सदस्यः:2230909dyuvan/पोम्पेई लक्ष्मी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पोम्पेई लक्ष्मी हस्तिदन्तस्य प्रतिमा या पोम्पेई इति रोमकनगरस्य भग्नावशेषेषु प्राप्ता आसीत्, यत् क्रिस्त ७९ संवत्सरे वेसुवियस् पर्वतस्य विस्फोटेन नष्टं अभवत् । इटालियन् विद्वान् अमेदीओ माइउरी इत्यनेन १९३८ संवत्सरे एषा मूर्तिः उत्खनिता । [१] एषा मूर्तिः प्रथम क्रिस्त शताब्द्यां कृता इति अभिप्रायः । [२] एषा प्रतिमा स्त्रीसौन्दर्यस्य, उर्वरतायाः च भारतीय परम्परायाः देवी इति चिन्तितम् अस्ति । सम्भवतः एतत् शिल्पं कॊपि दर्पणस्य भागः आसीत् । [२] एतत् यक्षिन्याः मूर्तिः प्रथमशताब्द्याः भारतस्य रोकामस्य च वाणिज्यव्यापारस्य प्रमाणं अस्ति ।

पुरा एतत् देवी लक्ष्म्याः प्रतिमा इति चिन्तितम् आसीत् या उर्वरता, सौन्दर्यस्य, धनस्य च देवी या सनातनीभिः बौद्धैः जैनैः च पूज्यते । [३] [४] तथापि, मूर्तिस्य दृश्यमानस्य जननाङ्गस्य कारणात् एषा प्राकृतिक प्रजननशक्तिं धारयती यक्षिणी अस्ति इति मन्तव्यम् । सम्भवतः एषा शास्त्रीय यवन-रोमकानां विनस् देव्याः तथा भारतीय श्री लक्ष्मी देव्याः युग्मा च. [१]

अधुना एषा मूर्तिः नेपल्स् नगरस्य राष्ट्रिय पुरातत्वसङ्ग्रहालये अस्ति | [५]

  1. १.० १.१ An Indian Statuette from Pompeii. pp. 166–180.  उद्धरणे दोषः : <ref> अमान्य टैग है; "Ancona" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  2. २.० २.१ Abstracts of Articles. 1939. pp. 214–215. 
  3. Pompeii: The Life of a Roman Town. 2010. p. 24. 
  4. Images of Indian Goddesses: Myths, Meanings, and Models. 2003. p. 57. 
  5. "Lakshmi". Museo Archeologico Napoli. आह्रियत 4 February 2017.