सदस्यः:1910283 Vaibhavi S/प्रयोगपृष्ठम्
पुष्पोत्सवः
उत्सवाचरणं जगति सर्वत्र अस्ति एव। उत्सवप्रियः भारतदेशः। वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । सर्वे एव उत्सवाः जनानां ह्रुदयदस्य उल्लासस्य पारस्परिकस्नेहस्य च सूचकाः एव सन्ति। विविधेषु पर्वसु कतिपयानि सांस्कृतिक पर्वाणि सन्ति। यानि अस्माकं सांस्कृतिक पर्वाणि कथ्यन्ते। अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशुत्स्वः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्स्वः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सव इति। अयं 'फुलवालों की सैर' इति नाम्ना प्रसिद्धः अस्ति। भारतस्य राजधानी देहल्याः पुष्पोत्सवः प्रसिद्धः। अयम् उत्सवः मुगल बादशाह शाहजहाँ सभाजितः।
देहल्याः मेहरौलीक्षेत्रे कार्त्तिकपूर्वार्धमासे अस्य आयोजनं भवति। देहल्याः जनाः चान्दनी-चौक् प्रति मेहरौलीक्षेत्रे पुष्पाणि वहति। ते द्वात्रिंशत् सहस्रमान चरति। अस्मिन् अवसरे तत्र बहुविधानि पुष्पाणि दृश्यन्ते। परं प्रमुखम् आकर्षणं तु अस्ति पुष्पनिर्मितानि व्यजनानि। जनाः एतानि पुष्पव्यजनानि योगमायामन्दिरे बख्तियारकाकी इत्यस्य समाधिस्थले च अर्पयन्ति। केचन पाटलपुष्पैः निर्मितानि, केचन कर्णिकारपुष्पैः, अन्ये जपाकुसुमैः, अपरे मल्लिकापुष्पैः, इतरे च गेन्दापुष्पैः निर्मितानि व्यजनानि नयन्ति।
अयम् उत्सवाः दिवसत्रयं यावत् प्रचलति। पूजार्थं पुष्पाणि अत्यन्तापेक्षितानि। देवाः पुष्पाणि अभिलषन्ति। षोडशोपचारपूजासमये पुष्पार्चना विशिष्टा इति कथ्यन्ते। पूजापुष्णाणि शुद्धानि भवेयुः दलानि च पूर्णानि भवेयुः। एतेषु दिवसेषु पतङ्गानाम् उड्डयनम्, विविधाः क्रीडाः मल्लयुद्धं चापि प्रचलति।
विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः जनान् आनन्दयति। मध्ये इयं परम्पतरा स्थगिता आसीत्। परं स्वतन्त्रताप्राप्तेः पश्चात् इयं मनोहारिणी परम्परा पुनः समारब्धा। पुष्पोत्सवः अध्यापि सोल्लासं सोत्साहं च प्रचलति। नवीनजीवितसाहचर्ये इतरेषु उत्सवेषु इव अस्मिन् उस्तवे अपि सर्वेषां भागस्वीकरणम् अस्तियेव।