सदस्यः:Aniruddh hs

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचय[सम्पादयतु]

अनिरुद्धो नाम युवा छात्रः अस्मि । दक्षिण भारते कर्नाटक राज्ये, बेङ्गळूरु नाम नगर्याम वसामि । अहम् इदानीम् क्रिस्त माहाविद्यालये विज्ञानम् पठामि । अयम् मम प्रथमः वयक्तिकः आत्मपरिचयः ।

अनिरुद्धः एच्.एस्
जन्म बेङ्गळूरु
देशीयता भारत
शिक्षणम् क्रिस्त महाविद्यालय

बाल्यः[सम्पादयतु]

द्विसहस्रतमे वर्षे मम जन्म अबूत् बॆङ्गळूरु नगरस्य जयनगर क्षेत्रस्य एकस्मिन् चिकित्सालये । मम माता विद्या बॆङ्गळूरु नगरे एव जन्म प्राप्य विज्ञान पदवीम् अधीत्य विवाहात् पश्चात कुतुम्बिनी असति । मम पिता सुदर्शनः बॆङ्गळूरु नगरेव जन्म प्राप्य दूरसम्पर्काभियन्त्रशास्त्रे स्नातक पदवीम् प्राप्य सङ्गणक क्षेत्रे कार्यम् कृत्व बहुवर्षाणि संप्रति इतिहास संशोधकरूपेण कार्यम् करोति । मम एका अनुजा अस्ति, सा दशम कक्ष्यायाः छात्रा । मम प्राथमिक शिक्षा श्री अरविन्द स्मारक पाठशालायाम् अभवत् । पदवी पूर्वमध्ययनं राष्ट्रीय विद्यालये अभवत् । बाल्याद् आरभ्य उड्डयन यन्त्राणि निर्माणि उत्साही अासम् । अस्माकम् गृहस्य मात्रभाषा कन्नडम् । मम परिवार संस्कृत क्षेत्रे अासक्ताः । वयम् संस्कृत-भारती संघटने संस्कृतम् अधीतवन्तः । गृहे कदाचन संस्कृत भाषया एव वद्मः ।

अभिरुचयः[सम्पादयतु]

अहम् अषटोत्तर द्विसहस्र तमात् वर्षात् मृदङ्गवाद्यम् अधीयमानोऽस्मि । मम गुरोर्नाम विद्वान ह.स. सुधीन्ध्रः इति । अहम् प्राथमिक सङ्गीतपरीक्षा पूरयित्वा प्रौढपरीक्षार्थम् सिद्धताम् कुर्वन् अस्मि । अनुकालम् अहम् संगीत कार्यक्रमेषु भागम् वहामि ।

संगीतम् विहाय उड्डयन यन्त्र निर्मातुम् अासक्तिः अस्ति । एतेभ्यः वर्षेभ्यः नयन्तरम् प्रयोगान् कुर्वन् साफल्यानि वैफल्यानि च प्राप्य डयन यन्त्र तन्त्रम् स्पष्ठम् अधीतवान् अस्मि ।

अधोस्ति चित्रम् मया निर्मितस्य विमानयान प्रतिकृतेः । एतत विमानम् रेडियो किरणैः दुरादेव नियन्त्रमाणम् ।

विमानयान प्रतिकृतिः





पञ्चादश अधिक द्विसहस्र वर्षे अहम् गूगल् विज्ञान स्पर्धायाम् पर्युपासम् कृतवान् । चलन शक्तिम् उपयुक्त्व विद्युत् उत्पादक यन्त्रम् निर्मितवान् । केचन स्फटिकानि सन्ति, यानि तेशाम व्यास सङ्कोच कारणात् लघु प्रमाणस्य विद्युतः उत्पादयितुम् समर्थानि । अयम् गुणः केशुचन एव स्फटिक जातिशु वर्तते । एतम् गुणं उपयुज्य किमर्थम वयम् विद्युज्जनकम् न कुर्मः इति मम प्रश्नः । एषः प्रश्नस्य उत्तरम् अन्वेशन समये अवगतम्, एतत् यन्त्रम् समर्थः नास्ति । अपिच अहम् काचन शस्त्रविद्यानि स्वरक्षाकला च अधीतानि ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Aniruddh_hs&oldid=441558" इत्यस्माद् प्रतिप्राप्तम्