सदस्यः:Kachapah/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मायामालवगौलरागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागः । वेङ्कटमखेः मेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः १५ तमः मेलकर्तृरागः अस्ति। पूर्वं एतस्य रागस्य नाम "मालवगौल" इत्येव आसीत् । यदा मेलकर्तृरागव्यवस्था आगच्छत्, तदा "माया" इति उपसर्गः "मालवगौल" नाम्ना योजितः जातः। एषः मङ्गलकरः रागः सर्वदा गातुं शक्यते। 'सरलेवरिसे', 'जण्टिवरिसे', 'दाटुवरिसे', 'अलङ्काराः' च एतस्मिन् रागे भवन्ति । मायामालवगौलरागस्य २५ जन्यरागाः सन्ति ।

लक्षणानि[सम्पादयतु]

मायामालवगौलरागस्य आरोहणम्। षड्जं 'C' इति स्वरस्य स्थाने अस्ति।

वेङ्कटमखिः मायामालवगौलरागस्य लक्षणम् एवं वदति -

पूर्णो माळवगौळाख्यः स ग्रहो गीयते सदा

मेलकर्तृरागव्यवस्थायां मालवगौलरागः अग्निचक्रे तृतीयः रागः। अस्मिन् रागे शुद्धऋषभम्, अन्तरगान्धारम्, शुद्धमध्यमम् , शुद्धधैवतम् , काकलिनिशादं च स्वराः भवन्ति। यतः अयं रागः मेलकर्तृरागः अस्ति, अतः वयं एतं रागं "सम्पूर्णरागः" इति वदामः । सम्पूर्णरागः इत्युक्ते सप्तसवराः अपि भवन्ति। मध्यमं विहाय मायामालवगौलरागः कामावर्धिनीरागस्य (५१ मेलकर्तृरागः) समानः एव ।

स्वभावः[सम्पादयतु]

एषः पुरातनः रागः करुणया भक्त्या च संयुक्तः। मायामालवगौलरागः सर्वदा गातुं शक्यते, किन्तु प्रभाते गायति चेत् मङ्गलकरः भवति। सङ्गीतगुरवः छात्राणां कृते आरम्भे एतं रागं 'सरले वरिसे'रूपेण पाठयन्ति । अस्मिन् रागे विवादिस्वराः न सन्ति। अतः एतत् पठितुम् सरलं भवति। मायामालवगौलरागः हिन्दुस्तानीशास्त्रीयसङ्गीतपद्धतौ भैरवरागः इति कथ्यते ।

अस्मिन् रागे मध्यमे सिंहेन्द्रमध्यमम् रिषभे रसिकप्रियां च प्रति ग्रहभेदः कर्तुम् अवकाशः अस्ति । साधारणतया श्रुतिः षड्जे भवति। किन्तु ग्रहभेदे श्रुतिः अन्ये स्वरे भवति। यदा वयम् एवं कुर्मः, तदा भिन्नाः रागाः आगच्छन्ति ।

जन्यरागाः[सम्पादयतु]

मायामालवगौलरागस्य २५ जन्यरागाः सन्ति। तेषु २५ जन्यरागेषु बौलिरागः, मलहरिरागः, सावेरिरागः, रेवगुप्तिरागः, नादानामक्रिया, ललितारागः, जगन्मोहिनिरागः च सुप्रसिद्धाः सन्ति ।

प्रसिद्धानि कीर्तनानि[सम्पादयतु]

सरले वरिसे, जण्टि वरिसे, दाटुवरिसे, अलङ्काराः च मायामालवगौलरागे सन्ति । प्रथमं गीतम् अपि मलहरिरागे रचितम् (मलहरिरागः मायामालवगौलरागस्य जन्यरागः) । मुत्तुस्वामी दीक्षितस्य प्रथमा रचना "श्रीनाथादि गुरुगुहो जयति" इत्येषा मायामालवगौलरागेण रचिता।

अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -

  1. "तुलासिदलमुलचे सन्तोशमुख" - त्यागराजः, तेलुगुभाषा
  2. "मेरुसमान वीर" - त्यागराजः, तेलुगुभाषा
  3. "देव देव कलयामिते" - स्वाति तिरुनालः, संस्कृतभाषा
  4. "मायातीत स्वरूपिणि" - पोन्नैया पिल्लै, संस्कृतभाषा
  5. "श्रिनातादि गुरुगुहि जयति" - मुत्तुस्वामी दीक्षितः , संस्कृतभाषा


वर्गःःकर्णाटकशास्त्रीयसङ्गीतरागाः