सामग्री पर जाएँ

सदस्यः:Greeshma Padmakumar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                 === करुणरसनिर्देशः===


https://commons.wikimedia.org/wiki/File%3ALord_Rama_with_arrows.jpg यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी | साऽधिशेते कथं ज्वलन्बीमधुना चिताम् || १ || साक्षान्मघवतः पौत्रः पुत्रो गाण्डीवधन्वनः | स्वस्त्रीयो वासुदेवस्य तं गृध्राः पर्युपासते || २ || असहायः सहायार्थीमामनुध्यातवान्ध्रुवम् | पीड्यमानः शरैस्तीक्ष्णौर्दोणर्दौणि कृपादिभिः || ३ || मितं ददाति हि पिता मितं भ्राता मितं सुतः | अमितस्य प्रदातारं भर्तारं का न शोचति || ४ || अथा बद्धजटे रामे सुमन्त्रे गृहमागते | त्यक्तो राजा सुतत्यागादविश्वस्तैरिवासुभिः || ५ || देशे देशे कलत्राणि देशे देशे च बान्धवाः | तं देशं नैैव पश्यामि यव भ्राता सहोदरः || ६ || प्रियस्य सुह्रुदो यव मम तत्रैव संभवः | भूयोऽपि भीयासमनुसंचरं || ७ || वकृन्ततीव मर्माणि देहं शोषयतीव मे | दहतीवान्तरात्मानं कूरः शोकाग्निरुत्थितः || ८ || अविशीर्णकान्तपात्रे नव्यादशे सुमुखि संभृतस्नेहे | मद्गेहदीपकलिके कथमुपयातासि निर्वाणम् || ९ || वत्स गच्छ मम वाचिकमेतद्रामचन्द्रचरणे कथयेथाः | आवयोरिव भवेदनुरागो नावयोरिव विधिः प्रतिकूलः || १० || शैशवात्प्रभृृति योषितां प्रियैः सौह्रुदादपृथगाशयां प्रियाम् | छद्मना परिददामि मृृृत्यवे सौौनिको गृहशकुन्तिकामिव || ११ || शीलानि ते चन्दनशीतलानि श्रुुतानि भूमीतलविश्रुतानि | तथापि जीर्णौौ पितरावतस्मिन्विहाय हा वत्स कथं प्रयासि || १२ || वनी मुनीनामटवी तरूणां दरी गिरीणां तु गवेषितैव | अतः परं लक्ष्मण पक्ष्मलाक्षीं प्राणा बहिर्भूय गविषयन्तु || १३ || अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः | जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्वरात्मा || १४ || गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ | करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हृतम् || १५ || अपहस्ततबान्धवे त्वया वहितं साहसमस्य तृष्णया | तदिहानपराधिनि प्रिये सखि कोऽयं करुणोज्झिितकमः || १६ || विपिने क्क जटानिबन्धनं तव चेदं क्क मनोहरं वपुः | अनयोर्घटना विधेः स्फुटं तनु खङ्गेन शिरीषकर्तनम् || १७ || मदेकपुवा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी | गतिस्तयोरेव जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि न || १८ || मदर्थसंदष्टमृनालमन्थरः प्रियः कियदृूर इति त्वयोगिते | विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीदृग्भविता तव क्षणः || १९ || इयमियं मयदानवनन्दिनी विदशनाथजितः प्रसवस्थली | किमपरं दशकंधरगेहिनी त्वयि करोति करद्वययोजनम् || २० || उत्खातदैवतमिवायतनं मुरारेरस्ताचलान्तरितसूर्यमिवान्तरिक्षम् | हम्मीरभूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्नशून्यम् || २१ || आदाय मांसमखिलं स्तनवर्जमङ्गान्मां मुञ्च वागुरिक यामि कुरु प्रसादम् | सीदन्ति शष्पकवलग्रहणानुभिग्ना भन्मार्गवीक्षणपराः शिशवो मदीथाः || २२ || सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी गत्वा जवात्रिचतुराणि पदानि सीता | गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः न्कृतवती प्रथमावतारम् || २३ || हत्वा पतिं नृपमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद्गणिकास्मि जाता | मपुत्रं पतिं समधिगम्य खितां प्रविष्टा सोचामि गोपगृहिणी कथमद्य तकम् || २४ || अस्तङ्गते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा | इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि || २५ || यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मखे कुशसूचिविद्धे | श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते || २६ || दैवे पराखदनशालिनि हन्त जाते याते च संप्रति दिवं प्रति बन्धुरत्ने | कस्मै मनः कथयितासि निजामवस्थां कः शीतलैः शीतलै शमयिता वचनैस्तवाधिम् || २७ || सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खेदकलिता विमुखीबभूव | सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव || २८ || धृत्वा पदस्खलभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे | सा मां विहाय कथमद्य विलासिनि द्यामारोहतीति हृदयंशतधा प्रयाति || २९ || भूमौ स्थिता रमण नाथ मनोहरेति संबोधनैर्यमधिरोपितवत्यसि द्याम् | स्वर्गे गता कथमिव क्षिपसि त्वमेणशावाक्षि तं धरणिधूलिषु मामिदांनीम् || ३० || कनकहरिणं हत्वा रामो ययौ निजमास्रमं जनकतनयां प्राणेभ्योऽपि प्रियामविलोकयन् | दृढमुपगतैर्बाष्पापूरैर्निमीलितलोचनो न विशति कुटिमाशातन्तुप्रणाशभयादसौ || ३१ || अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि | जनस्थाने सून्ये करुणकरुणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् || ३२ ||ध्रुवं ध्वंसो भावी जमनिधिमहिशैलसरितामतो मृत्योः शीर्यत्कणलघुषु का जन्तुषु कथा | तथाप्य्च्चैैर्बन्धुव्यासनजनितः कोऽपि विषयो विवेक प्रोन्माथी दहति हृदयं शोकदहनः || ३३ || अक्षत्रारिकृताभिमन्युहननप्रोद्भूततीव्रकुधः पार्थस्याकृतशात्रवप्रतिकृतेरन्तःशुची मुह्यतः | कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति वक्त्राद्बहिः || ३४ || कोऽहं ब्रूहि सखे स इव भगवानार्यः सखे राघवः के यूयं बत नाथ नाथ किमिदं दासोऽस्मि ते लक्ष्मणः | कान्तारे किमिहास्महे बत सखे देव्या गतिर्मृग्यते का देवी जनकाधिराजतनया हा जानकि क्कासि हा || ३५ || मध्याह्ने दववह्निनोष्मसमये दंदह्यमानाद्गिरेः कृच्छ्रान्निर्गतमुत्तुषं जलमथो वीक्ष्यैकरक्षाक्षमम् | प्रेम्णा जीवयितुं मिथः पिब पिबेत्युञ्चार्य मिथ्या पिबन्निर्मग्नास्यमपीतवारि हरिणद्वन्द्वं विपन्नं वने || ३६ || हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्काशिषो धिक्प्राणान्पतितोऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दृशौ | इत्थं घर्घरमध्यरुद्धकरुणाः पौौराङ्गनानां गिरश्र्चित्रस्थानपि शतधा कुर्वन्ति भित्तीरपि || ३७ || यास्य त्यद्य शकुन्तलेति हृगयं संस्पृष्टमुत्कण्ठया कण्ठस्तम्भितबाष्पवृत्तिकलुषश्र्चिन्ताजडं दर्शनम् | वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं न तनयाविउश्र्लेषदुःखैएनवैः || ३८ || पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या प्रियमण्डनापि भवतां स्त्रेहेन या पल्लवम् | आद्ये वः कुसुमप्रसूतिसमये यय्सा भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैनुरग्नायताम् || ३९ || या केलिच्युतकेशलिशविषमां शय्यां न भेजे पुरा या जालान्तरनिर्गतार्ककिरणद्योतादपि म्लायते | सेयं निष्ठुरकाष्ठसंचितचितां देदीप्यमानानलां सस्मेरा भजते यदि प्रियमुखं स्नेहस्य किं दुष्करम् || ४० || दध्वस्तः काव्योरुमेरुः कविविपणिमहारत्नरासिर्विर्णः शुष्कः शब्दौधसिन्धुः प्रलयमुपगतो वाक्यमाणिक्यकोशः | दिव्योत्कीनां निधानं निधनमुपगतम् हा हता दिव्यवाणी वाने गीर्वाणवाणीप्रणयिनि विधिना शायितेव दीर्घनिद्राम् || ४१ ||



मनुस्मृतिरीऽया सामाजिकधर्मा:

Old style Dharma Wheel. Spiti एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः | वने वसेत्तु नियतो यथावद्विजितेन्द्रियः || १ || गृहस्थस्तु यदा पश्येद्वलिपलितमात्मनः | अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् || २ || संत्यज्य ग्राम्याहारं सर्वं चैव परिच्छदम् | पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा || ३ || अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् | ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः || ४ || मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा | एतानेव महायग्नान्निर्वपेद्विधिपूर्वकम् || ५ || वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा | जटाश्र्च बिभृयान्नित्यं श्मश्रुलोमनखानि च || ६ || यद्भक्ष्यं स्यात्ततो दद्याद्बलिंं भिक्षां च शक्तितः | अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् || ७ || स्वाध्याये नित्ययुक्तः स्याह्दन्तो मैत्रः समाहितः | दाता नित्यभनादाता सर्वभूतानुकम्पकः || ८ || वैतानिकं च जुहुयादग्निहोत्रं यथाविधि | दर्शमस्कन्दयन्पएव पौर्नमासं च योगतः || ९ || ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् | तुरायणं च कमशो दाक्षस्यायनमेव च || १० || वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः | पुरोडाशांश्र्चरूंश्र्चैव विधिवन्निर्वपेत्पृथक् || ११ || देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः | शेषमात्मनि युञ्ञीत लवणं च स्वयं कृतम् || १२ || स्थलजौदकशाकानि पुष्पमूलफलानि च | मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्र्च फलसंभवान् || १३ || वर्जयेन्मधु मांसां च भौमानि कवकानि च | भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च || १४ || त्यजेदाश्र्वयुजे मासि मुनयन्नं पूर्वसंचितम् | जीर्णानि चैव वासांसि शाकमूलफलानि च || १५ || न फालकृष्टमश्र्नीयादुत्सृष्टमपि केनचित् | न ग्रामजातान्यार्तोऽपि मूलानि च फलानि च || १६ || अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा | अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा || १७ || सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा | षण्मासनिचयो वा स्यात्समानिचय एव वा || १८ || नक्तं चान्नं समश्नीयाह्दिवा वाहृत्य शक्तितः | चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः || १९ || चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् | पक्षान्तयोर्वाप्यश्र्नीयाद्यवागूं क्वथितां सकृत् || २० || पुष्णमूलफलैर्वापि केवलैर्वर्तयेत्सदा | कालपक्वैः स्वयंशीर्णैर्वैखानसमते स्थितः || २१ || भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् | स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः || २२ || उपस्पृशंस्त्रिषवणं पितृन्देवाश्र्च तर्पयेत् | तपश्र्चरंश्र्चोग्रतरं शोषयेह्देहमात्मनः || २४ || अग्नीनात्मनि वैतानान्समारोप्य यथाविधि | अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः || २५ || अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः | शरणेष्वममश्र्चैव वृक्षमूलनिकेतनः || २६ || तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् | गृहमेधिषु चान्येषु द्विजेषु वनवासिषु || २७ || ग्रामादाह्ऱत्य वाश्र्नीयादष्टौ ग्रासान्वने वसन् | प्रतिगृह्य पुटेनैव पाणिना शकलेन वा || २८ || एताश्र्चाश्र्च सेवेत दीक्षा विप्रो वने वसन् | विविधाश्र्चौपनिषदीरात्मसंसिद्धये श्रुतीः || २९ || ऋषिभिर्ब्राह्मणैश्र्चैव गृहस्थैरेव सेविताः | विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये || ३० || अपराजितां वास्थाय व्रजेह्दिशमजिह्मगः | आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः || ३१ || आसां महार्षिचर्याणां त्यक्त्वान्यतमया तनुम् | वीतशोकभयो विप्रो ब्रह्मलोके महीयते || ३२ || वनेषु च विहृत्यैवं तृतीयं भागमायुषः | चतुर्थमायुषो भागं त्यक्त्या सङ्गान्परिव्रजेत् || ३३ || आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः | भिक्षाबलिपरिश्रान्तः प्रव्रजन्प्रेत्य वर्धते || ३४ || ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् | अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः || ३५ || यक्षरक्षःपिशाचांश्र्च गन्धर्वाप्यरसोऽसुरान् | नागान्सर्पान्सुपर्णांश्र्च पितॄणां च पृथग्गणान् || ३७ || विद्युतोऽशनिमेघांश्र्च रोहितेन्द्रधनूंषि च | उल्कानिर्घातकेतूंश्र्च ज्योतींष्युञ्चावचानि च || ३८ || किन्नरान्वानरान्मत्स्यान्विविधाश्र्च विहङ्गमान् | पशून्मृगान्मनुष्यांश्र्च व्यालांश्र्चोभयतोदतः || ३९ || कृमिकीटपतङ्गांश्र्च यूकामक्षिकमत्कुणम् | सर्वं च दशमशंक स्थावरं च पृथग्विधम् || ४० || एवमेतैरिदं सर्वें मन्नियोगान्महात्मभिः | यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् || ४१ ||