सदस्यः:Anushka02
कविः नारायणभट्टत्तिरिः
[सम्पादयतु][[चित्रम्:|thumb|right|200px|]] नारायणभट्टतिरिः सुसंस्कारयुते कुटुम्बे जातः। तदीयं बाल्याष्ययनं गृहे एव जातम् । ततः सः अच्युतपिशीरिटेः शिष्यः सन् अध्ययनं कुर्वन् उत्तमां विद्वत्तां सम्पादितवान्। अध्ययनं समाप्या गृहम् आगतस्य तस्य विवाहः जातः। सुन्दरी तरूनी तेन पत्नीत्वेन प्राप्ता। त्स्यां सः नितराम् अनुरक्तः जातः। अतः स्दा सः तस्याः पुरतः पृष्टतः च तिष्टन् आचारे ग्रन्थावलोकने वा अनासक्तः जातः। 'एतादृशः मोहः न श्रेयसे' इति पत्न्या बहुधा बोधितः अपि सः विवेकं न प्राप्तवान्।
कदाचित् शिष्यस्य गृहम् आगतः अच्युत पिशारिटिः शिष्यस्य दुरव्स्थां दृष्ट्वा विषादेव अवद्त्-"हे भगवान् । आचारभ्रष्टः एषः, न जाने, कां दुर्गतिं प्राप्नुध्यात् इति।" इति । एतत् श्रुतवता नारायणाभट्टतिरिणा झटिति महान् विषादः प्राप्तः।'अहं गुरोः खेदस्य कारणं जातः' इति चिन्तयन् सः महान्तं पश्चात्तापम् अन्वभवत्। गुरोः पादौ गृहीत्वा क्षमायाचनां कृत्वा सः मार्गदर्शनं प्रार्थितवान्।
तदा गुरूः - "वत्सा । अलं विषादेन । गतस्य विषये अधिकचिन्ता न करणीया। अध्ययनम् अध्यापनं च तव कर्तव्यम्। तत्र आदरवान् भव। कर्तव्ये व्युतिं मा आचर" इति अबोधयत्। ततः आरभ्य रनारायणभट्टत्तिरिः अध्ययनाध्यापनादिषु एव मग्नः जातः
कालः अतीतः। कदाचित अच्युतवर्यः पार्श्ववायुग्रस्तः जातः। एतस्मात् नारायणभट्टतिरेः चिन्ता प्रवृद्धा। तदा तस्य गृहम् आगतः 'रामानुजन् एकतुच्चन् नामकः भागवताग्रेसरः अवदत्- "श्रीकृष्णस्तुतिरूप: ग्रन्थः रच्यताम्। तस्मात् इष्टं भवेत्" इति।
एतत् अङ्गिकृतवान् नारायणभट्टत्तिरिः गुरूवायूरूमन्दिरे उपवेश्य भक्ताया भगवन्तं स्तुवन् दशाध्यायात्मकं 'नारायणीयम्' इत्येतं ग्रन्थम् अरचयत्। यथा यथा सः श्लोकान् रचयित्वा अगायत् तथा तथा तस्य अनुजः तान् श्लोकान् ग्रन्थरूपं परिकल्पितवान्। भगवन्तं स्तुवन् एव नारायणभट्टत्तिरिः अन्तिमं श्लोकं रचयित्वा भगवति एव लीनः जातः।
तेन रचितः सः 'नारायणीयम्' - ग्रन्थः अध्यापि केरलराज्ये गृहे गीयते भक्त्या।