सदस्यः:1910282Pragathi.R/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दासकल्पः कर्मकरकल्पः सम्भूय समुत्थानं च[सम्पादयतु]

दासकल्पः[सम्पादयतु]

उदरदासवर्जमार्यप्राणमप्राप्तयवहारम् शूद्रम् विक्रयाधानं नयतस्स्वजनस्य द्वादशपणो दण्डः । वैश्यं द्विगुणः । क्षत्रियं त्रिगुणः । ब्रह्माणम् चतुर्गुणः । परजनस्य पूर्वमध्यमोत्तमवधा दण्डाः क्रेतुश्रोतणाम् च । मलेच्चानामदोषः प्रजां विक्रेतुमाधातुं वा । न त्वेवार्यस्य दासभावः । अथ वाससर्यमाधाय कुमबन्धनतूर्यानामापदि निष्क्रयं चाधिगम्य बालं साहाय्यदातारम् वा पूर्वम् निष्क्रीणीरन् ।सकृदात्माधाता निष्पतितः सीदेत् । द्विरन्येनाहितक्र: । सकृदुभौ परिविषयाभिमुखौ । वित्तापहारिणॊ वा दासस्यार्यभावमपहरतोSर्धदण्ड: । निष्पतितप्रेतव्यसनिनामाधाता मूल्यम् भजेत । प्रेतविण्मूत्रॊच्छिष्टग्राहिणा माहितस्य नग्नास्तापनं दण्डप्रेषणमतिकमणम् च स्त्रीनाम् मूल्यनाशकरम् ।

धात्रीपरिचारिकार्धसीतिकोपचारिकाणाम् च मोक्षकरम् । सिद्धिमुपचारकस्याभिप्रजातस्य अपक्रमणम् । धात्रीमाहितिकाम् वाकामां स्ववशामधिगच्छतः पूर्वस्साहसदण्ड: । परवशां मध्यमः । कन्यामाहितिकाम् वा स्वयमन्येन वा दूषयतः मूल्यनाशः शुल्कं तद्द्विगुनश्चः दण्डः । आत्मविकयिण: प्रजामार्या विद्दात् । आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायं । मूल्येन चार्यत्वं गच्छेत् । तेनोदरदासाहितकौ व्याख्यातौ । प्रक्षेपानुरूपश्चास्य निष्क्रयः । दण्डप्रणीत: कर्मणा दण्डमुपनयेत् । आर्यप्राणो ध्वजाहृतः कर्कामानुरूपेण मूल्यार्धेन वाविमुच्येत । ग्रहेजातयायागतलब्धकीतानामन्य्यतमम् दासमूनाष्टवर्ष विबन्धुमकामं नीचे कर्माणि विदेशे दासीं वा सगर्भामप्रतिविहितगर्भभर्मण्याम् विकयाधानं नयतः पुर्वस्साहसदण्ड: केत्रुश्रोत्रुणाम् च । दासमनुरूपेण निष्कयेणार्यमकुर्वतो द्वादश दण्डः । सम्रोधश्चाकारणात् । दासद्रव्यस्य ज्ञातयो दायादः । तेषां अभावे स्वामी । स्वामिनस्तस्यां दास्यां जातं स्मातृकं अदासं विद्दात् । गृहा चेत् कुतुम्ब्भ्हार्ठचिन्तनी माता भ्राता भगिनी चास्याः अदासास्स्युः । दासं दासीम् वा निष्क्रीय पुनर्विकयाधानं नयतो द्वादशपणो दण्डः अन्यत्र स्वयंवादिभ्यः इति दासकल्पः ।

कर्मकरस्य कर्मसम्बन्धमासन्ना विद्युः । यथासंभाषितं वेतनं लभेत । कर्मकाला अनुरूपम्सं भाषितवेतनं । कर्षकस्सस्यानां, गोपालकस्सर्पिषां वैदेहकः पण्यानामात्मना व्यवह्रुतानाम् , दशभागमसंभाषितवेतनो लभेत । संभाषितवेतनास्तु यथासंभाषितं । कारुषिल्पिकुशीलवचिकित्सकवाग्जीवन परिचारतादिरशाकारिकवर्गस्तु यथाऽन्यस्ताद्विधः कुर्यात् , यथा वा कुशलाः कल्पयेयुः , तथा वेतनं लभेत । साक्षिप्रत्ययमेव स्यात् । साक्षिणामभावे यतः कर्म ततोऽनुयुञ्जीत । वेतनादाने दशबन्धो दण्डः । शट्पणो वा । अपव्यमानेद्वादश दण्डः पञ्चबन्धो वा । नदीवेगज्वालास्तेन व्याट्टोपरुद्धम् सर्वस्वपुत्र दारात्मदानेना अर्तस्त्रातारमाहूय निर्स्तार्णः कुशलप्रदिष्टं वेतनं दद्यात् । तेन सर्वर्त्रातदानानुषया व्याख्याताः ।

श्लोकः[सम्पादयतु]

                                लभेत् पुम्क्ष्चली भोगं सङ्गम्मस्योपलिङ्गनात् ।
                                अतियाच्ञा तु जीयेत दोर्मत्याविनयेन वा ।।

इति धर्मस्थीये दासकर्मकरकल्पे दासकल्पः कर्मकरकल्पे स्वाम्यधिकारः त्रयोदशोऽव्ययः आदितस्सप्ततिरध्यायाः ।


कर्मकरकल्पः सम्भूय समुत्थानं'[सम्पादयतु]

ग्रहीत्व वेतनं कर्म अकुर्वतो भृतकस्य द्वादश दण्ड सम्रोधश्चकरणात् । अशत्तः कुत्सिते कर्मणि व्याधौ व्यसने वा अनुशयं लभेत परेण वा कारयितुं । तस्य व्ययं कर्मणा लभेत । भर्ता वा कारयन्नान्यस्त्वया कारयितव्यो मया वा नान्यस्य कर्तव्यं इत्यपरे । भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः । कर्मनिष्ठापने भर्तुर्रन्यत्र ग्रुहीतवेतनो नासकामः कुर्यात् । उपस्थितमकारयतः कृतमेव विद्यात् एत्याचार्याः । न इति कौटिल्यः । कृतस्य वेतनं, नाकृतस्यास्ति । स चेदल्पमपि कारयित्वा न कारयेत् । कृतमेव अस्य विद्यात् । देशकालातिपातनेन कर्मणामन्यथा करणे वा न सकामः कृतमनुमन्येत । सम्भाषितादधिकक्रियायाम् प्रयासान्मोधं कुर्यात् । तेन सङ्घभ्रुता व्याक्याताः । तेषामाधिस्सप्तरात्रमासीत । ततोsन्यमुप्स्श्तापयेत् । कर्मनिष्पाकं च । न चानिवेद्दा भर्तुस्स्यङ्घ: किञ्चित्परिहरेत्, अपनयेद्वा । तस्यानिक्रमे चतुर्विशतिपणो दण्डः । संगेन परिःरुतस्यार्धदण्डः इति भृतका अधिकारः । सङ्घभ्रुतास्सम्भूयसमुत्थातारो वा यथासम्भाषितम् वेतनं समं वा विभजेरन् । कर्षकवैदेहका वा सर्चपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दद्युः । पुरुषोपस्थाने समग्रमम्शम् दद्युः । संसिद्धे तु ध्रुतपण्ये सन्नस्य तदानीमेव प्रत्यंशं दद्युः । सामान्या हि पथि सिद्धिश्चासिद्धिश्च । प्रक्रान्ते तु कर्मणि स्वस्थास्यापक्रमतो द्वादशपणो दण्डः । न च प्राकाम्यमपक्रमणे ।

चोरं त्वभयपूर्व: कर्मणः प्रत्यंशेन ग्राहयेद्दद्यात् प्रत्यंशमभयं च । पुनस्स्तेये प्रवासनमन्यत्र गमनं च महापरोधे तु दूष्यचदाचरेत । याजकाः स्वप्रचारद्रव्यवर्ज यथासंभाषितं वेतनं समं वा विभजेरन् । अग्निष्टोमादिषु च क्रतुषु दीक्ष्णादूर्ध्व याजकस्सन्नः पञ्चममंशं लभेत । सोमविक्रयादूर्ध्व चातुर्थमंशं । मध्यमोपसदः प्रवर्ग्योद्वासनादूर्ध्व द्वित्तियमम्शम् । मयादूर्ध्वमर्धमम्शम् । सुत्ये प्रातस्सवनादूर्ध्वम् पादोनमम्शम् । माध्यन्दिनात् सवनादूर्ध्वम् समग्रमम्शम् लभेत । नीता हि दाक्षिणा भवन्ति । बृहस्पतिसवनवर्ज प्रतिसवनं हि दक्षिणा दीयते । तेनाहर्गणदक्षिणा व्याख्याताः । सन्नानामादशाहोरात्नाच्छेशभ्रुताः कर्म कुर्युः । अन्ये वा स्वप्रत्ययाः । कर्मण्यसमाप्ते तु यजमानस्सीदेत् , ॠत्विजः कर्म समाप्य्य दक्षिणाम् हरेयुः ॠसमाप्ते तु कर्मणि याज्यं याजकं वा त्यजनः पुर्वस्साहसदण्ड: ।

श्लोकः[सम्पादयतु]

                                अनाहिताग्निश्शतगुरयज्वा च सदस्त्रगुः ।
                                सुरापो व्रुशलीभर्ता ब्राह्महा गुरुतल्पगः ।।
                                असत्प्रतिग्रहे युक्तः स्तेनः कुत्सितयाजकः ।
                                अदोशस्त्यत्तुमन्योन्यं कर्मसङ्करनिक्ष्चयात् ।।

इति धर्मस्थीये दासकर्मकरकल्पे भृतकाधिकारः सम्भुयसमुत्थानम् चतुर्दशोऽध्यायः आदित एकसप्ततिः ।