सदस्यः:Divyaellore/सॉरमण्डलं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                         सॉरमण्डालम्

मरुमध्ये शाद्वलस्थलमिव शॅत्यमयवियन्दड्गायां अस्माकं सॉरमण्डालम् सप्रकाशेष्मजीवनस्थानं यस्मिन् एकं क्र्न्द्रनक्षत्रं संतिष्टते अर्थात् अस्माकं सूर्यः कुटुंबं नवग्रहात्मकं, षष्ट्यधिकचन्द्राः बहुनियुतपाषाणमयलघुग्रहाः, बहुसहस्रनियुतषीतधूमकेतवश्च यस्य मण्डालस्य विद्यन्ते ।

अस्माकं सॉरमण्डलमिव नक्षत्रं परिभ्रमन्तः अन्यग्रहाः सन्ति इति खगोलविध्याविद्वांसः वदन्ति । किन्तु वर्तमानोपकरणॉ अपि जीवलोकधारणक्षमाः भुमिसदृशग्रहाः सन्ति किमिति ग्नातुं न् शक्यते । अस्माकं ग्नानं यावत् वियद्ग्ड्गायां आजीव्यग्रहः अस्माकं भूमिः एका एव ।

उप ४.५ सहस्त्रनियुतवर्षापूर्वं सॉरमण्डलं अजायत यदा ग्रहनक्षत्राणां मूलप्रकृतिभूतं वायुधूलिमिष्रितं अतिमहदभ्रं कण्चित् अक्षोभयत् निरपीडयच्च । कस्यचित् अपराभ्रस्य सड्घटेन तत् क्षोभणं अजायत स्यात् उत स्प्पुटान्नक्षत्रस्य प्रघाततरड्गेण।

किमपि कारणमस्तु, तदभ्रं अल्पतरॅः घनतरॅः प्रकृतिपिण्डॅः अभिद्यत यानि गुरुत्वबलं समहरत् । उप १,००,००० वर्षे तेषु पिण्डेषु एकं - यत् नीहारिका उच्यते - सड्घनेन वर्तमानसॉरमण्डलप्रमाणां रूपं अभजत । तस्याः नीहारिकायाः गर्भे नक्षत्रं एकं अजायत यत् अस्माकं सूर्यः अस्ति ।

नवोत्पन्नसूर्यः नीहारिकयापरिवेष्टितः आसीत् मन्दं परिभ्रमन्ती या तनुचक्ररुपेण प्रसारिता आसीत् ।

सॉरमण्डालस्य बाह्यक्षेत्रेषु पर्याप्तं शॅत्यं आसीत् अतः तत्र हिमखण्डानि अविकलानि आसन् । तान्यपि लघुग्रहेषु न्यमज्जन् ये एकिभुय गुरुः , शनिः , बृहद्ग्रहाणां गर्भाः अभवन् । सूर्यात् बहुदूरवर्तिषु एषु क्षेत्रेषु वायवः बाहुल्येन अवशिष्यन्ते स्म । यदा बृहद्ग्रहाः अवर्दन्त तदा तेषां गुरुत्वबलात् अवशेषान् समुद्घ्य महतराकारॅः अवर्धन्त । वायू गुरुशनॉ बाहुल्येन धारयतः । जलं तथा वायून् ग्र्हॉ प्राचुर्येण धारयतः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Divyaellore/सॉरमण्डलं&oldid=421108" इत्यस्माद् प्रतिप्राप्तम्