सदस्यः:2010468sanjana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

'कन्नड' इति शब्द: संपूर्ण संस्कृत्या प्रतिबिम्ब: असित् ।  कन्नड भाषा स्वयम् अभियोः माध्यमः भवति । अतः अस्माकम्  संस्कृत्याम् उत्तम अंशम च अस्ति । सामान्यतः यदा वयम् कन्नड भाषायाम् वार्तालापम् कुर्मः तदा कन्नड भाषा एव प्रधानः भवति। अस्माभिः विविध संस्कृतीनाम् मध्ये सदृशताम् दृश्यन्ते । एतत् समये अस्माकम् भाषा एव अद्वितीय अनन्यताम् नियीजन् करोति। किंतु कर्नाटक राज्ये एवं वयम् विविध पद्धतीनाम पश्यति । अतः भाषा एव संस्कृत्याः विशिष्टाम्श: इति कल्पनाम् न कुयी । कर्नाटक राज्ये जना: कन्नड भाषायाम् वार्तालापम करोति ! कन्नडिगा: 'द्राविड' इति जातीय समूहे अन्यतमः | कन्नड भाषा तथा कन्नडिग जनानाम इतिहास: द्विसहस्र वर्षानाम अधिकम् अस्ति। कर्नाटकस्य इतिहास, संस्कृती, विकासः अनेक राजवंशस्य साम्राज्यस्य योगदानमासी ।

अस्य भाषायाः मूलम् भारतदेशस्य विविध प्रदेशे अस्ति इति इतिद्यसकाराणाम् वचनमस्ति । वङ्ग देशस्य सेना साम्राजो, मिथिला नगरस्य साम्राज्ये, कलिङ्ग देशस्य गङ्गा साम्राज्ये, मान्यखेतस्थ राष्ट्रकूट वंशे, देवानाम यादवकुले च कन्नडभाषायां उत्पत्थिः अभवत् इति मन्ये।


अस्मिन् सन्दर्भे साहित्य सङ्गीत-नृत्य - नाटक-विज्ञानादिषु क्षेत्रेषु विख्यातेभ्यः सर्वकारेण प्रशस्तयः प्रदीयन्ते प्रशस्तिरियं 'कर्नाटकराज्योत्सवप्रशस्तिः इति विख्याता वर्तते । कर्नाटके सर्वत्र ध्वजारोहणं भुवनेश्वरीपूजादिकं च कृत्वा गौरवम् अर्पयन्ति । अनेन सर्वेषां मनसि वयं सर्वे कर्नाटकीयाः इति भावना उत्पद्यते ।

कर्नाटिकराज्ये नवम्बर् मासस्य प्रथमदिवसः कर्नाटकराज्योत्सवः इति आचर्यते । स्वातन्त्र्यानन्तरं भारतस्य प्रदेशाः भाषादृष्ट्या विभक्ताः । क्रि. श. 1973 तमे वर्षे नवम्बर् मासस्य प्रथमे दिने 'कर्नाटकराज्यम्' इति अधिकृतघोषणा अभूत् । पूर्वं कर्नाटकराज्यस्य मैसूरुराज्यमिति नाम आसीत् । भाषाप्रदेशविभागानन्तरं कर्नाटकराज्यमिति प्रसिद्धम् अभवत् । अस्य स्मरणार्थं सर्वे कर्नाटकप्रदेशीयाः आनन्देन उत्सवम् इमम् आचरन्ति ।


कर्नाटकराज्यमिदं सर्वक्षेत्रेषु स्वीययोगदानेन प्रथितमस्तीति विदितमेव समेष विदुषाम् । भारतदेशेऽस्मिन् स्वातन्त्र्योपलब्धिपूर्वं राजानः मठाधिपतयश्च संस्कृतस्य संस्कृतेश्च समभिवर्धने बद्धादरा आसन् । यदा सर्वकारीया प्राशासनिकी व्यवस्था समभवत्, तदनन्तरं संस्कृतस्याध्ययनेऽध्यापने संशोधनादौ च सर्वकारस्यैव दायित्वं सम्पन्नम् । नैकेषु राज्येषु संस्कृताध्ययनमध्यापनं च नास्तीति सदुःखं निवेदयामः । यदि संस्कृतभाषायाः, तत्र विद्यमानानां रामायण-भारत भागवतादिग्रन्थानामध्ययनं न विधीयते, तर्हि सनातना भारतीयसंस्कृतिरविज्ञातैव भवति । अतः केन्द्रसर्वकारेण तत्तद्राज्यसर्वकारीयमन्त्रिभिश्च संस्कृतभाषाध्ययने प्राचीनसंस्कृतिसंरक्षणे च बद्धादरैर्भाव्यम् । महता प्रमोदेनेदं निवेदयाम कर्नाटकेऽस्मिन् मठाधिपतयः संस्कृतस्य संस्कृतेश्च समभिवर्धने कटिबद्धा सन्तीति ।

कर्नाटकविद्वत्समाजे कीदृशा विद्वत्प्रवरा आसन्, कीदृशं च तेषां वैदुष्यम्, कीदृशाश्च स्वतन्त्रा ग्रन्थाः निर्मिता इत्यस्मिन् विषये जिज्ञासूनां कृते यथावत्स्वरूपपरिचयात्मकस्य ग्रन्थस्याऽवश्यकताऽऽसीदिति मन्यामहे । यद्यपि कवीनां वैदुष्यपरिचायका: ग्रन्थाः विरला आसन्, तथापि न्याय-वेदान्तादि शास्त्रेषु कृतभूरिपरिश्रमाणां विदुषां सङ्क्षेपेण स्वरूपपरिचायक: संस्कृतभाषा निबद्धः ग्रन्थः नास्मदृष्टिगोचर आसीत् । अस्मत्प्रियच्छात्रेण नागसम्पिगे आनन्दतीर्थाचार्येण रचितोऽयं प्रबन्धः संस्कृतज्ञानां शास्त्रज्ञानां च कर्नाटक विद्वत्समाजविभवपरिचायकः, ज्ञानार्जने उद्बोधकश्च भवेदित्याशास्महे ।