सदस्यः:Bharathi.achaar/प्रयोगपृष्ठम्1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

फलकम्:Distinguish

आल्फ्रेड् नोबेल्
Alfred Nobel3.jpg
Alfred Nobel
जन्म Alfred Bernhard Nobel
(१८३३-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-२१)२१ १८३३
Stockholm, Sweden, Sweden–Norway
मृत्युः १० १८९६(१८९६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम �-१०) (आयुः ६३)
Sanremo, Italy
शान्तिस्थानम् Norra begravningsplatsen, Stockholm, Sweden
५९°२१′२४.५२″ उत्तरदिक् १८°१′९.४३″ पूर्वदिक् / 59.3568111°उत्तरदिक् 18.0192861°पूर्वदिक् / ५९.३५६८१११; १८.०१९२८६१
वृत्तिः Chemist, engineer, innovator, armaments manufacturer and inventor
कृते प्रसिद्धः Invention of dynamite, Nobel Prize
हस्ताक्षरम्
Alfred Nobel Signature.svg
आल्फ्रेड् नोबेल्

ज्ञ्

बहवः विज्ञानिनः स्वप्रतिभया नवनवनि वस्तूनि आविष्कृत्य जगति गौरवम् प्राप्नुवन्। अतिक्लॆशेन साध्यमपि कार्यं यदि ऎकाग्र्यॆण क्रियतॆ तर्हि यशः प्राप्तुम् शक्यतॆ इति विज्ञानिनां चरितॆन ज्ञायतॆ। आल्फ़्रॆड् नॊबॆल् महॊदयस्य अयं जीवनपरिचयः ऎतस्य उत्तमम् उदाहरणम्। कदाचित् क्रीडन्तं, हसन्तं स्वबालकं दृष्ट्वा सन्तुष्टा माता अवदत्-"रॆ! राबर्ट्, लुग्विग्, पुत्रौ! आगच्छ्ताम्। अनुजं पश्यताम्" ईति। क्षणादॆव पार्श्र्वप्रकॊष्टात् भयङ्करः आस्फॊटनशब्दः श्रुतः। तॆन च क्रीडतॊ बालकस्य नॆत्राभ्यां भयात् अश्रूणि निःसृतानि। खिन्ना माता "इतः परं नैतादृशं प्रयॊगं गृहॆ करॊतु" इति पतिम् आदिशत्। पत्न्याः आक्रॊशॆण, स्वप्रयॊगालयस्य च विनाशॆन दुःखितः इम्यानुयल् स्वीयं स्वीडन् दॆशं परित्यज्य रष्यादॆशम् आगच्छत्। इम्यानुयल् महॊदयस्य पत्नी आण्ड्रिटा। एतयॊः तृतियः पुत्रः एव " डैनमैट्" आविष्कर्ता, विश्वविख्यातः आल्फ़्रॆड् नॊबॆल्। ऎषः १८३३ क्रिस्ताब्दस्य अक्टोबर् २१ तमॆ दिनॆ अजायत। इम्यनुयल् महॊदयस्य दॆशान्तर-गमनानन्तरम् आण्ड्रिटा ऎकाकिन्यॆव धैर्यॆणा, महता प्रयासॆन च स्वपुत्रान् अपॊषयत्। अत्रान्तर पत्युः पत्रमॆकं प्राप्तम्। तत्रैवं लिखितं - "नास्माकम् इतः परं क्लॆशपरम्परा। मया बहुधनम् अर्जितम्। भवन्तः सर्वॆ अत्रैव आगच्छन्तु" इति। ततः तॆ सर्वॆ रष्यादॆशम् आगच्छन्। तत्र च गृहॆ एव तस्य पिता आस्फॊटकवस्तुनाम् आविष्कारं करॊति स्म। पितुः कार्यं दृष्ट्वा आल्फ़्रॆड् महॊदयस्य मनसि रसायनशास्त्रॆ आसक्तिः उत्पन्ना। चतुरमतिः एषः न कॆवलं रसायनशास्त्रं , किन्तु स्वीडिष्, रष्यन्, जर्मन्, फ्रञ्च्, आङ्ग्लभाषाः अपि अधितवान्। रसायनशास्त्रॆ आसक्तः सः विशेषाध्ययनार्थं १८५० तमॆ वर्षॆ अमॆरिकादॆशं गतः। तत्र एरिक्सन् महॊदयस्य मर्गदर्शनॆ संशोधनम् अकरॊत्। ततः परं पुनः ऱष्यादॆशं प्रत्यागच्छत्।

आगत्य च स: "नैट्रिक्-सल्फ्यूरिक् आम्लाभ्याम् सह ग्लिसरिन् संयॊजनॆन नैट्रॊग्लिसरिन् लभ्यतॆ । अयमाल्मपदार्थ: विशॆषत: स्फॊटनशील: भवति" इत्यंशम् आविष्कृतवान् । परन्तु स्फॊटनियन्त्रणविधिं नैव ञातवान्।

१८६४ तमॆ वर्षॆ सॆप्टॆम्बरमासस्य तृतीयं दिनम् आल्फ्रॆड्महॊदयस्य जीवनॆ अशुभदिनम् । आस्फॊट्नॆन तस्य प्रयॊगलय: भग्न:। दौर्भाग्यात् कर्मकरै: सह तस्य सहॊदरौ पिता च मृता:। तथाप्यविचलन् स: 'निर्दिष्टसमयॆ, प्रदॆशॆ च आस्फॊटनं कथं कार्यम्' इत्यस्मिन् विषयॆ सततं प्रयॊगम् अकरॊत् । अन्तत: १८६६ तमॆ वर्षॆ सफलॊ जात: । एष: विचार: जगति झटित्यॆव प्रसृत: । एवम् आल्फ्रॆड्महॊदयॆन आविष्कृतं वस्तु "डैनमैट्" इति प्रथितम् । अनॆन स: बहुधनं कीर्तिं च सम्पादितवान् ।

"डैनमैट्" गिरिपर्वतदिप्रदॆशं वासयॊग्यं, कृषियॊग्यं च कर्तुं , मार्गादीनि निर्मातुं च उपयुज्यॆत । न लॊकविनाशाय" इति तस्याभिप्राय: आसीत्। किन्तु तद्विपरीतं विनाशकर्मणि उपयुज्यमानं ध्र्ष्ट्वा स: अत्यन्तं खिन्नॊsभवत् । निरन्तरविदॆशसञ्चारॆण, संशॊधनॆन, दु:खॆन च क्रमॆण तस्य शरीरं जीर्णम् अभवत् । आल्फ्रॆड् महॊदय: १८९६ तमॆ वर्षॆ डिसॆम्बर् मासस्य दशमॆ दिनॆ पञ्चत्वं गत:।

एष: स्वीयॆ मरणपत्रॆ एवम् उल्लिखितवान् - "शान्तिसंस्थापकॆभ्य:, साहित्यरचनापटुभ्य:, भौत-रसायन-वैद्यविषयॆषु संशॊधकॆभ्यस्च मया सम्पादितॆन द्रव्यॆण (९२ लक्षडालर् परिमितॆन) पारितॊषिकं दॆयम्" इति । तदिदं 'नॊबॆल् प्रशस्ति:' इति अद्यापि विषृतम् । १९०१ वर्षात् एष: नॊबॆल् पुरस्कार: प्रदीयमान: अस्ति । १९६९ तमॆ वर्षॆ नॊबॆल् समॆत्या अर्थशास्त्रङा अपि पुरस्कारार्हा: इति निर्णीतम् ।

'सर्वॆsपि सुखिन: सन्तु, सर्वॆषां शान्ति: भवतु' इति कामयमान: आल्फ्रॆड्नॊबॆल् इतिहासॆ अमर: जात: ।

can't use in sandboxअन्यदेशीयवैज्ञानिकाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]