सदस्यः:Sanju 1810181/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

{{Infobox user

  | color       =लोह

  | title       =पतञ्जलिः योगसूत्रस्य | image_caption   =भगवान् पतञ्जलिः | image_width =250px | birthname   =पतञ्जलिः | pen_name   =पतञ्जलिः | country     =भारतं | nationality =भारतीय

}}

पतञ्जलिः[सम्पादयतु]

भगवान् पतञ्जलिः योगसूत्रस्य रचनाकारः । माहेश्वर सम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु अन्यतमः महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां व्यलेखीत् । सेयं व्याख्या महाभाष्यम् इत्याख्या जगति प्रसिद्धाऽस्ति । एषः पतञ्जलिः विश्वविश्रुतः भाषाविदासीत् । महाभाष्यं व्याकरणसन्निभं कठिनं दुरूहञ्च विषयं सारल्येन ज्ञापयितुं समर्थः इत्यत्र सर्वेऽपि विद्वांसः एकमतयः । समस्ते वैयाकरणसमुदाये महाभाष्यं महताऽदरेण प्रामाणिकत्वेन च परिगण्यते ।विभिन्नेषु प्राच्यग्रन्थेषु पतञ्जलेः गोर्नदीयः, गोणिकापुत्रः, नागनाथः, अहिपतिः, फणिराट्, शेषराजः, चूर्णिकारः तथा च पदकारः इत्यादीनि नामानि प्रसिद्धिं भजन्ते । एभिर्नामभिः इदं स्पष्टं प्रतीयते यत् पतञ्जलिः शेषनागस्य अवतारः आसीदिति ।एकदा कश्चित् मुनिः कस्मिंश्चित् तडागे स्नानरतः आसीत् । स्नानसमये कश्चित् क्षुद्रः सर्पः तस्य अञ्जलौ अपतत् । किञ्चिद् भीतः मुनिवरः अपृच्छत् “कोડर्भवान् ?” इति । सर्पः उदतरत् - “सपोડहम्” । ततः श्रुत्वा मुनिवरः पुनः अपृच्छत् “रेफःक्वगतः?” इति । सर्पः उक्तवान् - “त्वया अपहृतः” इति । मुनिवरः स्वत्रुटिं ज्ञात्वा लज्जितः अभवत् । सः ज्ञातवान् यत् अवश्यम् अयं कश्चन महापुरुषः विद्वान् च वर्तते । पतञ्जलेः जीवन-वृत्तान्तविषये अन्याः अपि काश्चन किंवदन्त्यः सन्ति ।विशालकाये महाभाष्येऽपि भगवतः पतञ्जलेः इतिवृत्तम् ईषद उपलभ्यते । अतः पतञ्जलेः देशविषये “इदम्-इत्थम्” इत्येवं वक्तुं न शक्यते । तथापि महाभाष्ये “विभाषा साकाङ्क्षा” इति सूत्रव्याख्यावसरे “अभिजानासि देवदत्त ! कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः” इत्युदाहरणबलेन इदं प्रतीयते यत् पतञ्जलेः जन्मभूः कश्मीरदेशः स्यादिति । महाभाष्यस्य उदाहरणैः इदमपि ज्ञायते यत् पतञ्जलिः आधिक्येन पाटलिपत्रनगरे वासञ्चकार । ततश्च सः भारतस्य दक्षिणपूर्वदिग्भागे महाभाष्यस्य प्रचारप्रसाराय मथुरायां, वाराणस्यां, पाटलिपुत्रे, साकेते, कौशम्ब्यां च प्राचरत् इति प्राक्तनभारतीयैतिह्यानुशीलनेन ज्ञायते ।

<r>sanskrit essay<r/>