सदस्यः:Minalmalli

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
              नवरत्नानि

वराहमिहिरेण बृहत्सहितायां बहो: कालात् पूर्वमेव द्वाविंशतिरत्नानि प्रतिपादितानि ।

     वज्रेन्द्रनीलमरकतर्केतरपद्मरागरुधिराख्या: ।
     वैढूर्यपुलकविमलकराजमणिस्फटिकशशिकान्ता: ॥
    
     सौगन्धिकगोमेधिकशमहानीलपुष्प परगाख्या: ।
    ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवलानि ॥

१) पद्मराग:

  भौतिकलक्षणम् 

पद्मराग्स्य अन्यत् नाम माणिक्यम् इति । पद्मरागस्य उत्पत्तेर्लक्षणमाह: -

      सौगन्धिककुरुविन्दस्फ़टिकेभ्य: पद्मरागसम्भूति: ।
      सौगन्धिकजा भ्रमराञ्जानाब्जजम्बूरसधुतय: ॥ १ ॥
      कुरुविन्दभवा: शबला मन्दधुतयशच धातुभिर्विध्दा: ।
      स्फ़टिकभवा धुतिमन्तो नानावर्णा विशुध्दाशच ॥ २॥ 

२) मौक्तिकम्

मौक्तिमं चन्द्रस्य प्रीतिकरम् । मौक्तिकस्य आकार:- मौक्तिकानि स्वच्छशवेतवर्णेन प्रकाशन्ते । वराहमिहिरस्य बृहत्संहितायाम् मौक्तिकरस्य उत्पत्ति: इत्यं वर्णितम अस्ति।

     द्विपभुजगशुक्तिशङ्काभ्रवेणुतिमिसुकरप्रसूतानि ।
    मुक्ताफमलानि तेषां बहुसाधु च शुक्तिजं भवति ॥ २ ॥

३) प्रवाल: रत्नपरीक्षाख्येस्मिन् ग्रन्थे प्रवाल: ब्रह्म, क्षत्रिय, वैशय, शूद्र रुपेण चतुर्धा विभक्त: । प्रवालधाणेन मनशशान्ति:, कुटुम्बे एकता सम्पत् वृध्दि: जायते । प्रवालं भस्मीकृत्य स्वीकरणेन अजीर्णव्याधिनिवारणं भवति। प्रवालस्य इतरनामानि १. लतामणि, २. विदम:, ३. रत्नाङ्ग्म्, ४. अङ्गारकणि:, ५. भीमरत्नम् इत्यादीनि।

४) मरकतम हारीतवर्णे प्रकाशमानाम् इदं रत्नम् बुधस्य प्रीतिकरम् इति आमनन्ति । बृहत् संहितायाम् मरतस्य लक्षणम् व्याख्यायते।

      शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् ।
      सुरपितृकार्ये मरकतमतीव शुभदं नृणां विहितम् ॥

५) पुष्यराग: सुविशालप्रकृत्याम् वर्तमाना: सर्वेवर्णा: पुष्यरागे अन्तर्भवन्ति इदं रत्नं गुरुग्रह प्रीतिकरं इति संसथूयते । अयं तु पुष्यरग: बृहतसंहितायाम् एवं वर्णित्: ।

      ईषत्पीतं पविच्छायं स्वच्छम् कल्पमनोहरम् ।
      पुष्यरागमिति ख्यातं रत्नं रत्नपरीक्षकै: ॥

६) वज्रम् नवरत्नेषु वज्रस्य नाम सर्वजनविदितमेव । इदं वज्रं वेणा नाम नधा: तीरे विशुध्दं दोषरहितम् उपलभ्यते इति वराहमिहिरस्य वचनानि ॥

      वेणातटे विशुध्दं शिरीषकुसुमप्रभंच कौशलकम् ।
     सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् ॥


७) नील: शनिभगवत: प्रीतिपात्रम् इदं महानीलं सर्वशुभङ्करम्, एतस्य धारणेन राजयोग: सिदध्यति इति विषवास:। रत्नशास्त्रे त्रिविधानि निलरत्नानि कथितानि।

१. इन्द्रनीलम् - केशा इव अत्यन्त नीलवर्णसहितम् । २. महानीलम् - भूमौ यदि स्थापयाम: तर्हि परित: सर्वत्र नीलमयं भासते । ३. नीलमणि: - विष्णुकान्तपुवत् प्रकाशते ॥

८) गोमेधिकम् राहुग्रस्य प्रीतिकरम् इदं गोमोधिकं गोमूत्रवर्णे परिदृश्ययते। अत एव एतस्य गोमेधिकम् इति नाम सार्थकं भवति । इदं रत्नं हिमालयपर्वतप्रान्तेषु सूर्यकान्तगोमोधिकं, चन्द्रकान्त गोमेधिकम् इति द्विप्रकारेण् उपलभ्यते। सूर्यस्य पुरत: अग्निज्वाला इव परिदृश्यमानं सूर्यकान्तगोमेघिकम् इति। चन्द्रकान्तिवेलायाम् हिमवत् शौत्यम् प्रदर्शयति चेत् तत् चन्द्रकान्तगोमेधिकम् इति गौमेघिकस्य लक्षणद्वयम् । एतट्स्य रत्न्स्य विषये अस्मिन् ग्रन्थे एवं क्षूयते चर्चिता: । यथा -

       मधुबिन्दुसमं वापि गोमूत्रोघसमप्रभम् ।
      गोमेधिकं तदाख्यातं रत्नसोममहीभुजा ॥

९) वैडूर्यम् (मरकतम्) के तुग्रहस्य प्रीतिकरमिदं मरकतं शुकपवर्णसदृशाम् । कदलीसदृशम् शिरीषकुसुम - तुल्यवर्णम् भवति। वैडूर्यस्य लक्षणम् वराहमिहिरेण इत्थम् निर्दिष्टम् -

      शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् ।
     सुरपितृकर्ये मरकतमतीव शुभदं नृणां विहितम्॥
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Minalmalli&oldid=316357" इत्यस्माद् प्रतिप्राप्तम्