सदस्यः:Namithakr/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दूतवाक्यम्

सूत्रधारः -

पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥

उत्पन्ने धार्तराष्ट्राणां विरोधे पाणड्वै: सह । मन्त्रशालां रचयति भृत्यो दुर्योधनाञया ॥ २ ॥

(निष्क्रान्त: ।) स्थापना (तत: प्रविशति काञ्चुकीय :) काञ्चुकीय: :- भो भो प्रतिहाराधिक्रृता: । महाराजो दुर्योधन: समाञापयति-अद्य सर्वपार्थिवै: सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजन् इति । (परिक्रम्यावलोक्य) अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एष:

श्यामो युवा सितदुकूलकृतोत्तरीय: सच्छत्रचामरवरो रचिताङगराग: । श्रीमान् विभूषणमणिघुतिरञ्ञिताङ्गो नक्षत्रमध्य इव पर्वगत: शशाङ्क: ॥ ३ ॥

(तत: प्रविशति यथानिर्दिष्टो दुर्योधन: ।)

दुर्योधन: - उद्धूतरोषमिव मे ह्रृदयं सहर्ष्ं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इचछामि पाण्डवबले वरवारणाना- मुत्कत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४ ॥

काञ्ञुकीय: - जयतु महाराज: । महाराजशासनात् समानीतं सर्वराजमण्डलम् । दुर्योधन: - कृतम् । प्रविश्य त्वमवरोधनम् । कञ्चुकीय: - यदाञापयति महाराज : । (निष्क्रान्त:) दुर्योधन: - आर्यो वॅकर्णवर्षदेवौ ! उच्यताम् ,- अस्ति ममैकादशाक्षौहिणीबलसमुदय: । अस्य क: सेनपतिर्भवितुमर्हति । किं किमाहतुर्भवन्तौ- "महान् खल्वयमर्थ: । मन्त्रयित्व वक्तव्यमिति" । सदृशमेतत् । तदगम्यतां मन्त्रशालामेव प्रविशाम:। आचार्य अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामाह !अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । आर्ये वैकर्णवर्षदेवौ ! प्रविशतां भवन्तौ । भो भो सर्वक्षत्रिया:! स्वैरं प्रविशन्तु भवन्त : । वयस्य !कर्ण!प्रविशामस्तावत् । (प्रविश्य) आचार्य!एतत् कूर्मासनम्,आस्यताम् । पितामह ! एतत् सिंहसनम् । आस्यतस्म् । मातुल ! एतच्चर्मासनम् , आस्यताम् । आर्ये वैकर्णवर्षदेवौ !आस्यतं भवन्तौ । भो भो सर्वक्षत्रिया:।स्वैरमासतां भवन्त:।किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्म:।नन्वयमहमासे । वयस्य कर्ण !त्वमप्यास्व!(उपविश्य । )

आर्यौ वैकर्णवर्षदेवौ ! उच्यताम्-अस्ति ममैकादशाक्षौहिणीबलसमुदय:।अस्य क: सेनपतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ अत्र भवन् गान्धारराजो वक्ष्यतीति। भवतु,मातुलेनाभिधीयताम्। किमह मतुल:-अत्र भवति गाङेगेये स्थिते को अन्य: सेनापतिर्भवितुमर्हतीति?सम्यगाह मातुल:,भवतु,पितामह एव भवतु। वयमप्येतदभिलषाम:।

सेनानिनादपटहस्वनशङ्खनादै- श्चण्डानिलाहतमहोदधिनादकल्पै: । गाङ्गेयमूर्धिनि पतितैरभिषेकतोयै: सार्धं पतन्तु ह्रृदयानि नराधिपानाम् ॥ ५ ॥

काञ्चुकीय: - जयतु महराज: । एव खलु पाण्डवस्कन्धावाराद् दौत्त्येनागत: पुरुषोत्तमो नारायण: । दुर्योधन: - मा तावद् भो: बादरायण!किं किं कंसभृत्यो दामोदरस्तव पुरुषोत्तम: । स गोपालकस्तव पुरुषोत्तम: ।

          अहो पार्थिवासन्नमाश्रितस्य भृत्यजनस्य समुदाचार:।सगर्वं खल्वस्य वचनम् । आ: अपध्वंस!

काञ्चुकीय: - प्रसीदतु महाराज:।सम्भ्रमेण समुदाचारो विस्मृत:। (पादयो: पतति । ) दुर्योधन: - संभ्रम इति । आ: मनुष्याणामस्त्येवं संभ्रम: । उत्तिष्ठोत्तिष्ठ् । काञ्चुकीय: - अनुगृहीतो अस्मि । दुर्योधन: - इदानीं प्रसन्नो अस्मि । क एष दूत: प्राप्त: ? काञ्चुकीय: - दूत: प्राप्त: केशव: । दुर्योधन: - केशव इति । एवमेष्टाव्यम् । अयमेव समुदाचार: । भो: भो: राजाना:!दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्त: ।

           अद्य्र्यप्रदानेन पूजयितव्य: केशव इति। न म रोचते । ग्रहणमस्यात्र हितं पश्यामि ।


ग्रहणमुपगते तु वासुभद्रे ह्रृतनयना इव पाण्डवा: भवेयु: । गतिमतिरहितेषु पाण्डवेषु क्षितिरखिलापि भवेन्ममासापत्ना ॥ ६ ॥