हतुण्डीरतामहावीरस्वामी-मन्दिरम् इत्येतानि अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । पाली-नगरे बाँगर-सङ्ग्रहालयः अस्ति । अस्मिन् सङ्ग्रहालये ऐतिहासिकानि वस्तूनि, प्राचीनमुद्राः, राजन्यवस्त्राभूषणानि च सङ्ग्रहितानि सन्ति । पाली-नगरस्य मध्यभागे लखोटिया-उद्यानम् अस्ति । अस्मिन् उद्याने भगवतः शिवस्य एकं प्राचीनमन्दिरम् अपि विद्यते । बहवः जनाः दर्शनार्थं तत्र गच्छन्ति । निम्बोनाथ, आदीश्वर-मन्दिरं, सूर्यनारायण-मन्दिरं च अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । पाली-नगरे बहवः सोपानयुताः कूपाः सन्ति । जनैः ते कूपाः बावडी इति कथ्यन्ते । पाली-नगरस्य समीपस्थेषु क्षेत्रेषु प्रचूरमात्रायां हीना-सस्योत्पादनं क्रियते । अस्य नगरस्य जलवायुः उष्णः, शुष्कश्च भवति । ग्रीष्मर्तौ अस्य नगरस्य तापमानं प्रायः ४६ डिग्रीसेल्सियसमात्रात्मकं भवति । शीतर्तौ च अस्य नगरस्य तापमानं प्रायः १४ डिग्रीसेल्सियसमात्रात्मकं भवति । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य वातावरणं सुखदं, शान्तं च भवति । अतः जनाः तस्मिन् काले पाली-नगरस्य भमणार्थं तत्र गच्छन्ति । पाली-नगरं ८ क्रमाङ्कस्य, १४ क्रमाङ्कस्य, ६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः पाली-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः पाली-नगरं गन्तुं शक्यते । पाली-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः पाली-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पाली-नगरे विमानस्थानकं नास्ति । जोधपुर-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं वर्तते । पाली-नगरात् इदं विमानस्थानकं ७२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पाली-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया पाली-नगरं प्राप्तुं शक्नुवन्ति ।

बीकानेर[सम्पादयतु]

बीकानेर-नगरं भारतस्य राजस्थान-राज्यस्य बीकानेर-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं राजस्थान-राज्यस्य उत्तर-पश्चिम-भागे स्थितम् अस्ति । नगरमिदं थार-मरुभूमेः मध्ये स्थितम् अस्ति । ई. स. १४८८ तमे वर्षे राठौर राजकुमार, राव बीकाजी इत्याख्याम् अस्य नगरस्य स्थापना कृता । अस्य नगरस्य संस्कृतिः, खाद्यव्यञ्जनानि, उत्सवाः, भव्यभवनानि, मूर्तयः, दुर्गाः च सम्पूर्णे भारते प्रसिद्धाः सन्ति । बीकानेर-नगरं भुजिया-खाद्यव्यञ्जनाय प्रसिद्धम् अस्ति । इदं खाद्यान्नं डुगरसिंह-राज्ञः शासनकाले आरब्धम् । पुरा इदं डुंगरशाही इति नाम्ना ज्ञायते स्म । नगरेस्मिन् प्रतिवर्षं बीकानेर-महोत्सवः आयोज्यते । अस्य नगरस्य जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । अस्मिन् उत्सवे ऊष्ट्राणां स्पर्धाः आयोज्यते । अयम् उत्सवः जूनागढ-दुर्गस्य प्राङ्गणे भवति । बीकानेर-नगरं ११ क्रमाङ्कस्य, १५ क्रमाङ्कस्य, ६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः बीकानेर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः बीकानेर-नगरं गन्तुं शक्यते । बीकानेर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः बीकानेर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् हावडा-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । बीकानेर-नगरे विमानस्थानकं नास्ति । जोधपुर-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं वर्तते । बीकानेर-नगरात् इदं विमानस्थानकं २५० किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण बीकानेर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया बीकानेर-नगरं प्राप्तुं शक्नुवन्ति ।