सदस्यसम्भाषणम्:Namithakr/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अपि च यो अत्र केशवस्य प्रत्युत्थास्यति, स मया द्वादशसुवर्णभारेण दण्ड्य: । तदप्रमत्ता भवन्तु भवन्त: । को नु खलु मम प्रत्युत्थानस्योपाय: । हन्त ! दृष्ट उपाय: । बादरायण, आनीयतां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बराकर्षणमालिखितम् । (अपवार्य) तस्मिन् द्रष्ट्विन्यासं कुर्वन् नोत्थास्यामि केशवस्य ।

काञ्ञुकीय: - यदाञापयति महाराज: । (निष्क्रम्य,प्रविश्य) जयतु महाराज:, अयं स चित्रपट: । दुर्योधन: - ममाग्रत: प्रसारय । काञ्ञुकीय: - यदाञापयति महाराज: ।(प्रसारयति) । दुर्योधन: - अहो दर्शनीयो अयं चित्रपट: । ऐष दु:शासनो द्रौपदीं केशहस्ते ग्रुहीतवान् । येषा खलु द्रौपदी,

दु:शासनपराम्रष्टा सम्भ्रमोत्भुल्ललोचना । राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥

येष दुरात्मा भीम: सर्वराजसमक्षमवमानीतां द्रैपदीं द्र्ष्ट्वा अमर्ष: सभास्तम्भं तुलयति । येष युधिष्थिर: ,

सत्यधर्मघ्रुणायुक्तो घूतविभ्रष्टचेतन: । करोत्यपाङ्गविक्षेपै: शान्तामर्ष: व्रुकोदरम् ॥ ८ ॥

येष इदानीमर्जुन:,

रोषाकुलाक्ष: स्फुरिताधरोष्द्ध स्त्र्णाय मत्वा रिपुमण्डलं तत् । उत्सादयिष्यन्निव सर्वराञ: शनै: समाकर्षति गाण्डिवज्याम् ॥ ९ ॥

स्फुरिते अधरोष्टे यस्य स: स्फुरिताधरोष्ट: । रिपूणां मण्डलं रिपुमण्डलम् । सर्वे च ते राजान: , तान् सर्वराञ: । उत्सादयितुम् इच्छन् उत्सादयिष्यन् । गाण्डिवस्य ज्या, ताम् गाण्डिवज्याम् । येष युधिष्टिरो अर्जुनं निवारयतिं । येतौ नकुलसहदेवौ,

क्रतपरिकरबन्धौ चर्मनिस्त्रिंशहस्तौ परुषितमुखरागौः स्पष्टदष्टाधरोष्थो । सत्वरं भ्रातरं मे हरिमिव म्रुगपोतौ तेजसाभिप्रयातौ ॥ १० ॥

येष युधिष्ठिर: कुमारावुपेत्य निवारयति -

नीचो अहमेव विपरीतमति: कथं वा रोषं परित्यजतमद्य नयानयञौ । घूताधिकारमवमानमम्रुष्यमाणा : सत्वाधिकेषु वचनीयपराक्रमा: स्यु: ॥ ११ ॥

येष गान्धारराज: ,

अक्षान् क्षिपान् स कितव: प्रहसन् सगर्व सङकोचयन्निव मुदं द्विषतां स्वकीत्र्यां । स्वैरासनो द्रुपदराजसुतां रुदन्तीं काक्षेण पश्यति लिखत्यभिखं नयञ: ॥ १२ ॥