सदस्यः:S ABHISHEK 2010668/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Chakara's

जगति योगस्य प्रभावः

poses


जगति नैका भाषाः, नैकाः संस्कृतयः विद्यन्ते इति विदितचरम् । तत्र संस्कृतभाषा अमृता, सर्वप्राचीना, सर्वासां भाषाणां मातृस्थाने विराजते इति समीचिन इतिहास ज्ञानां निश्चलाभिप्रायः । सा एतादृशी संस्कृत भाषा एव भारतीयसंस्कृतेः जननी । अतः उच्चैःरवेण उद्घोष्यते “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” इति । भारते सर्वे दार्शनिकाः सर्वजनोपकारकाणि शास्त्राणि प्रणिनिन्युः। अस्माकं प्रधानमंत्रिवर्याः ‘नरेन्द्र मोदि’ महाभागाः एकदा भाषणे योगस्य प्रभाववर्णने समये “अद्य यः कोऽपि उच्छ्वास-निच्छ्वासकरणे समर्थश्चेदपि अमेरिकादिदेशेषु डालर् रूपेण बहुसम्पादयितुं शक्नोति” इत्यवदत्I

अनेन ज्ञायते जगति योगस्य प्रभावः कीदृशः वर्तत इति । योगशब्दस्य नैके अर्थाः विद्यन्ते । यथा गीतायां “योगः कर्मसु कौशलम्”, “अप्राप्तस्य प्राप्तिः-योगः” इत्यादि । परन्तु अत्र योगशब्दः अष्टाङ्गयोगार्थे प्रयुक्तः वर्तते । योगशास्त्रस्यप्रवर्तकः पतञ्जलिः । तेनोक्तं योगशब्दार्थः षा “योगः - चित्तवृत्तिनिरोधः” इति । अद्य जगति गां सर्वत्र तन्त्रज्ञानं विद्यते । उतरध्रुवस्थाः जनाः दक्षिणध्रुवस्थजनैः सह क्षणाभ्यन्तरे एव सम्बन्धं साधयितुं शक्नुवन्ति । तथाऽपि मनुष्याः उद्वेगः (Stress), खिन्नता (Depression) इत्यादि नैकविधमनो व्याधिना ग्रस्ताः दृश्यन्तेI तथैव वैद्यकीय - पे क्षेत्रेऽपि तन्त्रज्ञानम् अतिगभीरं विस्तृतं च । व्याधिग्रस्ताः ते औषधं ने स्वीकुर्वन्ति, तेन पुनः अन्यव्याधिः दृश्यते इति अनवस्थापरम्परा प्रवर्तमाना दृश्यते अमेरिकादेशे प्रतिशतं जना एव मनो व्याधिना ग्रस्ता विद्यन्ते भारतदेशेऽपि ते दशजनेषु अन्यतमः अस्तमा, बि.पि(B.P), ना मधुमेह इत्यादिभिः ग्रस्तः दृश्यतेI

विश्वसंस्थायां प्रस्तावितनिर्णयेषु शीघ्रमेव अङ्गीकृता एकैव प्रस्तावना इति अस्याः गरिमा। योगोऽनन्तकालात्प्रचलितः शारीरिकमानसिक -आध्यात्मिकाभ्यासः अस्ति । योगस्य मूलान भारतदेशे सर्वत्र प्राप्यन्ते । भारतीयसंस्कृतिः भौतिकसुखापेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति । परन्तु शरीरमेव आध्यात्मिक- क्षेत्रस्य औन्नत्यै एकमात्रसाधनम् इत्यपि भारतीयसंस्कृतेः मतम् यथोक्तं-‘शरीरमाद्यं खलु धर्मसाधनम्’ इति । अतः मनसः शान्तिः शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति । तस्याः आवश्यकतायाः पूर्त्यै भारतीय तत्वचिन्तकैः योगशास्त्रस्य रचना कृता । अनेन योगशास्त्रस्य मनसः शान्तिः शरीरस्य स्वास्थ्यं च वैज्ञानिकरीत्या प्राप्यते । भारतीयसंस्कृतौ 'Prevention is better than cure' इति सिद्धान्तमङ्गीकुर्वन्ति । पाश्चात्यदेशे व्याधि प्राप्त्यनन्तरं चिकित्सा इति सिद्धान्तः । परन्तु व्याधिप्राप्त्यनन्तरं चिकित्साकरणात् यथा व्याधिरेव न भवेत्, तथा जीवनशैल्यनुसरणमेव उचितम् । अतः एव Holistic life इति विषये जगति आसक्तिः बहु दृश्यते ।

तस्याः मूलं योगशास्त्रमेव । अत एव योगदिनाचरणदिने अमेरिकादेशस्थे प्रसिद्धे Time square इति प्रदेशे सहस्राधिकसङ्ख्याकाः जनाः योगाभ्यासं अकुर्वन् । अतः सर्वदेशेषु योगविषये बहुरुचिः दृश्यते । महदिदं प्रमोदस्थानं यत् ‘भारते एव अस्य शास्त्रस्य उद्भवः सज्जातः’ इति । तादृशस्य अस्य योगशास्त्रस्य अभ्यासं वयमपि कुर्मः।