सदस्यः:SUHAS V P/थोबलमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                        थोबलमण्डलम्

थौबल-नगरं मणिपुर-राज्यस्य थौबल-मण्डलस्य मुख्यालयः विद्यते । तत्र अष्टादश ग्रामसंग सभाः सन्ति अस्य केन्द्रकार्यालयः थोबल् मण्डले भारत देशस्य मणिपुर् राज्ये सन्ति । इदं नगरं मणिपुर-राज्यस्य अन्यनगराणाम् अपेक्षया विकासशीलम् अस्ति । थौबल-नद्याः तटे स्थितम् इदं नगरम् । इम्फाल-नदी अपि अस्य नगरस्य समीपे प्रवहति । पनथोईबी, चिङ्गा लैरेनभी-मन्दिरं, तोमजिङ्ग चिङ्ग, मणिपुरसाहित्यसमितिः च अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य हट्टेषु हस्तकलायाः प्रदर्शिन्यः दृश्यन्ते । हस्तनिर्मितानि विशिष्टोत्पादनानि अपि प्राप्यन्ते । अस्य नगरस्य समीपे बहवः तडागाः, बह्व्यः नद्यः च सन्ति । नगरेऽस्मिन् व्रीहीणां क्षेत्राणि सन्ति । थौबल-मण्डलस्य कृषिकार्याय प्रसिद्धम् आसीत् । अस्मिन् नगरे मुख्यत्वेन तण्डुलानां, सर्षपाणां, आलूकानां, विभिन्नफलानां, कौशेयस्य च उत्पादनं क्रियते । वर्षर्तोः अनन्तरम् इदं स्थलं विहाराय श्रेष्ठम् अस्ति । भारतस्य विभिन्नगरेभ्यः जनाः भ्रमणार्थं तत्र गच्छन्ति । थोबल् मण्डालस्य मुख्य आपण स्थलं थोबल् नद्यः तीरे अस्ति ।

थौबल-नगरं १०२ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः थौबल-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । थौबल-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं थौबल-नगरात् २३० किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् गुवाहाटी-नगराय नियमितरूपेण रेलयानानि प्राप्यन्ते । दीमापुर-नगरात् बसयानैः भाटकयानैः वा थौबल-नगरं प्राप्यते । इम्फाल-नगरस्य विमानस्थानकं थौबल-नगरस्य समीपस्थं विमानस्थानकमस्ति । इदं विमानस्थानकं थौबल-नगरात् ३० किलोमीटरमिते दूरे स्थितम् अस्ति । इम्फाल-विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । ततः बेङ्गळूरु-महानगराय, देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण थौबल-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया थौबल-नगरम् प्राप्तुं शक्नुवन्ति ।