सामग्री पर जाएँ

सदस्यः:2030995sahithiallu/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

https://commons.wikimedia.org/wiki/File:Triambakeshwartemple.jpg

                                                               सिद्धिक्षेत्रम्''Italic text''
triambakeshwar temple

भारतदेशस्य उत्तरभागे स्थितं भूभागं 'आर्यावर्तः' इति कथयन्ति । तस्मिन् भूभागे काशी, अयोध्या, मथुरा, बदरी, केदारादीनि च पुण्यक्षेत्राणि विराजन्ते । दक्षिणभारते अस्माकं कर्नाटकराज्ये अपि गोकर्णः, उडुपि, शङ्गेरी, धर्मस्थल, बसवकल्याणादीनि पवित्रस्थानानि विराजन्ते । एतादृशपुण्यक्षेत्रेषु 'आदिचुञ्चनगिरिः' अपि प्राचीन तथा सिद्धिक्षेत्रमिति प्रथितमस्ति ।

प्राचीनपवित्रक्षेत्रमिदं कर्णाटकराज्ये मण्ड्यमण्डले नागमङ्गलपत्तनस्य समीपे विराजते । उन्नतगिरियुक्तं क्षेत्रमिदं चन्दनादिवृक्षविशेषैः परिवृते परिसरे विराजते । अत्र वने मयूरा, हरिणा, शशादयः प्राणिपक्षिण: इतस्ततः सदा अटन्तः प्राचीनऋष्याश्रमं स्मारयन्ति । इदं परिगणय्य कर्नाटकसर्वकारेण सुन्दरचेतोहारि वनमिदं मयूरवनम्' इति नामनिर्देशनम् कृतमस्ति । अत्र वनस्पतयः सुगन्धपुष्पलताः, गगनचुम्बिवृक्षाः, शुकपिककपोतादयः पक्षिणश्च दृश्यन्ते । अतीव रमणीयेऽस्मिन् प्रदेशे अनेके ऋषयः, साधकाश्च तपः कृत्वा सिद्धि प्राप्तवन्तः । अत एव क्षेत्रमिदं "सिद्धिक्षेत्रम्' इति प्रसिद्धमस्ति ।

क्षेत्रमिदं पुराणप्रसिद्धमपि भवति। एकदा लयाधिकारी परशिवः सिद्धयोगरूपधारी भूत्वा 'चुञ्चनकट्टे' इति प्रदेशम् आगतः । दक्षिणगङ्गा इति प्रसिद्धे कावेरीतटे न प्रारभत। तदा लङ्काधीश्वरेण रावणेनापहृतां सीतां अन्वेष्यमाणौ रामलक्ष्मणौ तत्रैवागतव शैवक्षेत्रमिति । तौ अवलोक्य सः साक्षात् परशिवः' इति ज्ञात्वा शिवस्तुति अकुरुताम् । तयोः तम् स्तुत्या सन्तुष्टः परशिवः युवयोः इष्टार्थसिद्धिः भवतु' इत्यनुगृह्य तपः तप्तुं चुञ्चनगिरिक्षेत्रमिति अगच्छत् । तस्य तपसः प्रभावेण इदं क्षेत्रं प्रसिद्धम् अभवत् I

अस्य क्षेत्रस्य विषये कथामेकां कथयन्ति जनपदाः । यदा परशिवः चुञ्चनगिरिमागन्द अरण्ये ध्यानमग्नोऽसीत् तदा तत्र चुञ्चुः कञ्चश्चेति द्वावसुरी निवसन्तौ आस्ताम I एतयो: असुरयोः हिंसामसहमानाः शिष्टजना: ऋषिगणाश्च परमेश्वरं भक्त्या प्रार्थितवन्तः । तदा स सिद्धयोगी स्वस्य दैवीशक्त्या तौ असुरौ जघान। एवमादौ चुञ्चासुरस्व निवासात् क्षेत्रमिदं 'आदिचुञ्चनगिरिः' इति प्रथितमभवत् ।

अत्र अनेके देवालयाः शोभन्ते । तेषु गङ्गाधरेश्वरः कत्तलेसोमेश्वरः, मल्लेश्वर चन्द्रमौलीश्वरः, कालभैरवेश्वरः, मालाम्बिकादेवी इत्यादयः प्रमुखाः । अस्य क्षेत्रस्य प्रधानभूतो देवस्तु गङ्गाधरेश्वरः । मन्दिरमिदं शिलामयं भवति। अस्मिन् मन्दिरे अष्टात्रिंशात् शिलास्तम्भाः सन्ति। एकैकोऽपि शिल्पकलावैभवेन विराजते । प्रतिसंवत्सरमत्र रथोत्सवः वैभवेन प्रचलति । अस्मिन्नवसरे सहस्रशः भक्ताः सम्मिलन्ति ।

कालभैरवेश्वरदेवालयोऽपि अत्रैव विराजते। पुरातनमन्दिरमिदम् इतः पूर्व जीर्णावस्थायामासीत् । श्रीबालगङ्गाधरनाथमहास्वामिनां परिश्रमेण बृहन्मन्दिरं निर्मितमस्ति। नूतनमन्दिरमिदं विशाल विश्वविख्यातञ्च I गर्भगृहे विराजमानो कालभैरवेश्वरविग्रहस्तु मनोहर: भवति I

प्रतिदिनं सहस्राधिका: भक्ताः अत्रागत्य इष्टार्थफलप्राप्त्यर्थं प्रार्थयन्ति । अत्र आगताना भक्तानां सर्वेषां सदा भोजनव्यवस्था भवति । कालभैरवेश्वरस्य दक्षिणे पार्श्वे मालविकादेव्याः मूर्तिः अस्ति । ग्रामीणजनाः इमो देवीं मालम्मा' इति नाम्ना सम्बोधयन्ति। अस्य क्षेत्रस्य मठस्य शिक्षणसंस्थाः अपि कर्नाटकराज्ये अनेकग्रामेषु नगरेषु च विद्यन्ते । तेषु बेल्लूरु इति स्थले स्थितः वैद्यकीयमहाविद्यालयः, बेंगलूरु, चिकमगलूरु, चिकबल्लापुर इति नगरेषु स्थिताः तान्त्रिकमहाविद्यालयाः च प्रसिद्धाः सन्ति । एतान् अतिरिच्य ग्रामीणप्रदेशेष्वपि विविधविद्यासंस्थाः वर्तन्ते । संस्कृतस्य प्रसारार्थं प्रचारार्थं च श्रीमठद्वारा समीचीनतया कार्य प्रचलति । अत्र श्री कालभैरवेश्वरसंस्कृतवेद-आगममहाविद्यालयः, हासने नगरे श्री आदिचुञ्चनगिरिसंस्कृतमहाविद्यालयश्च अस्ति। एवं संस्कृतसंरक्षणपोषणार्थं एतैः स्वामिभिः प्रदत्तं योगदानम् अद्वितीयमस्ति ।


                                                                त्र्यम्बकेश्वरः

द्वादश ज्योतिर्लिङ्गेषु अन्यतमं त्र्यम्बकेश्वरमन्दिरम् इदानीन्तनमहाराष्ट्रराज्ये अस्ति । गोदावरीनद्याः तीरे विद्यमानं प्राचीनं दिव्यक्षेत्रम् एतत् । एतत् क्षेत्रं “पश्चिमकाशी” इत्यपि उच्यते । इदानीम् एतत्क्षेत्रं “नासिक्” नाम्ना प्रसिद्धम् अस्ति । रामस्य आदेशानुगुणं लक्ष्मणः शूर्पणखायाः कर्णौ नासिकां च अत्रैव अकर्तयत् । तत् कारणात् अस्य स्थानस्य नाम “नासिक” इति सञ्जातम् । एतत् क्षेत्रं नव शिखरैः आवृतम् अस्ति । तस्मात् कारणात् “नवशिख”नाम्ना निर्दिश्यते स्म । तदेव कालान्तरे “नासिक” इति सञ्जातं स्यात् इत्यपि उच्यते । नासिकक्षेत्रं पञ्चवटीक्षेत्रं च मिलित्वा नासिकनाम्ना निर्दिश्यते । एतयोः द्वयोः स्थानयोः मध्ये पुण्यसलिला गोदावरी प्रवहति । गोदावर्याः दक्षिणतीरे नासिकक्षेत्रम् अस्ति, उत्तरतीरे च पञ्चवटीक्षेत्रम् । अत्र द्वयोः अपि स्थानयोः असंख्यानि मन्दिराणि सन्ति ।

जब्बलपुरस्य समीपे विद्यमाने भरतपुरे कृते उत्खनने क्रिस्तपूर्वसम्बद्धः कश्चन ब्रह्मस्तूपः प्राप्तः । तत्र अपि नासिकक्षेत्रस्य उल्लेखः अस्ति । क्रि श १५०तमे वर्षे भारतम् आगतः ईजिप्तस्य प्रवासी “टालेमी”नामकः अपि प्रसिद्धं धार्मिककेन्द्रं नासिकक्षेत्रम् उल्लिखितवान् अस्ति । जिनप्रभसूरिनामकस्य जैनलेखकस्य ग्रन्थे अपि नासिकक्षेत्रस्य उल्लेखः अस्ति । नासिकक्षेत्रे जैनमतस्य अष्टमः तीर्थङ्करः चन्द्रप्रभस्वामी वसति स्म इत्यपि उल्लिखति सः । षष्ठे शतके नासिकक्षेत्रे चालुक्यानांशासनम् आसीत् । अनन्तरं राथोडानां शासनम् आरब्धम् । तदनन्तरं त्रयोदशशतकस्य अन्तिमभागपर्यन्तं देवगिरिस्थानां यादवानां शासनम् आसीत् अत्र । चतुर्दशशतकस्य आरम्भकाले सुल्तानां शासनम् आरब्धम् । १५३०तमे वर्षे बहुमनिसुल्तानस्य वशं गतम् एतत् क्षेत्रम् । षोडशे शतके अहमदनगरस्य सुल्तानस्य शासनम् आरब्धम् । अनन्तरं मोगलजनानां शासनगतं जातम् एतत् नासिकक्षेत्रम् । ते अस्य क्षेत्रस्य नाम एव “गुल्शनाबाद्” इति परिवर्तितवन्तः । भाग्यवशात् तत् नाम प्रसिद्धं न जातम् । मोगलजनाः अत्रत्यानि मन्दिराणि नाशितवन्तः । १६८०तमे वर्षे औरङ्गजेबः अत्रत्यानि २५ मन्दिराणि नाशितवान् । तेषां मन्दिराणाम् अवशेषैः एव औरङ्गदरवाजं, दिल्लीदरवाजं, जुम्मामस्जिदम् इत्यादीनि निर्मितानि । सप्तदशशतकस्य आरम्भे मराठावीराः एतत् क्षेत्रं वशीकृतवन्तः ।

प्राचीनकालादारभ्य अपि एतत् क्षेत्रं प्रसिद्धं वाणिज्यकेन्द्रम् आसीत् । पेश्वेजनानां काले अस्य क्षेत्रस्य महता प्रमाणेन अभिवृद्धिः जाता । पेश्वेजनाः अत्र बहूनां सेतूनां, कासाराणां, वसतिप्रदेशानां च निर्माणं कृतवन्तः । एतत् नासिकक्षेत्रं पञ्चमहाक्षेत्रेषु अन्यतमम् । अन्यानि च – (प्रयागः, पुष्करं, नैमिषारण्यं,गया च ) “नासिकं च प्रयागं च पुष्करं नैमिषं तथा । पञ्चमं च गयाक्षेत्रं षष्ठं कुत्र न विद्यते ॥“ इति । REFERENCES:- https://sathvishayam.wordpress.com/2017/12/29/trayambakeswar-temple-sanskrit-essay/