सदस्यः:Anushka02/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                            तुलामानपौतवम्


पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत् । धान्यमाषा दश सुवर्णमाषकाः पञ्च वा गुञ्चाः। ते षोडश सुवर्णः कर्षो वा । चतुष्कर्षं पलम्। अष्टाशीतिर्गौरसर्षपा रूप्यमाषकः । ते षोडश धरणम्, शौम्ब्यानि वा विंशतिः। विंशतितण्डुलं वज्रधरणम्। अर्धमाषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः अष्टौ सुवर्णाः दश विंशतिः त्रिशत् चत्वारिंशत् शतमिति। तेन धरणानि व्याख्यातानि। प्रतिमानान्ययोमयानि मागधमेकलशैलमयानि यानि वा नोदकप्रदेहाभ्यां वृद्धिं गच्छेयुरूष्णेन वा ह्नासम्। षडङ्गुलादूर्ध्वमष्टाङ्गुलोत्तरा दश तुलाः कारयेत् लोहपलादूर्ध्वमेकपलोत्तराः, यन्त्रं उभयतः शिक्यं वा। पञ्चत्रिंशत्पललोहां द्विसप्तति अङ्गुलायामां समवृत्तां कारयेत्। ततःकर्षोत्तरं पलं पलोत्तरं दशपलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत्। तत आशताद्दशोत्तरं कारयेत्। अक्षेषु नान्दीपिनद्धं कारयेत्। द्विगुणलोहां तुलामतःषण्णवत्यञ्गुलायामां पारिमाणीं कारयेत्। त्स्याः शतपदादूर्ध्वं विंशतिः पञ्चाशत् शतमिति पदानि कारयेत्। विंशतितौलिको भारः। दशधरणिकं पलम्। तत्पलशतमायमानी। पञ्चलावरा व्यावहारिकी भाजन्यन्तःपुरभाजनी च। तासामर्धधरणावरं पलम्, द्विपलावरमुत्तरलोहम्, षडङ्गुलावराश्वायामाः पूर्वयोः पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम्। काष्टतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधिष्टिता। काष्टपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम् । एवं प्रदेशो बह्वाल्पयोः। इति तुलाप्रतिमानं व्याख्यातम्। अथ धामाषाद्विपलशतं द्रोणमायमानम्। सप्ताशीतिपलशतमर्धपलं च व्यावहारिकम्, पञ्चसप्ततिपलशतं भाजनीयम्, द्विषष्टिपलशतमर्धपलं चान्तःपुरभाजनीयम्। तेषामाढकप्रस्थकुडुबाश्वरतुर्भागावराः। षोडशद्रोणा खारी । विंशतिद्रोणिक कुम्भः। कुम्भैर्दशमिर्वहः। शुष्कसारदारूमयं समं चतुर्भागशिखं, मानं कारयेद्, अन्तःशिखं वा। रसस्य तु सुरायाः पुष्पफलयोस्तुषाङ्गाराणां सुधायाश्व द्विगुणोत्तरा वृद्धिः। सपादपणो द्रोणमूल्यम्, आढकस्य पादोनः, प्ण्माषकाः प्रस्थस्य, माषकः कुडुबस्य। द्विगुणं रसादीनां मानमूल्यम्। विंशतिपणाः प्रतिमानस्य। तुलामूल्यं। चतुर्माषिकं प्रातिवेधनिकं कारयेत्। अप्रतिविद्धस्यात्ययः सपादः सप्तविंशतिपणः। प्रतिवेधनिकं काकणीकमहरहः पौतवाध्यक्षाय दध्युः। द्वात्रिंशद्भगस्तप्तव्याजी सर्पिषः, चतुषष्टिभागस्तैलस्य। पञ्चाशद्भागो मानस्त्रावो द्रवाणाम्।

 कुडुबार्धचतुरष्टभागानि मानानि कारयेत्।
     कुडुबाश्वतुरशीतिर्वारकः सर्पिषो मतः ।
     चतुःषष्टिस्तु तैलस्य पादश्व घटिकानयोः॥