सदस्यः:Likith.s 1810388/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रतन् नावल् टाटा
जन्म (१९३७-२-२) २८ १९३७ (आयुः ८६)
निवासः Colaba, Mumbai
जातिः Parsi
शिक्षणस्य स्थितिः Cornell University
Harvard Business School
वृत्तिः Chairman emeritus, tata sons
chairman, tata trusts
धर्मः Zoroastrianism
सम्बन्धिनः Tata family
पुरस्काराः Padma Vibhushan (2008)
Padma Bhushan (2000)

परिचयम्[सम्पादयतु]

रतन टाटा २०/१/१८७१ तमे दिनाङ्के मुम्बय्यां जन्म प्राप्तवान्। एतस्य पिता जे.एन्.टाटा जे.एन्.इत्येव लोके प्रसिद्धः। सेन्ट् झेवियर्स विद्यालये एतस्य प्राथमिकं शिक्षणम् अभवत्। टाटा एण्ड् सन्स् संस्थायाः निदेशकः एषः स्वदायित्वं सम्यक् जानाति स्म । सामान्यतः द्वादशवर्षैः ज्येष्ठः अग्रजः दोराबटाटा। पञ्चदशवर्षैः ज्येष्ठः आर्.डी.टाटा। एतयोः वचनं रतनटाटा कदापि न उल्लङ्घयति स्म। एतस्य एव काश्चन विशिष्टाः अभिरुचयः आसन्। १९०४ तमे वर्षे पिता जे. एन्. टाटा यदा दिवङ्गतः तदा सहजतया एतेषां त्रयाणाम् उपरि दायित्वम् आपतितम्। नूतनतया आरब्धायाः संस्थायाः सुचारुरूपेण व्यवस्थापने तथा पितुः स्वप्नस्य साकारीकरणे रतनः अग्रजयोः सहयोगं कृतवान्। टाटा अयर्न् एण्ड् स्टील्, त्रीणि जलविद्युत् केन्द्राणि, चत्वारः वस्त्रोद्यमाः च भारतस्य निरुद्योगिभ्यः उद्योगावसरम् अक्ल्पयन्। भारतदेशस्य औद्योगिकस्थिरतायाः दृढीकरणे एते प्रमुखं पात्रम् अवहन्। रतनः कलाराधकः कलापोषकः च। दरिद्राणाम् असहायाणां च कष्टं दृष्ट्वा एतस्य हृदयं विशेषतया स्पन्दते स्म । एषः स्वभावेन अत्यन्तम् उदारः। भारतीयता देशभक्तिभावः च एतस्य रक्तस्य कणे कणे प्रवहति स्म। पित्रार्जितं दायभागं सार्वजनिकानां कल्याणाय संरक्षितवान्। स्वसम्पदः अधिकांशः भागः दुःखितानां सन्तप्तानां च निमित्तं भवेत् इति तस्य इच्छा आसीत्। अतः रतनः 'सर् टाटा ट्रस्ट' अधिकारिभ्यः स्वस्य दानवितरणनीतिं

कार्यम्[सम्पादयतु]

कोलकातास्थस्य शान्तिनिकेतने पौर्वात्यसाहित्य-कला-शिल्प-संस्कृति-सङ्गीताभ्यासं कर्तुं यथा व्यवस्था भवेत् तथा संशोधकेभ्यः एकं वसतिगृहं निर्माय दत्तवान्। अत्र अधिकतया ऐरोप्याः आगच्छन्ति स्म। रतनः स्वस्य एव कञ्चित् विशिष्टं लोकं सृष्टवान् आसीत्। विद्यासंस्थानां विषये जनहितकार्यविषये च तस्य विशेषासक्तिः आसीत्। प्रिन्स् आफ् वेल्स् कलासंग्रहालयस्य प्रथमस्य अट्टस्य बहुभागः रतनटाटावर्यस्य कलासंग्रहार्थमेव स्थापितः अस्ति। वास्तुशिल्पिनां विषये सः अत्यन्तं आदरवान्

नैकि[सम्पादयतु]

मुम्बयीनगरे टाटासंस्थायाः बाम्बेहौस् नामकस्य प्रमुखकार्यालयस्य विन्यासचित्रं ब्रिटिष् वास्तुशिल्पिना जार्ज् विटेटेन सह स्वयं रतनः रचितवान्। एतत् भवनं टाटा उद्यमानां अधिकृतः केन्द्रकार्यालयः अस्ति। एतस्य शङ्कुस्थापना १९२१ तमे वर्षे अभवत्। ताजमहल् प्यालेस्|'गेट् वे आफ् इण्डिया’]] महाद्वारस्य तथा 'प्रिन्स् आफ् वेल्स्’ संग्रहालयसदृशयोः भव्यभवनयोः निर्माता वास्तुशिल्पी जार्ज् विटेट् बाम्बे हौस् निर्माणम् अङ्गीकृत्य सुचारुतया कार्यं समापितवान्। १९२४ तमे वर्षे एतस्य विध्युक्तरीत्या उद्घाटनम् अभवत्। ततः पूर्वं नवसारिहौस् टाटा उद्यमस्य प्रमुखः कार्यालयः आसीत्। १९१३तः-१९१७वर्षपर्यन्तं पाटलीपुत्रे ब्रिटिष् सर्वकारेण कृतस्य संशोधनस्य उत्खननकार्ये रतनटाटा आर्थिकसाहाय्यं कृतवान्। तस्मिन् उत्खनने अशोकचक्रवर्तिनः कालस्य मयूरसिंहासनं प्राप्तम्। १९२२ तमे वर्षे लण्डन् नगरस्य 'स्कूल् आफ् एकनामिक्स्’ इत्यत्र दारिद्र्यनिवारणायै विशेषाध्ययनार्थं संशोधनकेन्द्रम् आरभ्य धनसाहाय्यं कर्तुं तेन चिन्तितम् आसीत्। लण्डनदेशस्थम् अत्यन्तं प्राचीनम् ऐतिहासिकं यार्कहौस् भवनं ड्यूक् डे अर्लियन्स् तः टैकन् ह्याम् नगरे क्रीतवान्। टाटा उद्यमे यद्यपि रतनटाटा निर्देशकः आसीत् तथापि समग्रं दायित्वं तस्य अग्रजौ निर्वहतः स्म। पिता तु वस्त्रस्य उद्यमे बहु धनं आर्जितवान् आसीत् । ततः रतनेन अपि बहु धनं प्राप्तम्। स्वस्य सर्वं भागं देशस्य औन्नत्यै रक्षितवान् आसीत् सः। रतनस्य पत्नी नवाजबायी। तयोः अपत्यं नासीत्। सर् रतनटाटा ट्र्स्ट्तः विविधाः संस्थाः आर्थिकसाहाय्यं प्राप्य अभिवृद्धिं प्राप्तवन्तः सन्ति। तासु प्रमुखाः—

लैका शिल्पालय[सम्पादयतु]

Servants of India काचित् सामाजिकी संस्था। १९०५ तमवर्षस्य जून् मासस्य १२ दिनाङ्के गोपालकृष्णगोखले नेतृत्वे एतस्याः स्थापना अभवत्। स्वतन्त्रभारतस्य स्वप्नं पश्यतः भारतीयानां देशभक्तानां सङ्घटनं कुर्वन् गोखलेमहोदयः मित्रात् रतनात् धनसाहाय्यं स्वीकृतवान्। संस्थाद्वारा दरिद्राणाम् असहायकजनानां साहाय्यं कृतवान्। तावत् पर्यन्तं कोऽपि भारतीयः उद्यमपतिः एवं स्वप्रेरणया धर्मकार्ये भागं न स्वीकृतवान् आसीत्। सर् रतनटाटान्यासस्य स्थापना १९१९ तमे वर्षे सप्टम्बर् मासस्य पञ्चमदिनाङ्के रतनटाटा मरणं प्राप्तवान्। अनन्तरं तस्य पत्नी नवाजबायी पत्युः इच्छानुसारं कुटुम्बजनैः सह समालोच्य सर् रतनटाटान्यासम् आरब्धवती।८ मिलियन् रूप्यकाणां सम्पत् दरिद्राणां जीवने आशाकिरणानि उदपातयन्। ६० वर्षाणि यावत् तस्य निर्देशिका सती नवाजबायी अनुपमां सेवां कृतवती। हर्मुस्जीटाटावर्यस्य पुत्रः नावल् हर्मुस्जी। नवाजबायी तं दत्तकपुत्ररूपेण स्वीकृतवती। नावल् हर्मुस्जी एव इदानीं टाटा सन्स् संस्थायाः निर्देशकः अस्ति।